बृहत्संहिता · अध्याय 2
न प्रतिबद्धं गमयति वक्ति न च प्रश्नम् एकम् अपि पृष्टः।
निगदति न च शिष्येभ्यः स कथं शास्त्र^अर्थविज् ज्ञेयः॥
ग्रन्थो +अन्यथा^अन्यथा^*अर्थं[क्.अर्थः] करणं यश् च^अन्यथा करोत्य् अबुधः।
स पितामहम् उपगम्य स्तौति नरो वैशिकेन^आर्याम्॥
तन्त्रे सुपरिज्ञाते लग्ने छाया^अम्बुयन्त्र^संविदिते।
होरा^अर्थे च सुरूढे न^आदेष्टुर् भारती वन्ध्या॥
उक्तन् चार्य^विष्णु^गुप्तेन
अप्य् अर्णवस्य पुरुषः प्रतरन् कदा चिद्
आसादयेद् अनिल^वेग^वशेन पारम्।
न त्व् अस्य कालपुरुष^आख्य^महा^अर्णवस्य
गच्छेत् कदा चिद् अनृषिर् मनसा^अपि पारम्॥
2.(13) होराशास्त्रे +अपि [क्.च] राशि^होरा^द्रेष्काण^नवांशक^द्वादशभाग^त्रिंशद्भाग^बल^अबल^परिग्रहो ग्रहाणां दिक्^स्थान^काल^चेष्टाभिर् अनेक^प्रकार^बल^निर्धारणं प्रकृति^धातु^द्रव्य^जाति^चेष्टा^आदि^परिग्रहो निषेक^जन्म^काल^विस्मापन^प्रत्यय^आदेश^सद्योमरण^आयुर्दाय^दशा^अन्तर्दशा^अष्टक^वर्ग^राजयोग^चन्द्रयोग^द्विग्रह^आदियोगानां नाभस^आदीनाम्
च योगानाम् फलान्य् आश्रय^भाव^अवलोकन^निर्याण^गत्य्^अनूकानि *तत्काल[क्.तात्कालिक]प्रश्न^शुभ^अशुभ^निमित्तानि विवाह^आदीनाम् च कर्मनां करणम्।
2.(14) यात्रायां तु [क्.च] तिथि^दिवस^करण^नक्षत्र^मुहूर्त^विलग्न^योग^देह^स्पन्दन^स्वप्न^विजय^स्नान^ग्रहयज्ञ^गण^याग^अग्निलिङ्ग^हस्त्य्^अश्व^इङ्गित^सेना^प्रवाद^चेष्टा^आदि^ग्रह^षाड्गुण्य^उपाय^मङ्गल^अमङ्गल^शकुन^सैन्य^निवेश^भूमयो +अग्निवर्णा मन्त्रि^चर^दूत^आटविकानां यथाकालं प्रयोगाः परदुर्ग^उपलम्भ^उपायश् च^इत्य् उक्तं च^आचार्यैः।
जगति प्रसारितम् इव^आलिखितम् इव मतौ निषिक्तम् इव हृदये।
शास्त्रं यस्य सभगणं न^आदेशा *निष्फलास्[क्.निःफलास्] तस्य॥
2.(15) संहिता^पारगश् च दैव^चिन्तको भवति।
2.(16) यत्र +एते संहिता^पदार्थाः।
2.(17.1) दिन^कर^आदीनाम् ग्रहाणां चारास् तेषु च तेषां प्रकृति^विकृति^प्रमाण^वर्ण^किरण^द्युति^संस्थान^अस्तमन^उदय^मार्ग^मार्गान्तर^वक्र^अनुवक्र^ऋक्ष^ग्रह^समागम^चार^आदिभिः फलानि नक्षत्र^कूर्म^विभागेन देशेष्व् *अगस्त्य^चारः[क्.अगस्तिचारः]। सप्तर्षि^चारः ।ग्रह^भक्तयो
नक्षत्र^व्यूह^ग्रह^शृङ्गाटक^ग्रह^युद्ध^ग्रह^समागम^ग्रह^वर्ष^फल^गर्भ^लक्षण^रोहिणी^स्वात्य्^आषाढीयोगाः
सद्योवर्ष^कुसुमलता^परिधि^परिवेष^परिघ^पवन^उल्का^दिग्दाह^क्षितिचलन^सन्ध्या^राग^गन्धर्वनगर^रजो^निर्घात^अर्घ^काण्ड^सस्यजन्म^इन्द्रध्वज^इन्द्रचाप^वास्तुविद्या^अङ्गविद्या^वायसविद्या^अन्तरचक्र^मृगचक्र^श्वचक्र^वातचक्र^प्रासादलक्षण^प्रतिमालक्षण^प्रतिष्ठापन^वृक्षायुर्वेद^उदगार्गल^नीराजन^*खञ्जनक[क्.खञ्जन]^उत्पातशान्ति^
मयूरचित्रक^घृत^कम्बल^खड्ग^पट्ट^कृकवाकु^कूर्म^गो^अज^अश्व^इभ^पुरूष[क्.ऊ.पुरुष]^स्त्री^लक्षणान्य्
