भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 29

29.01

फल^कुसुम^सम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम्।
सुलभत्वं द्रव्याणां निष्पत्तिश् च^अपि सस्यानाम्॥

29.02

शालेन कलमशाली रक्ताशोकेन रक्तशालिश् च।
पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः॥

29.03

न्यग्रोधेन तु यवकस् तिन्दुक^वृद्ध्या च षष्टिको भवति।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम्॥

29.04

जम्बूभिस् तिल^माषाः शिरीष^वृद्ध्या च कङ्गु^निष्पत्तिः।
गोधूमाश् च मधूकैर् यव^वृद्धिः सप्तपर्णेन॥

29.05

अतिमुक्तक^कुन्दाभ्यां कर्पासं सर्षपान् वदेद् अशनैः।
बदरीभिश् च कुलत्थांश् *चिरविल्वेन[क्.ऊ.चिरबिल्वेन]^आदिशेत्^मुद्गान्॥

29.06

अतसी वेतस^पुष्पैः पलाश^कुसुमैश् च कोद्रवा ज्ञेयाः।
तिलकेन शङ्ख^मौक्तिक^रजतान्य् अथ च^इङ्गुदेन *शणाः[क्.शणः]॥

29.07

करिणश् च हस्तिकर्णैर् आदेश्या वाजिनो +अश्वकर्णेन।
गावश् च पाटलाभिः कदलीभिर् अज^आविकं भवति॥

29.08

चम्पक^कुसुमैः कनकं विद्रुम^सम्पच् च बन्धुजीवेन।
*कुरवक[क्.कुरुवक]^वृद्ध्या वज्रं वैदूर्यं नन्दिकावर्तैः॥

29.09

विन्द्याच् च सिन्धुवारेण मौक्तिकं *कारुकाः[क्.कुङ्कुमं] कुसुम्भेन।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः॥

29.10

श्रेष्ठी *सुवर्णपुष्पात्[क्.सुवर्णपुष्पैः] पद्मैर् विप्राः पुरोहिताः कुमुदैः।
सौगन्धिकेन बलपतिर् अर्केण हिरण्य^परिवृद्धिः॥

29.11

आम्रैः क्षेमं भल्लातकैर् भयं पीलुभिस् तथा^आरोग्यम्।
खदिर^शमीभ्यां दुर्भिक्षम् अर्जुनैः शोभना वृष्टिः॥

29.12

पिचुमन्द^नागकुसुमैः सुभिक्षम् अथ मारुतः कपित्थेन।
निचुलेन^अवृष्टिभयं व्याधिभयं भवति कुटजेन॥

29.13

दूर्वा^कुश^कुसुमाभ्याम् इक्षुर् वह्निश् च कोविदारेण।
श्यामालता^अभिवृद्ध्या बन्धक्यो वृद्धिम् आयान्ति॥

29.14

यस्मिन् *काले[क्.देशे] स्निग्ध^निश्छिद्र^पत्राः
संदृश्यन्ते वृक्षगुल्मा लताश् च।
तस्मिन् वृष्टिः शोभना सप्रदिष्टा
रूक्षैश् छिद्रैर् अल्पम् अम्भः प्रदिष्टम्॥
30 सन्ध्यालक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc