बृहत्संहिता · अध्याय 23
ज्यैष्ठ्यां समतीतायां पूर्वाषाढादि^सम्प्रवृष्टेन।
शुभम् अशुभं वा वाच्यं परिमाणं च^अम्भसस् तज्ज्ञैः॥
हस्तविशालं कुण्डकम् अधिकृत्य^अम्बुप्रमाण^निर्देशः।
पञ्चाशत् पलम् आढकम् अनेन मिनुयाज् जलं पतितम्॥
येन धरित्री मुद्रा जनिता वा बिन्दवस् तृणा^आग्रेषु।
वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम्॥
के चिद् यथाभिवृष्टं दश^योजन^मण्डलं वदन्त्य् अन्ये।
गर्ग^वसिष्ठ^पराशर^मतम् एतद् द्वादशान् न परम्॥
येषु च भेष्व् अभिवृष्टं भूयस् तेष्व् एव वर्षति प्रायः।
यदि न^आप्य^आदिषु वृष्टं सर्वेषु तदा त्व् अनावृष्टिः॥
हस्त^आप्य^सौम्य^चित्रा^पौष्ण^धनिष्ठासु षोडश द्रोणाः।
शतभिषग्^ऐन्द्र^स्वातिषु चत्वारः कृत्तिकासु दश॥
श्रवणे मघा^अनुराधा^भरणी^मूलेषु दश चतुर्युक्ताः।
फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर् द्रोणाः॥
*ऐन्द्राग्न्य्^आख्ये[क्.ऐन्द्राग्नाख्ये] वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः।
आहिर्बुध्न्य^आर्यम्ण^प्राजापत्येषु पञ्चकृतिः।
पञ्चदश^आजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च।
रौद्रे +अष्टादश कथिता द्रोणा निरुपद्रवेष्व् *एते[क्.एषु]॥
रवि^रविसुत^केतु^पीडिते भे क्षितितनय^त्रिविध^अद्भुत^आहते च।
भवति *च[क्.हि] न शिवं न च^अपि वृष्टिः शुभसहिते निरुपद्रवे शिवं च॥
24 रोहिणीयोगाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0