बृहत्संहिता · अध्याय 33
दिवि भुक्त^शुभफलानां पततां रूपाणि यानि तान्य् उल्काः।
धिष्ण्या^उल्का^अशनि^विद्युत्^तारा इति पञ्चधा भिन्नाः॥
उल्का पक्षेण फलं तद्वद् धिष्ण्या^अशनिस् त्रिभिः पक्षैः।
विद्युद् अहोभिः षड्भिः तद्वत् तारा विपाचयति॥
तारा फल^पाद^करी फलार्धदात्री प्रकीर्तिता धिष्ण्या।
तिस्रः सम्पूर्ण^फला विद्युद् अथ^उल्का^अशनिश् च^इति॥
अशनिः स्वनेन महता नृ^गज^अश्व^मृग^अश्म^वेश्म^तरु^पशुषु।
निपतति विदारयन्ती धरातलं चक्र^संस्थाना॥
विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा।
कुतिलविशाला निपतति जीव^इन्धनराशिषु ज्वलिता॥
धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यते +अन्तराभ्यधिकम्।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन॥
तारा हस्तं दीर्घा शुक्ला ताम्र^अब्ज^तन्तु^रूपा वा।
तिर्यग् अधश् च^ऊर्ध्वं वा याति वियत्य् उह्यमाना^इव॥
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनु^पुच्छा॥
दीर्घा *च भवति[क्.भवति च] पुरुषं भेदा बहवो भवत्य् अस्याः॥
प्रेत^प्रहरण^खर^करभ^नक्र^कपि^दंष्ट्रि^लाङ्गल^मृगाभाः।
गोधा^अहि^धूम^रूपाः पापा या च^उभयशिरस्का॥
ध्वज^झष^*गिरि^करि[क्.करिगिरि]^कमल^इन्दु^तुरग^सन्तप्त^रजत^हंसाभाः।
*श्रीवृक्ष[क्.श्रीवत्स, क्ऽस् त्र्. श्रीवृक्ष]^वज्र^शङ्ख^स्वस्तिक^रूपाः शिव^सुभिक्षाः॥
अम्बर^मध्याद् बह्व्यो निपतन्त्यो राज^राष्ट्र^नाशाय।
बम्भ्रमती गगन^उपरि विभ्रमम् आख्याति लोकस्य॥
संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च।
परचक्र^आगम^नृप^भय^दुर्भिक्ष^अवृष्टि^भय^जननी॥
पौर^इतरघ्नम् उल्का^अपसव्य^करणं दिवाकर^हिमांशवोः।
उल्का शुभदा पुरतो दिवाकर^विनिःसृता यातुः॥
शुक्ला रक्ता पीता कृष्णा च^उल्का द्विज^आदिवर्णघ्नी।
क्रमशश् चैतान् हन्युर् मूर्ध^उरः^पार्श्व^पुच्छ^स्थाः॥
उत्तरदिग्^आदि^पतिता विप्रादीनाम् अनिष्टदा रूक्षा।
ऋज्वी स्निग्ध^अखण्डा नीच^उपगता च तद्^वृद्ध्यै॥
*श्याव^अरुण[क्.श्यामा वारुण]^नील^असृग्^दहन^असित^भस्म^सन्निभा रूक्षा।
सन्ध्या^दिन^जा वक्रा दलिता च पर^आगम^भयाय॥
नक्षत्र^ग्रह^*घातैस्[क्.घाते] तद्भक्तीनां क्षयाय निर्दिष्टा।
उदये घ्नती रवीन्दू पौर^इतर^मृत्यवे +अस्ते वा॥
भाग्य^आदित्य^धनिष्ठा^मूलेषु^उल्का^हतेषु युवतीनाम्।
विप्र^क्षत्रिय^पीडा पुष्य^अनिल^विष्णुदेवेषु॥
ध्रुव^सौम्येषु नृपाणाम् उग्रेषु सदारुणेषु चौराणाम्।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते॥
कुर्वन्त्य् एताः पतिता देवप्रतिमासु राज^राष्ट्र^भयम्।
शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम्॥
आशा^ग्रह^उपघाते तद्देश्यानां खले कृषिरतानाम्।
चैत्यतरौ सम्पतिता सत्कृत^पीडां करोत्य् उल्का॥
द्वारि पुरस्य पुरक्षयम् अथ^इन्द्रकीले जनक्षयो +अभिहितः।
ब्रह्म^आयतने विप्रान् विनिहन्याद् गोमिनो गोष्ठे॥
क्ष्वेडा^आस्फोटित^वादित^गीत^उत्कुष्ट^स्वना भवन्ति यदा।
उल्का^निपात^समये भयाय राष्ट्रस्य सनृपस्य॥
यस्याश् चिरं तिष्ठति खे +अनुषङ्गो
दण्डाकृतिः सा नृपतेर् भयाय।
या च^उह्यते तन्तुधृता^इव खस्था
या वा महेन्द्र^ध्वज^तुल्य^रूपा॥
श्रेष्ठिनः प्रतीपगा तिर्यगा *नृपाङ्गनानाम्[क्.नृपाङ्गनाः]।
हन्त्य् अधोमुखी नृपान् ब्राह्मणान् अथ^ऊर्ध्वगा॥
*बर्हि[क्.वर्हि]^पुच्छ^रूपिणी लोक^संक्षय^आवहा।
सर्पवत् *प्रसर्पती[क्.प्रसर्पिणी] योषिताम् अनिष्टदा॥
हन्ति मण्डला पुरं छत्रवत् पुरोहितम्।
वंश^गुल्मवत् स्थिता राष्ट्र^दोष^कारिणी॥
व्याल^सूकर^उपमा विस्फुलिङ्ग^मालिनी।
खण्डशो +अथ वा गता सस्वना च पापदा॥
सुरपतिचाप^प्रतिमा राज्यं नभसि विलीना जलदान् हन्ति।
पवन^विलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा॥
अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य।
निपतति च यया दिशा प्रदीप्ता जयति रिपून् अचिरात् तया प्रयातः॥
34 परिवेषलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0