बृहत्संहिता · अध्याय 24
कनक^शिला^चय^विवरजतरुकुसुमासङ्गिमधुकरानुरुते।
बहु^विहग^कलह^सुरयुवति^गीत^मन्द्र^स्वन^उपवने॥
सुरनिलय^शिखरि^शिखरे बृहस्पतिर् नारदाय यान् आह।
गर्ग^पराशर^काश्यप^मयाश् च यान् शिष्य^सङ्घेभ्यः॥
तान् अवलोक्य यथावत् प्राजापत्य^इन्दुसम्प्रयोगार्थान्।
*अल्प[क्.स्वल्प]ग्रन्थेनाहं तान् एवाभ्युद्यतो वक्तुम्॥
प्राजेशम् आषाढतमिस्रपक्षे क्षपाकरेण^उपगतं समीक्ष्य।
वक्तव्यम् इष्टं जगतो +अशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन॥
योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः।
चन्द्रप्रमाणद्युतिवर्णमार्गैर् उत्पातवातैश् च फलं *निगद्यम्[क्.निगाद्यम्]॥
पुराद् उदग् *यत्[क्.यत्] पुरतो +अपि वा स्थलं
त्र्यहोषितस् तत्र हुताशतत्परः।
ग्रहान् सनक्षत्रगणान् समालिखेत्
सधूपपुष्पैर् बलिभिश् च पूजयेत्॥
सरत्न^तोय^औषधिभिश् चतुर्दिशं
तरुप्रवालापिहितैः सुपूजितैः।
अकालमूलैः कलशैर् अलङ्कृतं
कुशास्तृतं स्थण्डिलम् आवसेद् द्विजः॥
आलभ्य मन्त्रेण महाव्रतेन
बीजानि सर्वाणि निधाय कुम्भे।
प्लाव्यानि चामीकर^दर्भ^तोयैर्
होमो मरुद्वारुण^*सोम[क्.सौम्य]मन्त्रैः॥
श्लक्ष्णां पताकाम् असितां विदध्याद्
दण्डप्रमाणां त्रिगुणोच्छ्रितां च।
आदौ कृते दिग्ग्रहणे नभस्वान्
ग्राह्यस् तया योगगते शशाङ्के॥
तत्रार्धमासाः प्रहरैर् विकल्प्या
वर्षानिमित्तं दिवसास् तदंशैः।
सव्येन गच्छन् शुभदः सदैव
यस्मिन् प्रतिष्ठा बलवान् स वायुः॥
वृत्ते तु योगे +अङ्कुरितानि यानि
सन्तीह बीजानि धृतानि कुम्भे।
येषां तु यो +अंशो +अङ्कुरितस् तदंशस्
तेषां विवृद्धिं समुपैति नान्यः॥
शान्त^पक्षि^मृग^राविता दिशो निर्मलं वियदनिन्दितो +अनिलः।
शस्यते शशिनि *रोहिणीगते[क्.रोहिणीयते] मेघमारुतफलानि वच्म्य् अतः॥
क्व चिद् असितसितैः सितैः क्वचिच् च
क्व चिद् असितैर् भुजगैर् इवाम्बुवाहैः।
वलित^जठर^पृष्ठ^मात्र^दृश्यैः
स्फुरित^तडिद्^रसनैर् वृतं विशालैः॥
विकसित^कमल^उदर^अवदातैर्
अरुणकरद्युतिरञ्जित^उपकण्ठैः।
छुरितम् इव वियद्^घनैर् विचित्रैर्
मधुकर^कुङ्कुम^किंशुक^अवदातैः॥
असित^घन^निरुद्धम् एव वा
चलित^तडित्^सुरचाप^चित्रितम्।
द्विप^महिष^कुल^आकुली^कृतं
वनम् इव दावपरीतम् अम्बरम्॥
अथ वा^अञ्जन^शैल^शिला^निचय^प्रतिरूप^धरैः स्थगितं गगनम्।
हिम^मौक्तिक^शङ्ख^शशाङ्क^कर^द्युति^हारिभिर् अम्बुधरैर् अथ वा॥
तडिद्^धैम^कक्ष्यैर् बलाक^अग्रदन्तैः
स्रवद्^वारि^दानैश् चलत्^प्रान्त^हस्तैः।
विचित्र^इन्द्रचापध्वज^उच्छ्रायशोभैस्
तमालालिनीलैर् वृतं च^अब्द^नागैः॥
सन्ध्यानुरक्ते नभसि स्थितानाम्
इन्दीवर^श्याम^रुचां घनानाम्।
वृन्दानि पीताम्बरवेष्टितस्य
कान्तिं हरेश् चोरयतां यदा वा॥
सशिखि^चातक^दर्दुर^निःस्वनैर्
यदि विमिश्रितमन्द्रपटुस्वनाः।
खम् अवतत्य दिगन्तविलम्बिनः
सलिलदाः सलिलौघमुचः क्षितौ॥
