बृहत्संहिता · अध्याय 27
पूर्वः पूर्वसमुद्र^वीचि^शिखर^प्रस्फालना^घूर्णितश्
चन्द्रार्क^अंशु^सटा^*कलाप[क्.अभिघात]^कलितो वायुर् यदा^आकाशतः।
नैकान्त^स्थित^नीलमेघ^*पटला[क्.पटलां] शारद्य^*संवर्धिता[क्. संवर्धितां]।
वासन्त^उत्कट^सस्य^मण्डित^*तला सर्वा मही शोभते[क्.तलां विद्यात् तदा मेदिनीम्]॥
यदा *वह्नौ[क्.अग्नेयो] वायुर् *वहति गगने +अखण्डित^तनुः[क्.मलय^शिखर^आस्फालनपटुः]
प्लवत्य् अस्मिन् योगे भगवति पतङ्गे प्रवसति।
तदा नित्य^उद्दीप्ता ज्वलन^शिखर^आलिङ्गिततला
स्वगात्र^उष्म^उच्छ्वासैर् वमति वसुधा भस्मनिकरम्॥
ताली^पत्र^लता^वितान^तरुभिः शाखामृगान् नर्तयन्
योगे +अस्मिन् प्लवति *ध्वनिः सपरुषो[क्.ध्वनन्सुपरुषो] वायुर् यदा दक्षिणः।
*तद्वद् योगसमुत्थितस् तु[क्.सर्वोद्योगसमुन्नताश् च] गजवत् ताल^अङ्कुशैर् घट्टिताः
कीनाशा इव मन्द^वारि^*कणिका[क्.कणिकान्] मुञ्चन्ति मेघास् तदा॥
सूक्ष्मैला^लवली^लवङ्ग^निचयान् व्याघूर्णयन् सागरे
भानोर् अस्तमये प्लवत्य् अविरतो वायुर् यदा नैरृतः।
क्षुत्^*तृष्ण^आवृत[क्.तृष्णामृत]^मानुष^अस्थि^शकल^प्रस्तार^भार^च्छदा
मत्ता प्रेतवधूर् इव^उग्र^चपला भूमिस् तदा लक्ष्यते॥
यदा रेणु^उत्पातैः *प्रविचल^सटाटोप^चपलः[क्.प्रविकटसटाटोपचपलः]
प्रवातः *पश्चाच् चेद्[क्.पश्चार्धे] दिनकर^कर^आपात^समये।
तदा सस्योपेता *प्रवर^निकर^आबद्ध^समरा[क्.प्रवरनृव्राबद्धसमरा]
*क्षितिः स्थानस्थानेष्व्[क्.धरा स्थाने स्थानेष्व्] अविरत^वसा^मांस^रुधिरा॥
आषाढी^पर्व^काले यदि किरणपतेर् अस्तकाल^उपपत्तौ
वायव्यो वृद्धवेगः *पवन^घन^वपुः पन्नग^अर्द्ध^अनुकारि[क्.प्लवति धनरिपुः पन्नगादानुकारी]।
जानीयाद् वारि^धारा^प्रमुदित^*मुदित^आमुक्त[क्.मुदितां मुक्त]^मण्डूक^कण्ठां
सस्य^उद्भास^एकचिह्नां सुख^बहुलतया भाग्यसेनाम् इव^उर्वीम्॥
मेरु^ग्रस्त^मरीचि^मण्डल^तले ग्रीष्म^अवसाने रवौ
वात्य् आमोदि^कदम्ब^गन्ध^सुरभिर् वायुर् यदा च^उत्तरः।
विद्युद्^भ्रान्ति^समस्त^कान्ति^कलना मत्तास् तदा तोयदा
उन्मत्ता इव नष्ट^चन्द्र^किरणां गां पूरयन्त्य् अम्बुभिः॥
*वृत्तायाम् आषाढ्यां कृष्ण^चतुर्थ्याम् अजैकपाद^ऋक्षे[क्.ऐशानो यदि शीतलो +अमरगणैः संसेव्यमानो भवेत्]।
*यदि वर्षति पर्जन्यः प्रावृत् शस्ता न चेन् न तदा[क्.पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः]॥
*नष्टचन्द्रार्ककिरनं नष्टतारं न चेन् नभः[क्.आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला]।
*न तां भद्रपदां मन्ये यत्र देवो न वर्षति[क्.धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस् तदा]॥
28 सद्योवर्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0