बृहत्संहिता · अध्याय 22
ज्यैष्ठसिते +अष्टम्याद्यश् चत्वारो वायुधारणा दिवसाः।
मृदुशुभपवनाः शस्ताः स्निग्ध^घन^स्थगित^गगनाश् च॥
तत्र^एव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्^मासाः।
श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास् ताः स्युः।
यदि ता स्युर् एकरूपाः शुभास् ततः सान्तरास् तु न शिवाय।
तस्कर^भयदाश् *च^उक्ताः[क्.प्रोक्ताः] श्लोकाश् च^अप्य् अत्र वासिष्ठाः॥
सविद्युतः सपृषतः स^पांशु^उत्कर^मारुताः।
स^अर्क^चन्द्र^परिच्छन्ना धारणाः शुभ^धारणाः॥
यदा तु विद्युतः श्रेष्ठाः *शुभाशाः[क्.शुभाशा] प्रत्युपस्थिताः।
तदापि सर्वसस्यानां वृद्धिं ब्रूयाद् विचक्षणः॥
सपांशुवर्षाः सापश् च शुभा बालक्रिया अपि।
पक्षिणाम् सुस्वरा वाचः क्रीडा पांशुजलादिषु॥
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः।
वृष्टिस् तदापि विज्ञेया सर्वसस्य^*अर्थसाधिका[क्.अभिवृद्धये]॥
मेघाः स्निग्धाः संहताश् च प्रदक्षिणगतिक्रियाः।
तदा स्यान् महती वृष्टिः सर्वसस्य^*अभिवृद्धये[क्.अर्थसाधिका]॥
23 प्रवर्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0