बृहत्संहिता · अध्याय 21
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नम् आयत्तम्।
यस्माद् अतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन॥
तल्लक्षणानि मुनिभिर् यानि निबद्धानि तानि दृष्ट्वा^इदम्।
क्रियते गर्ग^पराशर^काश्यप^*वज्र^आदि[क्.वात्स्यादि]रचितानि॥
दैवविद् अविहितचित्तो[क्.अवहितचित्तो] द्युनिशं यो गर्भलक्षणे भवति।
तस्य मुनेर् इव वाणी न भवति मिथ्याम्बुनिर्देशे॥
किं वातः परम् अन्यत्^*शास्त्रज्यायो[क्.शास्त्रं ज्यायो] +अस्ति यद् विदित्वा^एव।
प्रध्वंसिन्य् अपि काले त्रिकालदर्शी कलौ भवति॥
के चिद् वदन्ति *कार्तिक[क्.कार्त्तिक]शुक्लान्तम् अतीत्य गर्भदिवसाः स्युः।
न *च[क्.तु] तन्मतं बहूनां गर्ग^आदीनां मतं वक्ष्ये॥
*मार्गशिरःसित[क्.मार्गशिरशुक्ल]पक्ष^प्रतिपत्^प्रभृति क्षपाकरे +अषाढाम्।
पूर्वां वा समुपगते गर्भाणां लक्षणम् ज्ञेयम्॥
यन्नक्षत्रम् उपगते गर्भश् चन्द्रे भवेत् स चन्द्रवशात्।
पञ्चनवते दिनशते तत्र^एव प्रसवम् आयाति॥
सित^पक्ष^भवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ।
नक्तंप्रभवाश् चाहनि सन्ध्याजाताश् च सन्ध्यायाम्॥
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश् च।
पौषस्य कृष्ण^पक्षेण निर्दिशेत्^श्रावणस्य सितम्॥
माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिम् आयान्ति।
माघस्य कृष्ण^पक्षेण निर्दिशेद् भाद्रपदशुक्लम्॥
फाल्गुन^शुक्ल^समुत्था भाद्रपदस्य^असिते विनिर्देश्याः।
तस्यैव कृष्ण^पक्ष^उद्भवास् तु ये ते +अश्वयुक्^शुक्ले॥
चैत्र^सित^पक्ष^जाताः कृष्णे +अश्वयुजस्य वारिदा गर्भाः।
चैत्र^असित^सम्भूताः *कार्तिक^शुक्ले[क्.कार्त्तिकशुक्ले] +अभिवर्षन्ति॥
पूर्व^उद्भूताः पश्चाद् अपरोत्थाः प्राग् भवन्ति जीमूताः।
शेषास्व् अपि दिक्ष्व् एवं विपर्ययो भवति वायोश् च॥
ह्लादि^मृदु^उदक्^शिव^शक्र^दिग्^भवो मारुतो वियद्^विमलम्।
स्निग्ध^सित^बहुल^परिवेष^परिवृतौ हिम^*मयखार्कौ[क्.ऊ.मयूखार्कौ]॥
पृथु^बहुल^स्निग्ध^घनं घन^सूची^क्षुरक^लोहित^अभ्र^युतम्।
काकाण्ड^मेचक^आभं वियद्^विशुद्ध^इन्दु^नक्षत्रम्॥
सुरचाप^मन्द्र^गर्जित^विद्युत्^*प्रतिसूर्यका[क्.प्रतिसूर्यकाः] शुभा सन्ध्या।
शशि^शिव^शक्र^आशास्थाः शान्तरवाः पक्षि^मृग^सङ्घाः॥
विपुलाः प्रदक्षिण^चराः स्निग्ध^मयूखा ग्रहा निरुपसर्गाः।
तरवश् च निरुपसृष्ट^अङ्कुरा नरचतुष्पदा हृष्टाः॥
गर्भाणां पुष्टिकराः सर्वेषाम् एव यो +अत्र तु विशेषः।
स्वर्तु^स्वभाव^जनितो गर्भ^*विवृद्ध्यै[क्.विवृद्धौ] तम् अभिधास्ये॥
