बृहत्संहिता · अध्याय 26
आषाढ्यां समतुलिताधिवासितानाम्
अन्येद्युर् यद् अधिकताम् उपैति बीजम्।
तद्वृद्धिर् भवति न जायते यदूनं
मन्त्रो +अस्मिन् भवति तुलाभिमन्त्रणाय॥
स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती।
दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्य् असि॥
येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास् तथा।
उत्तिष्ठन्तीह पूर्वेण पश्चाद् अस्तं व्रजन्ति च॥
यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु।
यत्सत्यं त्रिषु लोकेषु तत्सत्यम् इह दृश्यताम्॥
ब्रह्मणो दुहितासि त्वम् आदित्य^इति प्रकीर्तिता।
काश्यपी गोत्रतश् च^एव नामतो विश्रुता तुला॥
क्षौमं चतुःसूत्रकसन्निबद्धं
षडङ्गुलं शिक्यकवस्त्रम् अस्याः।
सूत्रप्रमाणम् च दशाङ्गुलानि
षड् एव *कक्ष्य[क्.कक्ष]^उभयशिक्यमध्ये॥
याम्ये शिक्ये काञ्चनं सन्निवेश्यं
शेषद्रव्याण्य् उत्तरे +अम्बूनि *च^एव[क्.च^एवम्]।
तोयैः कौप्यैः *सैन्धवैः[क्.स्यन्दिभिः] सारसैश् च
वृष्टिर्[वर्.वृद्धिर्] हीना मध्यमा चोत्तमा च॥
दन्तैर् नागा गो^हय^आद्याश् च लोम्ना
हेम्ना भूपाः शिक्थकेन द्विजाद्याः।
तद्वद् देशा वर्षमासा दिशश् च
शेषद्रव्याण्य् आत्मरूपस्थितानि॥
हैमी प्रधाना रजतेन मध्या तयोर् अलाभे खदिरेण कार्या।
विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद् वितस्तिः॥
हीनस्य नाशो +अभ्यधिकस्य वृद्धिस् तुल्येन तुल्यं तुलितं तुलायाम्।
एतत्तुला^कोश^रहस्यम् उक्तं प्राजेशयोगे +अपि नरो विदध्यात्॥
स्वाताव् अषाढास्व् अथ रोहिणीषु
पापग्रहा योगगता न शस्ताः।
ग्राह्यं तु योगद्वयम् अप्य् उपोष्य
यदाधिमासो द्विगुणीकरोति॥
त्रयो +अपि योगाः सदृशाः फलेन
यदा तदा वाच्यम् असंशयेन।
विपर्यये यत्त्व् इह रोहिणीजं
फलं तद् एवाभ्यधिकं निगद्यम्॥
निष्पत्तिर् अग्निकोपो वृष्टिर् मन्दाथ मध्यमा श्रेष्ठा।
बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः॥
[क्.26.14अब्। वृत्तायाम् आषाढ्याम् कृष्णचतुर्थ्याम् अजैकपाद^ऋक्षे।]
[क्.26.14च्द्। यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन् न ततः॥]
[क्.26.15अब्। आषाढ्याम् पौर्णमास्यां तु यद्य् ऐशानो +अनिलो भवेत्।]
[क्.26.15च्द्। अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिर् उत्तमा॥]
27 वातचक्राध्यायः
27.01अब्[क्.ओमित्तेद्]। आषाढ^पौर्णमास्यां तु यद्य् ऐशानो +अनिलो भवेत्।
27.01च्द्[क्.ओमित्तेद्]। अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिर् उत्तमा॥
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0