2.(17.2) अन्तःपुर^चिन्ता^पिटकलक्षण^उपानच्छेद^वस्त्रच्छेद^चामर^दण्ड^*शयन[क्.शय्या]^आसनलक्षण^रत्नपरीक्षा दीपलक्षणं दन्तकाष्ठ^आद्य्^आश्रितानि शुभ^अशुभानि निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं पार्थिवे च प्रतिक्षणम् अनन्यकर्म^अभियुक्तेन दैवज्ञेन चिन्तयितव्यानि। न च^एकाकिना शक्यन्ते +अहर्निशम् अवधारयितुं निमित्तानि। तस्मात्
सुभृतेन^एव दैवज्ञेन अन्ये *+अपि[क्.ओमित्तेद्] तद्विदश् चत्वारः *कर्तव्याः[क्.भर्तव्याः]।तत्र^एकेन^ऐन्द्री च^आग्नेयी च दिग् अवलोकयितव्या। याम्या नैरृती च^अन्येन^एवं वारुणी वायव्या च^उत्तरा च^ऐशानि च^इति। यस्माद् *उल्का^पात^आदीनि[क्.निमित्तानि] शीघ्रम् *अपगच्छति[क्.उपगच्छति]^इति। *तस्याश्[क्.तेषां]
च^आकार^वर्ण^स्नेह^प्रमान^आदि^ग्रह^ऋक्ष^उपघात^आदिभिः फलानि भवन्ति।
उक्तं च गर्गेण महर्षिणा
कृत्स्न^अङ्ग^उपाङ्ग^कुशलं होरा^गणित^नैष्ठिकम्।
यो न पूजयते राजा स नाशम् उपागच्छति॥
वनं समाश्रिता ये +अपि निर्ममा निष्परिग्रहाः।
अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम्॥
अप्रदीपा यथा रात्रिर् अनादित्यं यथा नभः।
तथा^असांवत्सरो राजा भ्रम्यत्य् अन्ध इव^अध्वनि॥
*मुहूर्त[क्.मुहूर्तं]^तिथि^नक्षत्रम् ऋतवश् च^अयने तथा।
सर्वाण्य् एव^अकुलानि स्युर् न स्यात् सांवत्सरो यदि॥
तस्माद् राज्ञा^अधिगन्तव्यो विद्वान् सांवत्सरो +अग्रणीः।
जयं यशः श्रियं भोगान् श्रेयश् च समभीप्सता॥
न^असांवत्सरिके देशे वस्तव्यं भूतिम् इच्छता।
चक्षुर्^भूतो हि यत्र^एष पापं तत्र न विद्यते॥
न सांवत्सर^पाठी च नरकेषु^उपपद्यते।
ब्रह्मलोक^प्रतिष्ठां च लभते दैवचिन्तकः॥
ग्रन्थतश् च^अर्थतश् च^एतत् कृत्स्नं जानति यो द्विजः।
अग्रभुक् स भवेत्^श्राद्धे पूजितः पङ्क्ति^पावनः।
म्लेच्छा हि यवनास् तेषु सम्यक् शास्त्रम् इदं स्थितम्।
ऋषिवत् ते +अपि पूज्यन्ते किं पुनर् दैवविद् द्विजः॥
कुहक^आवेश^पिहितैः कर्ण^उपश्रुति^हेतुभिः।
कृत^आदेशो न सर्वत्र प्रष्टव्यो न स दैववित्॥
अविदित्वा^एव *यत्[क्.यः]^शास्त्रं दैवज्ञत्वं प्रपद्यते।
स पङ्क्ति^दूषकः पापो ज्ञेयो नक्षत्र^सूचकः॥
[क्.2.18अब्। नक्षत्र^सूचक^उद्दिष्टम् उपहासं करोति यः।
क्.2.18च्। स व्रजत्य् अन्धता^मिस्रं सार्धम् ऋक्षविडम्बिना॥]
नगर^द्वार^लोष्टस्य यद्वत् स्याद् उपयाचितम्।
आदेशस् तद्वद् अज्ञानां यः सत्यः स विभाव्यते॥
सम्पत्त्या योजित^आदेशस् तद्^विच्छिन्न^कथा^प्रियः।
मत्तः शास्त्र^एकदेशेन त्याज्यस् तादृग्^महीक्षिता॥
यस् तु सम्यग् विजानाति होरा^गणित^संहिताः।
अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जय^एषिणा॥
न तत् सहस्रं करिणां वाजिनां च चतुर्गुणम्।
करोति देश^कालज्ञो *यथा^एको[क्.यद् एको]^दैवचिन्तकः॥
दुःस्वप्न^दुर्विचिन्तित^दुष्प्रेक्षित^दुष्कृतानि कर्माणि।
क्षिप्रं प्रयान्ति नाशम् शशिनः श्रुत्वा भसंवादम्॥
न तथा^इच्छति भूपतेः पिता जननी वा स्वजनो +अथ वा सुहृत्।
स्वयशो^अभिविवृद्धये यथा हितम् आप्तः सबलस्य दैववित्॥
3 आदित्यचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0