बृहत्संहिता · अध्याय 25
यद् रोहिणीयोगफलं तद् एव स्वाताव् अषाढासहिते च चन्द्रे।
आषाढशुक्ले निखिलं विचिन्त्यं यो +अस्मिन् विशेषस् तम् अहं प्रवक्ष्ये॥
स्वातौ निशांशे प्रथमे +अभिवृष्टे
सस्यानि सर्वाण्य् उपयान्ति वृद्धिम्।
भागे द्वितीये तिल^मुद्ग^माषा
ग्रैष्मं तृतीये +अस्ति न शारदानि॥
वृष्टे +अह्निभागे प्रथमे सुवृष्टिस् तद्वद् द्वितीये तु सकीट^सर्पा।
वृष्टिस् तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर् द्युनिशं प्रवृष्टे॥
समम् उत्तरेण तारा चित्रायाः कीर्त्यते ह्य् अपांवत्सः।
तस्यासन्ने चन्द्रे स्वातेर् योगः शिवो भवति॥
सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे
वायुर् वा चण्डवेगः सजलजलधरो वा^अपि गर्जत्य् अजस्रम्।
विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
विज्ञेया प्रावृड् एषा मुदितजनपदा सर्वसस्यैर् उपेता॥
तथ^एव फाल्गुने चैत्रे वैशाखस्यासिते +अपि वा।
स्वातियोगं विजानीयाद् आषाढे च विशेषतः॥
26 आषाढीयोगाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0