बृहत्संहिता · अध्याय 35
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः स^अभ्रे।
वियति धनुः^संस्थाना ये दृश्यन्ते तद् इन्द्रधनुः॥
के चिद् अनन्तकुल^उरग^निःश्वास^उद्भूतम् आहुर् आचार्याः।
तद् यायिनां नृपाणाम् अभिमुखम् अजय^आवहं भवति॥
अच्छिन्नम् अवनि^गाढं द्युतिमत् स्निग्धं घनं विविधवर्णम्।
द्विर् उदितम् अनुलोमं च प्रशस्तम् अम्भः प्रयच्छति च॥
विदिग्^उद्भूतं दिक्^स्वामि^नाशनं व्यभ्रजं मरक^कारि।
पाटल^पीतक^नीलैः शस्त्र^अग्नि^क्षुत्^कृता दोषाः॥
जलमध्ये +अनावृष्टिर् भुवि सस्य^वधस् तरौ स्थिते व्याधिः।
*वाल्मीके[क्.वल्मीके] शस्त्र^भयं निशि सचिव^वधाय धनुर् ऐन्द्रम्॥
वृष्टिं करोत्य् अवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्य् ऐन्द्र्याम्।
पश्चात् सदैव वृष्टिं कुलिशभृतश् चापम् आचष्टे॥
चापं मघोनः कुरुते निशायाम्
आखण्डलायां दिशि भूपपीडाम्।
याम्य^अपर^उदक्^प्रभवं निहन्यात्
सेनापतिं नायक^मन्त्रिणौ च॥
निशि सुरचापं सित^वर्णाद्यं जनयति पीडां द्विज^पूर्वाणाम्।
भवति च यस्यां दिशि तद् देश्यं नरपति^मुख्यं नचिराद् धन्यात्॥
36 गन्धर्वनगरलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0