बृहत्संहिता · अध्याय 20
यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे।
भवति भयं दिशि तस्याम् आयुध^कोप^क्षुधआ^आतङ्कैः॥
चक्र^धनुः^शृङ्गाटक^दण्ड^पुर^प्रास^वज्र^संस्थानाः।
क्षुद्^वृष्टिकरा[क्.ऊ.अवृष्टिकरा] लोके समराय च मानव^इन्द्राणाम्॥
यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते।
तत्र +अन्यो भवति नृपः परचक्र^उपद्रवश् च महान्॥
*तस्मिन्न्[क्.यस्मिन्न्] ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः।
*अविभेदिनः[क्.अविभेदनाः] परस्परम् अमलमयूखाः शिवास् तेषाम्॥
ग्रह^संवर्त^समागम^सम्मोह^समाज^सन्निपात^आख्याः।
कोशश् चेत्य् एतेषाम् अभिधास्ये लक्षणं सफलं॥
एक^ऋक्षे चत्वारः सह पौरैर् यायिनो +अथ वा पञ्च।
संवर्तो नाम भवेत्^शिखि^राहुयुतः स सम्मोहः॥
पौरः पौरसमेतो यायी सह यायिना समाजाख्यः।
यम^जीव^सङ्गमे +अन्यो यद्य् आगच्छेत् तदा कोशः॥
उदितः पश्चाद् एकः प्राक् चान्यो यदि स सन्निपाताख्यः।
अविकृततनवः स्निग्धा विपुलाश् च समागमे धन्याः॥
समौ तु संवर्तसमागमाख्यौ सम्मोह^कोशौ भयदौ प्रजानाम्।
*समाजसंज्ञो सुसमा प्रदिष्टा[क्.समाज्ञः सुसमः प्रदिष्टो] वैरप्रकोपः खलु सन्निपाते॥
21 गर्भलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0