बृहत्संहिता · अध्याय 31
दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः।
यश् च^अरुणः स्याद् अपसव्य^वायुः सस्यस्य नाशं स करोति दृष्टः॥
यो +अतीव दीप्त्या कुरुते प्रकाशं
छायाम् अपि व्यञ्जयते +अर्कवद् यः।
राज्ञो महद् वेदयते भयं स
शस्त्र^प्रकोपं क्षतज^अनुरूपः॥
प्राक् क्षत्रियाणां सनरेश्वराणां
प्राग्दक्षिणे शिल्पि^कुमार^पीडा।
याम्ये सह^उग्रैः पुरुषैस् तु वैश्या
दूताः पुनर्भूप्रमदाश् च कोणे॥
पश्चात् तु शूद्राः कृषि^जीविनश् च
चौरास् तुरङ्गैः सह वायुदिक्स्थे।
पीडां व्रजन्त्य् उत्तरतश् च विप्राः
*पाखण्डिनो[क्.पाषण्डिनो] वाणिजकाश् च शार्व्याम्॥
नभः प्रसन्नं विमलानि भानि
प्रदक्षिणं वाति सदागतिश् च।
दिशां च दाहः कनक^अवदातो
हिताय लोकस्य सपार्थिवस्य॥
32 भूकम्पलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0