भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 34

34.01

सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः।
नानावर्ण^आकृतयस् तन्व् अभ्रे व्योम्नि परिवेषाः॥

34.02

ते रक्त^नील^पाण्डुर^कापोत^अभ्राभ^शबल^*हरित[क्.हरि]^शुक्लाः।
इन्द्र^यम^वरुण^निरृति^श्वसन^ईश^पितामह^*अम्बु[क्.अग्नि]कृताः॥

34.03

धनदः करोति मेचकम् अन्योन्य^गुण^आश्रयेण च^अप्य् अन्ये।
प्रविलीयते मुहुर्मुहुर् अल्पफलः सो +अपि वायुकृतः॥

34.04

चाष^शिखि^रजत^तैल^क्षीर^जलाभः स्वकाल^सम्भूतः।
अविकल^वृत्तः स्निग्धः परिवेषः शिव^सुभिक्ष^करः॥

34.05

सकल^गगन^अनुचारी नैकाभः क्षतज^सन्निभो रूक्षः।
असकल^शकट^शरासन^शृङ्गाटकवत् स्थितः पापः॥

34.06

शिखि^गल^समे +अतिवर्ष्णे बहुवर्णे नृप^वधो भयं धूम्रे।
हरिचाप^निभे युद्धान्य् अशोककुसुम^प्रभे च^अपि॥

34.07

वर्णेन^एकेन यदा बहुलः स्निग्धः क्षुर^अभ्रक^आकीर्णः।
स्व^ऋतौ सद्यो वर्षं करोति पीतश् च दीप्तार्कः॥

34.08

दीप्त^*मृग^विहङ्ग[क्.विहङ्गमृग]^रुतः कलुषः सन्ध्या^त्रय^उत्थितो +अतिमहान्।
भयकृत् तडिद्^उल्का^आद्यैर् हतो नृपं हन्ति शस्त्रेण॥

34.09

प्रतिदिनम् अर्क^हिमांश्वोर् अहर्निशं रक्तयोर् नरेन्द्र^वधः।
परिविष्टयोर् अभीक्षणं लग्न^*अस्तमय[क्.अस्तनभः]स्थयोस् तद्वत्॥

34.10

सेनापतेर् भयकरो द्विमण्डलो न^अतिशस्त्र^कोपकरः।
त्रिप्रभृति शस्त्र^कोपं युवराज^भयं नगररोधम्॥

34.11

वृष्टिस् त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे।
होराजन्माधिपयोर् जन्म^ऋक्षे वां *+अशुभो[क्.वाशुभो ऊ.च अशुभो] राज्ञः॥

34.12

परिवेषमण्डलगतो रवितनयः क्षुद्रधान्य^नाश^करः।
जनयति च वात^वृष्टिं स्थावर^कृषिकृन् निहन्ता च॥

34.13

भौमे कुमार^बलपति^सैन्यानां विद्रवो +अग्निशस्त्र^भयम्।
जीवे परिवेषगते पुरोहित^अमात्य^नृप^पीडा॥

34.14

मन्त्रि^स्थावर^लेखक^परिवृद्धिश् चन्द्रजे सुवृष्टिश् च।
शुक्रे यायि^क्षत्रिय^*राज्ञी[क्.राज्ञां]पीडा प्रियं चान्नम्॥

34.15

क्षुद्^अनल^मृत्यु^नराधिप^शस्त्रेभ्यो जायते भयं केतौ।
परिविष्टे गर्भ^भयं राहौ व्याधिर् नृप^भयं च॥

34.16

युद्धानि विजानीयात् परिवेष^अभ्यन्तरे द्वयोर् ग्रहयोः।
दिवसकृतः शशिनो वा क्षुद्^अवृष्टि^भयं त्रिषु प्रोक्तम्॥

34.17

याति चतुर्षु नरेन्द्रः स^अमात्य^पुरोहितो वशं मृत्योः।
प्रलयम् इव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु॥

34.18

ताराग्रहस्य कुर्यात् पृथग् एव समुत्थितो नरेन्द्र^वधम्।
नक्षत्राणाम् अथ वा यदि केतोर् न^उदयो भवति॥

34.19

विप्र^क्षत्रिय^विट्^शूद्रहा भवेत् प्रतिपद्^आदिषु क्रमशः।
श्रेणी^पुर^कोशानां पञ्चम्य्^आदिष्व् अशुभकारी॥

34.20

युवराजस्य^अष्टम्यां परतस् त्रिषु पार्थिवस्य दोषकरः॥
पुर^रोधो द्वादश्यां सैन्य^क्षोभस् त्रयोदश्याम्॥

34.21

नरपतिपत्नी^पीडां परिवेषो +अभ्युत्थितश् चतुर्दश्याम्।
कुर्यात् तु पञ्चदश्यां पीडां मनुजाधिपस्य^एव॥

34.22

नागरकाणाम् अभ्यन्तर^स्थिता यायिनां च बाह्यस्था।
परिवेष^मध्य^रेखा विज्ञेया^आक्रन्दसाराणाम्॥

34.23

रक्तः श्यामो रूक्षश् च भवति येषां पराजयस् तेषाम्।
स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस् तेषाम्॥
35 इन्द्रायुद्धलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc