बृहत्संहिता · अध्याय 28
वर्षाप्रश्ने सलिलनिलयं राशिम् आश्रित्य चन्द्रो
लग्नं यातो भवति यदि वा केन्द्रगः शुक्ल^पक्षे।
सौम्यैर् दृष्टः प्रचुरम् उदकं पापदृष्टो +अल्पम् अम्भः
प्रावृट्काले सृजति न चिरात्^चन्द्रवद् भार्गवो +अपि॥
आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा
तोयासन्नो भवति यदि वा तोयकार्य^उन्मुखो वा।
प्रष्टा वाच्यः सलिलम् अचिराद् अस्ति निःसंशयेन
पृच्छाकाले सलिलम् इति वा श्रूयते यत्र शब्दः॥
उदय^शिखरि^संस्थो दुर्निरीक्ष्यो +अतिदीप्त्या
द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः।
तदहनि कुरुते +अम्भस् तोयकाले विवस्वान्
प्रतपति यदि च^उच्चैः खं गतो +अतीव तीक्ष्णम्॥
विरसम् उदकं गोनेत्राभं वियद्विमला दिशो
लवण^विकृतिः काकाण्डाभं यदा च भवेत्^नभः।
पवन^विगमः पोप्लूयन्ते झषाः स्थलगामिनो
रसनम् असकृत्^मण्डूकानां जलागमहेतवः॥
मार्जारा भृशम् अवनिं नखैर् लिखन्तो[क्.लिखन्ते]
लोहानां मलनिचयः सविस्रगन्धः।
रथ्यायां *शिशुरचिताश्[क्.शिशुनिचिताश्] च सेतुबन्धाः
सम्प्राप्तं जलम् अचिरात्^निवेदयन्ति॥
गिरयो *+अञ्जनचूर्णसन्निभा[क्.अञ्जनपुञ्जसन्निभा] यदि वा बाष्पनिरुद्धकन्दराः।
कृकवाकुविलोचन^उपमाः परिवेषाः शशिनश् च वृष्टिदाः॥
विना^उपघातेन पिपीलिकानाम्
अण्ड^उपसंक्रान्तिर् अहिव्यवायः।
*द्रुमावरोहश्[क्.द्रुमाधिरोहश्] च भुजङ्गमानां
वृष्टेर् निमित्तानि गवां प्लुतं च॥
तरु^शिखर^उपगताः कृकलासा
गगन^तल^स्थित^दृष्टि^निपाताः।
यदि च गवां रविवीक्षणम् ऊर्ध्वं
निपतति वारि तदा न चिरेण॥
न^इच्छन्ति विनिर्गमं गृहाद् धुन्वन्ति श्रवणान् खुरान् अपि।
पशवः पशुवच् च *कुक्कुरा[क्.कुर्कुरा] यद्य् अम्भः पततीति निर्दिशेत्॥
यदा स्थिता गृहपटलेषु *कुक्कुरा[क्.कुर्कुरा]
*रुदन्ति[क्.भवन्ति] वा यदि विततं *वियत्^मुखाः[क्.दिवोन्मुखाः]।
दिवा तडिद् यदि च पिनाकिदिग्भवा
तदा क्षमा भवति *समैव वारिणा[क्.स,आतोवारोंआ]॥
शुक^कपोत^विलोचन^सन्निभो
मधु^निभश् च यदा हिम^दीधितिः।
प्रतिशशी च यदा दिवि राजते
पतति वारि तदा न *चिरेण च[क्.चिराद् दिवः]॥
स्तनितं निशि विद्युतो दिवा
रुधिरनिभा यदि दण्डवत्स्थिताः।
पवनः पुरतश् च शीतलो
यदि सलिलस्य तदा^आगमो भवेत्॥
वल्लीनां गगन^तल^उन्मुखाः प्रवालाः
स्नायन्ते यदि जलपांशुभिर् विहङ्गाः।
सेवन्ते यदि च सरीसृपास् तृणाग्राण्य्
आसन्नो भवति तदा जलस्य पातः।
मयूर^शुक^चाष^चातक^समान^वर्णा यदा
जपाकुसुम^पङ्कज^द्युति^मुषश् च सन्ध्या^घनाः।
जलोर्मि^नग^नक्र^कच्छप^वराह^मीन^उपमाः
प्रभूत^पुटसंचया न तु चिरेण यच्छन्त्य् अपः॥
पर्यन्तेषु सुधा^शशाङ्क^धवला मध्ये +अञ्जन^अलि^त्विषः
स्निग्धा नैक^पुटाः क्षरज्^जलकणाः सोपान^विच्छेदिनः।
माहेन्द्रीप्रभवाः प्रयान्त्य् अपरतः प्राग् वा अम्बुप^आशा^उद्भवा
ये ते वारिमुचस् त्यजन्ति न चिराद् अम्भः प्रभूतं भुवि॥
शक्रचाप^परिघ^प्रतिसूर्या रोहितो +अथ तडितः परिवेषः।
उद्गम^अस्तमये यदि भानोर् आदिशेत् प्रचुरम् अम्बु तदाशु॥
यदि तित्तिर^पत्र^निभं गगनं
मुदिताः प्रवदन्ति च पक्षि^गणाः।
उदय^अस्तमये सवितुर् द्युनिशं
विसृजन्ति घना न चिरेण जलम्॥
यद्य् अमोघ^किरणाः सहस्रगोर्
अस्तभूधरकरा इव^उच्छ्रिताः।
भूसमं च रसते यदा^अम्बुदस्
तन् महद् भवति वृष्टि^लक्षणं॥
प्रावृषि शीत^करो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः।
सूर्यसुतान् नवपञ्चमगो वा सप्तमगश् च जला^आगमनाय॥
प्रायो ग्रहाणाम् उदयास्तकाले समागमे मण्डलसंक्रमे च।
पक्ष^क्षये तीक्ष्णकरायनान्ते वृष्टिर् गते +अर्के नियमेन चार्द्राम्॥
समागमे पतति जलं ज्ञशुक्रयोर् ज्ञजीवयोर् गुरुसितयोश् च सङ्गमे।
यमारयोः पवन^हुताशजं भयं ह्य् अदृष्टयोर् असहितयोश् च सद्ग्रहैः॥
अग्रतः पृष्ठतो वा^अपि ग्रहाः सूर्यावलम्बिनः।
यदा तदा प्रकुर्वन्ति महीम् एकार्णवाम् इव॥
[क्.ओमित्तेद्] प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु।
[क्.ओमित्तेद्] केदारपूरम् अधिकं वर्षति देवस् तदा न चिरात्॥
[क्.ओमित्तेद्] वर्षत्य् अपि रटति यदा गोमायुश् च प्रदोषवेलायाम्।
[क्.ओमित्तेद्] सप्ताहं दुर्दिनम् अपि तदा पयो नात्र सन्देहः॥
29 कुसुमलताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0