भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 30

30.01

अर्ध^अस्तमितान् उदितात् सूर्याद् अस्पष्टभं नभो यावत्।
तावत् सन्ध्याकालश् चिह्नैर् एतैः फलं च^अस्मिन्॥

30.02

मृग^*शकुनि[क्.शकुन]^पवन^परिवेष^परिधि^परिघ^अभ्रवृक्ष^सुरचापैः।
गन्धर्वनगर^रविकर^दण्ड^रजः स्नेहवर्णैश् च॥

30.03

भैरवम् उच्चैर् विरुवन् मृगो +असकृद् ग्राम^घातम् आचष्टे।
रविदीप्तो दक्षिणतो महास्वनः सैन्य^घातकरः॥

30.04

अपसव्ये संग्रामः सव्ये सेना^समागमः शान्ते।
मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः॥

30.05

दीप्त^मृग^अण्डज^विरुता प्राक् सन्ध्या देश^नाशम् आख्याति।
दक्षिणदिक्^स्थैर् विरुता ग्रहणाय पुरस्य दीप्तास्यैः॥

30.06

गृह^तरु^तोरण^मथने सपांशु^लोष्ट^उत्करे +अनिले प्रबले।
भैरवरावे रूक्षे खगपातिनि च^अशुभा सन्ध्या॥

30.07

मन्द^पवन^अवघट्टित^चलित^पलाश^द्रुमा विपवना वा।
मधुरस्वर^शान्त^विहङ्ग^मृग^रुता पूजिता सन्ध्या॥

30.08

सन्ध्याकाले स्निग्धा दण्ड^तडित्^मत्स्य^परिधि^परिवेषाः।
सुरपतिचाप^ऐरावत^रविकिरणाश् चाशु वृष्टिकरः॥

30.09

विच्छिन्न^विषम^विध्वस्त^विकृत^कुटिल^अपसव्य^परिवृत्ताः।
तनु^ह्रस्व^विकल^कलुषाश् च विग्रह^अवृष्टिदाः किरणाः॥

30.10

उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः।
किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः॥

30.11

शुक्लाः करा दिनकृतो दिव^आदि^मध्य^अन्त^गामिनः स्निग्धाः।
अव्युच्छिन्ना ऋजवो वृष्टिकरास् ते *त्व्[क्.ह्य्] अमोघाख्याः॥

30.12

कल्माष^बभ्रु^कपिला विचित्र^माञ्जिष्ठ^हरित^शबलाभाः।
त्रिदिव^अनुबन्धिनो +अवृष्टये +अल्पभयदास् तु सप्ताहात्॥

30.13

ताम्रा बलपति^मृत्युं पीत^अरुण^सन्निभाश् च तद्^व्यसनम्।
हरिताः पशु^सस्य^बधं धूमसवर्णा गवां नाशम्॥

30.14

माञ्जिष्टाभाः शस्त्र^अग्नि^सम्भ्रमं बभ्रवः पवन^वृष्टिम्।
भस्म^सदृशास् त्व् अवृष्टिं तनुभावं शबल^कल्माषाः॥

30.15

बन्धूक^पुष्प^अञ्जन^चूर्ण^सन्निभं
सान्ध्यं रजो +अभ्येति यदा दिवाकरम्।
लोकास् तदा रोगशतैर् निपीड्यते
शुक्लं रजो लोक^विवृद्धि^शान्तये॥

30.16

रविकिरण^जलद^मरुतां सङ्घातो दण्डवत् स्थितो दण्डः।
स विदिक्^स्थितो नृपाणाम् अशुभो दिक्षु *द्विजादीनाम्[क्ऽस् त्र्. द्विजातीनाम्]॥

30.17

शस्त्र^भय^आतङ्क^करो दृष्टः प्राङ्^मध्य^सन्धिषु दिनस्य।
शुक्लाद्यो विप्रादीन् यद् अभिमुखस् तां निहन्ति दिशम्॥