पौषे समार्गशीर्षे सन्ध्यारागो +अम्बुदाः सपरिवेषाः।
नात्यर्थं मृगशीर्षे शीतं पौषे +अतिहिमपातः॥
माघे प्रबलो वायुस् तुषारकलुषद्युती रविशशाङ्कौ।
अतिशीतं सघनस्य च भानोर् अस्तोदयौ धन्यौ॥
फाल्गुनमासे रूक्षश् चण्डः पवनो +अभ्र^सम्प्लवाः स्निग्धाः।
परिवेषाश् चासकलाः कपिलस् ताम्रो रविश् च शुभः॥
पवन^घन^वृष्टि^युक्ताश् चैत्रे गर्भाः शुभाः सपरिवेषाः।
घनपवनसलिलविद्युत्स्तनितैश् च हिताय वैशाखे॥
मुक्ता^रजत^निकाशास्^तमाल^नीलोत्पल^अञ्जन^आभासः।
जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः।
रुषिता इव धाराभिर् विसृजन्त्य् अम्भः प्रसवकाले॥
गर्भ^उपघात^लिङ्गान्य् उल्का^अशनि^पांशुपात^दिग्दाहः।
क्षितिकम्प^खपुर^कीलक^केतु^ग्रह^युद्ध^निर्घाताः॥
रुधिर^आदि^वृष्टि^वैकृत^परिघ^इन्द्रधनूंषि दर्शनं राहोः।
इत्य् उत्पातैर् एतैस् त्रिविधैश् चान्यैर् हतो गर्भः॥
स्वर्तु^स्वभाव^जनितैः सामान्यैर् यैश् च लक्षणैर् वृद्धिः।
गर्भाणाम् विपरीतैस् तैर् एव विपर्ययो भवति॥
भद्रपदा^द्वय^विश्वाम्बु*देव[क्.दैव]पैतामहेष्व् अथ ऋक्षेषु।
सर्वेष्व् ऋतुषु विवृद्धो गर्भो बहुतोयदो भवति॥
शतभिषग्^आश्लेषा^आर्द्रा^स्वाति^मघा^संयुतः शुभो गर्भः।
पुष्णाति बहून् दिवसान् हन्त्य् उत्पातैर् हतस् त्रिविधैः॥
मृगमास^आदिष्व् अष्टौ षट् षोडश विंशतिश् चतुर्युक्ता।
विंशतिर् अथ दिवस^त्रयम् एकतम^ऋक्षेण पञ्चभ्यः॥
21.31अब्[क्.21.35अब्]। पञ्च^निमित्तैः शत^योजनं तद्^अर्ध^अर्धम् एकहान्या +अतः।
21.31च्द्[क्.21.35च्द्]। वर्षति *पञ्चनिमित्ताद्[क्.पञ्चसमन्ताद्] रूपेण^एकेन यो गर्भः॥
21.32अब्[क्.21.36अब्]। द्रोणः पञ्चनिमित्ते गर्भे त्रीण्य् आढकानि पवनेन।
21.32च्द्[क्.21.36च्द्]। षड् विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे॥
क्रूर^ग्रह^संयुक्ते करका^अशनि^मत्स्य^वर्षदा गर्भाः।
शशिनि रवौ वा शुभसंयुत^ईक्षिते भूरिवृष्टिकराः॥
ग्रभसमये +अतिवृष्टिर् गर्भ^अभावाय निर्निमित्त^कृता।
द्रोणाष्टांशे +अभ्यधिके वृष्टे गर्भः स्रुतो भवति॥
गर्भः पुष्टः प्रसवे ग्रह^उपघात^आदिभिर् यदि न वृष्टः।
आत्मीय^गर्भ^समये करका^मिश्रं ददात्य् अम्भः॥
काठिन्यं याति यथा चिर^काल^धृतं पयः पयस्विन्याः।
काल^अतीतं तद्वत् सलिलं काठिन्यम् उपयाति॥
पवन^सलिल^विद्युद्^गर्जिता^अभ्र^अन्वितो यः
स भवति बहुतोयः पञ्च^रूप^अभ्युपेतः।
विसृजति यदि तोयं गर्भकाले +अतिभूरि
प्रसव^समयम् इत्वा शीकर^अम्भः करोति॥
22 गर्भधारणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0