निगदितरूपैर् जलधरजालैस्
त्र्यहम् अवरुद्धं द्व्यहम् अथ वा^अहः।
यदि वियद् एवं भवति सुभिक्षं
मुदितजना च प्रचुरजला भूः॥
रूक्षैर् अल्पैर् मारुता^क्षिप्त^देहैर्
उष्ट्र^ध्वाङ्क्ष^प्रेत^शाखामृग^आभैः।
अन्येषां वा निन्दितानां *स्वरूपैर्[क्.सरूपैर्]
मूकैश् चाब्दैर् नो शिवं नापि वृष्टिः॥
विगत^घने वा वियति विवस्वान्
अमृदुमयूखः सलिलकृद् एवम्।
सर इव फुल्लं निशि कुमुदाढ्यं
खम् उडुविशुद्धं यदि च सुवृष्ट्यै॥
पूर्वोद्भूतैः सस्यनिष्पत्तिर् अब्दैर्
आग्नेयाशासम्भवैर् अग्निकोपः।
याम्ये सस्यं क्षीयते नैरृते *+अर्धं[क्.अर्घं क्ऽस् त्र्. अर्धं]
पश्चाज् जातैः शोभना वृष्टिर् अब्दैः॥
वायव्योत्थैर् वातवृष्टिः क्वचिच् च
पुष्टा वृष्टिः सौम्य^काष्ठा^समुत्थैः।
श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैर्
वायुश् च^एवं दिक्षु धत्ते फलानि॥
उल्कानिपातास् तडितो +अशनिश् च
दिग्दाह^निर्घात^महीप्रकम्पाः।
नादा मृगाणां सपतत्रिणां च
ग्राह्या यथ^एव अम्बुधरास् तथ^एव॥
नामाङ्कितैस् तैर् उदगादिकुम्भैः
प्रदक्षिणं श्रावणमासपूर्वैः।
पूर्णैः स मासः सलिलस्य दाता
*स्रुतैर्[क्.स्रुतर्] अवृष्टिः परिकल्प्यम् ऊनैः॥
अन्यैश् च कुम्भैर् नृप^नामचिह्नैर्
देशाङ्कितैश् च^अप्य् अपरैस् तथ^एव।
भग्नैः स्रुतैर् न्यूनजलैः सुपूर्णैर्
भाग्यानि वाच्यानि यथानुरूपम्॥
दूरगो निकटगो +अथ वा शशी
दक्षिणे पथि यथा तथा स्थितः।
रोहिणीं यदि युनक्ति सर्वथा
कष्टम् एव जगतो विनिर्दिशेत्॥
स्पृशन्न् उदग् याति यदा शशाङ्कस्
तदा सुवृष्टिर् बहुल^उपसर्गा।
असंस्पृशन् योगम् उदक्समेतः
करोति वृष्टिं विपुलां शिवं च॥
रोहिणी^शकट^मध्य^संस्थिते
चन्द्रमस्य् अशरणीकृता जनाः।
क्व^अपि यान्ति शिशुयाचिताशनाः
सूर्यतप्तपिठराम्बुपायिनः॥
उदितं यदि शीतदीधितिं
प्रथमं पृष्ठत एति रोहिणी।
शुभम् एव तदा स्मरातुराः
प्रमदाः *कामवशेन[क्.कामिवशे च] संस्थिताः॥
अनुगच्छति पृष्टतः शशी
*यदि[क्.ओमित्तेद्] कामी वनिताम् इव प्रियाम्।
मकर^ध्वज^बाण^खेदिताः
प्रमदानां वशगास् तदा नराः॥
आग्नेय्यां दिशि चन्द्रमा यदि भवेत् तत्र^उपसर्गो महान्
नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः।
प्राजेशानिलदिक्स्थिते हिम^करे सस्यस्य मध्यश् चयो
याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घ^*वृष्ट्यादयः[क्.वृद्ध्यादयः]॥
ताडयेद् यदि च योगतारकाम् आवृणोति वपुषा यदापि वा।
ताडने भयम् उशन्ति दारुणं छादने *नृप^बधो[क्.नृप^वधो] +अङ्गनाकृतः॥
गोप्रवेशसमये +अग्रतो वृषो याति कृष्णपशुर् एव वा पुरः।
भूरि वारि शबले तु मध्यमं नो सिते +अम्बुपरिकल्पनापरैः॥
दृश्यते न यदि रोहिणीयुतश् चन्द्रमा नभसि तोयदावृते।
रुग्भयं महदुपस्थितं तदा भूश् च भूरिजलसस्यसंयुता॥
25 स्वातियोगाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0