30.18

दधिसदृशाग्रो नीलो भानु^च्छादी ख^मध्यगो +अभ्रतरुः।
पीतच्छुरिताश् च घना घनमूला भूरिवृष्टिकराः॥

30.19

अनुलोमगे +अभ्रवृक्षे शमं गते यायिनो नृपस्य बधः।
बालतरु^प्रतिरूपिणि युवराज^अमात्ययोर् मृत्युः॥

30.20

कुवलय^वैदूर्य^अम्बुज^किञ्जल्काभा प्रभञ्जन^उन्मुक्ता।
सन्ध्या करोति वृष्टिं रविकिरण^उद्भासिता सद्यः॥

30.21

अशुभ^आकृति^घन^गन्धर्वनगर^नीहार^*धूम^पांशुयुता[क्.पांशुधूमयुता]।
प्रावृषि करोत्य् अवग्रहम् अन्यर्तौ शस्त्र^कोपकरी॥

30.22

शिशिरादिषु वर्णाः शोण^पीत^सित^चित्र^पद्म^रुधिर^निभाः।
प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिर् अन्या॥

30.23

आयुधभृन् नररूपं छिन्नाभ्रं परभयाय रविगामि।
सित^खपुरे +अर्क^आक्रान्ते पुरलाभो भेदने नाशः॥

30.24

सित^सितान्त^घन^आवरणं रवेर्
भवति वृष्टिकरं यदि सव्यतः।
यदि च वीरण^गुल्म^निभैर् घनैर्
दिवसभर्तुर् अदीप्तदिग्^उद्भवैः॥

30.25

नृप^विपत्तिकरः परिघः सितः क्षतज^तुल्यवपुर् बलकोपकृत्।
कनक^रूपधरो बल^वृद्धिदः सवितुर् उद्गम^काल^समुत्थितः॥

30.26

उभयपार्श्वगतौ परिधी रवेः
प्रचुरतोय^*करौ[क्.कृतौ] वपुषा^अन्वितौ।
अथ समस्त^ककुप्^परिचारिणः
परिधयो +अस्ति कणो +अपि न वारिणः॥

30.27

ध्वज^आतपत्र^पर्वत^द्विप^अश्व^रूपधारिणः।
जयाय सन्ध्ययोर् घना रणाय रक्तसन्निभाः॥

30.28

पलाल^धूम^सञ्चय^स्थित^उपमा बलाहकाः।
बलान्य् अरूक्ष^मूर्तयो विवर्धयन्ति भूभृताम्॥

30.29

विलम्बिनो द्रुम^उपमाः खर^अरुण^प्रकाशिनः।
घनाः शिवाय सन्ध्ययोः पुर^उपमाः शुभावहाः॥

30.30

दीप्त^विहङ्ग^शिवा^मृग^घुष्टा दण्ड^रजः^परिघ^आदियुता च।
प्रत्यहम् अर्कविकारयुता वा देश^नरेश^सुभिक्ष^बधाय॥

30.31

प्राची तत्क्षणम् एव नक्तम् अपरा सन्ध्या त्र्यहाद् वा फलं
सप्ताहात् परिवेष^रेणु^परिघाः कुर्वन्ति सद्यो न चेत्।
तद्वत् सूर्यकर^इन्द्रकार्मुक^तडित्^प्रत्यर्क^मेघ^अनिलास्
तस्मिन्न् एव दिने +अष्टमे +अथ विहगाः सप्ताहपाका मृगाः॥

30.32

एकं दीप्त्या योजनं भाति सन्ध्या
विद्युद्भासा षट् प्रकाशीकरोति।
पञ्च^अब्दानां गर्जितं याति शब्दो
नास्तीयत्ता *के चिद्[क्.का चिद्] उल्कानिपाते॥

30.33

प्रत्यर्कसंज्ञः परिधिस् तु तस्य
*त्रियोजनाभः[क्.त्रियोजना भा] परिघस्य पञ्च।
षट्पञ्चदृश्यं परिवेषचक्रं
दश^अमरेशस्य धनुर् विभाति॥
31 दिग्दाहलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc