बृहत्संहिता · अध्याय 32
क्षितिकम्पम् आहुर् एके बृहदन्तर्जलनिवासिसत्त्व^कृतम्।
भूभार^खिन्न^दिग्गज^विश्राम^समुद्भवं च^अन्ये॥
अनिलो +अनिलेन निहतः क्षितौ पतन् सस्वनं करोत्य् *अन्ये[क्.एके]।
के चित् त्व् अदृष्ट^कारितम् इदम् अन्ये प्राहुर् आचार्याः॥
गिरिभिः पुरा सपक्षैर् वसुधा प्रपतद्भिर् उत्पद्भिश् च।
आकम्पिता पितामहम् आह^अमरसदसि सव्रीडम्॥
भगवन् नाम मम^एतत् त्वया कृतं यद् अचल^इति तन् न तथा।
क्रियते +अचलैश् चलद्भिः शक्ताहं नास्य खेदस्य॥
तस्याः *सगद्गद^गिरं[क्.सगड्गदगिरं] किं चित् स्फुरिताधरं विनतम् ईषत्।
साश्रुविलोचनम् आननम् आलोक्य पितामहः प्राह॥
मन्युं हर^इन्द्र धात्र्याः क्षिप कुलिशं शैल^पक्ष^भङ्गाय।
शक्रः कृतम् इत्य् उक्त्वा मा भैर् इति वसुमतीम् आह॥
किन्त्व् अनिल^दहन^सुरपति^वरुणाः सदसत्फल^अवबोधार्थम्।
प्राग् द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति॥
चत्वार्य् आर्यम्णाद्यान्य् आदित्यं मृगशिरो +अश्वयुक् च^इति।
मण्डलम् एतद् वायव्यम् अस्य रूपाणि सप्ताहात्॥
धूम^आकुलीकृत^आशे नभसि नभस्वान् रजः क्षिपन् भौमम्।
विरुजन् द्रुमांश् च विचरति रविर् अपटु^कर^अवभासी च॥
वायव्ये भूकम्पे सस्य^अम्बु^वन^औषधी^क्षयो +अभिहितः।
श्वयथु^श्वास^उन्माद^ज्वर^कास^*भवो[क्.भवा] वणिक्^पीडा॥
रूप^आयुध^भृद्^वैद्या^स्त्री^कवि^गान्धर्व^पण्य^शिल्पिजनाः।
पीड्यन्ते सौराष्ट्रक^कुरु^मघध^दशार्ण^मत्स्याश् च॥
पुष्य^आग्नेय^विशाखा^भरणी^पित्र्य^अज^भाग्य^संज्ञानि।
वर्गो हौतभुजो +अयं करोति रूपाण्य् अथ^एतानि॥
तारा^उल्कापात^आवृतम् आदीप्तम् इव^अम्बरं सदिग्दाहम्।
विचरति मरुत्^सहायः सप्तार्चिः सप्तदिवसान्तः॥
आग्नेये +अम्बुद^नाशः सलिलाशय^संक्षयो नृपति^वैरम्।
दद्रू^विचर्चिका^ज्वर^विसर्पिकाः पाण्डुरोगश् च॥
दीप्तौजसः प्रचण्डाः पीड्यन्ते च^अश्मक^अङ्ग^बाह्लीकाः।
तङ्गण^कलिङ्ग^वङ्ग^*द्रविडाः[उ.द्रविणाः] *शबरा अनेकविधाः[क्.शबराश् च नैकविधाः]॥
अभिजित्^श्रवण^धनिष्ठा^प्राजापत्य^ऐन्द्र^वैश्व^मैत्राणि।
सुरपति^मण्डलम् एतद् भवन्ति *च^अप्य् अस्य रूपाणि[क्.च अस्य स्वरूपाणि]॥
चलित^अचल^वर्ष्माणो गम्भीर^विराविणस् *तडिद्वन्तः[क्.तडित्वन्तः]।
गवल^अलिकुल^अहिनिभा विसृजन्ति पयः पयोवाहाः॥
ऐन्द्रं *स्तुत[क्.श्रुति]^कुलजाति^ख्यात^अवनिपाल^गणप^विध्वंसि।
अतिसार^गलग्रह^वदनरोग^कृच् छर्दिकोपाय॥
काशि^युगन्धर^पौरव^किरात^कीर^अभिसार^हल^मद्राः।
अर्बुद^*सुराष्ट्र[क्.सुवास्तु]^मालव^पीडाकरम् इष्टवृष्टिकरम्॥
पौष्ण^आप्य^आर्द्रा^आश्लेषा^मूल^अहिर्बुध्न्य^वरुणदेवानि।
मण्डलम् एतद् वारुणम् अस्यापि भवन्ति रूपाणि॥
नीलोत्पल^अलि^भिन्न^अञ्जन^त्विषो मधुर^राविणो बहुलाः।
तडिद्^उद्भासित^देहा *धारा^अङ्कुर[क्.धाराङ्कुश]वर्षिणो जलदाः॥
वारुणम् अर्णव^सरिद्^आश्रित^घ्नम् अतिवृष्टिदं विगत^वैरम्।
गोनर्द^चेदि^कुकुरान् किरात^वैदेहकान् हन्ति॥
षड्भिर् मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः।
अन्यान् अप्य् उत्पातान् जगुर् अन्ये मण्डलैर् एतैः॥
[क्.3वेर्सेस् इन्सेर्तेद्
क्.32.24अब्। उल्का हरिश् चन्द्रपुरं रजश् च निर्घातभूकम्पककुप्प्रदाहाः।
क्.32.24च्द्। वातो +अतिचण्डो ग्रहणं रवीन्द्वोर् नक्षत्रतारागणवैकृतानि॥
क्.32.25अब्। व्यभ्रे वृष्टिर् वैकृतं वातवृष्टिर् धूमो +अनग्नेर् विस्फुलिङ्गार्चिषो वा।
क्.32.25च्द्। वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा॥
क्.32.26अब्। सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः।
क्.32.26अब्। अन्यच् च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैर् एव फलं निगाद्यम्॥]
हन्त्य् ऐन्द्रो वायव्यं वायुश् च^अप्य् ऐन्द्रम् एवम् अन्योन्यम्।
वारुण^हौतभुजाव् अपि वेला^नक्षत्रजाः कम्पाः॥
प्रथित^नरेश्वर^मरण^व्यसनान्य् आग्नेय^वायुमण्डलयोः।
क्षुद्भय^मरक^अवृष्टिभिर् उपताप्यन्ते जनाश् च अपि॥
वारुण^पौरन्दरयोः सुभिक्ष^शिववृष्टि^हार्दयो लोके।
गावो +अतिभूरि^पयसो निवृत्त^वैराश् च भूपालाः॥
पक्षैश् चतुर्भिर् अनिलस् त्रिभिर् अग्निर् देवराट् च सप्ताहात्।
सद्यः फलति च वरुणो येषु न कालो +अद्भुतेषु^उक्तः॥
चलयति पवनः शतद्वयं शतम् अनलो दशयोजन^अन्वितम्।
सलिलपतिर् अशीतिसंयुतं कुलिशधरो +अभ्यधिकं च *षष्टितः[क्.षष्टिकम्]॥
त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे।
यदि भवति भूमिकम्पः प्रधान^नृप^नाशनो भवति॥
33 उल्कालक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0