बृहत्संहिता · अध्याय 1
जयति जगतः प्रसूतिर् विश्वात्मा सहज^भूषणं नभसः।
द्रुत^कनक^सदृश^दश^शत^मयूख^माला^अर्चितः सविता॥
प्रथम^मुनि^कथितम् अवितथम् अवलोक्य ग्रन्थ^विस्तरस्य अर्थम्।
न^अतिलघु^विपुल^रचनाभिर् उद्यतः स्पष्टम् अभिधातुम्॥
मुनि^विरचितम् इदम् इति यच् चिरन्तनं साधु न मनुज^ग्रथितम्।
तुल्ये +अर्थे +अक्षर^भेदाद् अमन्त्रके का विशेष^उक्तिः॥
क्षितितनय^दिवस^वारो न शुभकृद् इति यदि पितामह^प्रोक्ते।
कुज^दिनम् अनिष्टम् इति वा को +अत्र विशेषो नृ^दिव्य^*कृतेः[क्.कृते]॥
आब्रह्म^आदि^विनिःसृतम् आलोक्य ग्रन्थ^विस्तरं क्रमशः।
क्रियमाणकम् एव +एतत् समासतो +अतो मम^उत्साहः॥
आसीत् तमः किल^इदं तत्र^अपां तैजसे +अभवद् धैमे।
स्वर्^भू^शकले ब्रह्मा विश्वकृद् अण्डे +अर्क^शशि^नयनः॥
कपिलः प्रधानम् आह द्रव्य^आदीन् कणकभुग् अस्य विश्वस्य।
कालं कारणम् एके स्वभावम् अपरे जगुः कर्म॥
तद् अलम् अतिविस्तरेण प्रसङ्ग^वाद^अर्थ^निर्णयो +अतिमहान्।
ज्योतिःशास्त्र^अङ्गानां वक्तव्यो निर्णयो +अत्र मया॥
ज्योतिःशास्त्रम् अनेक^भेद^विषयं स्कन्ध^त्रय^अधिष्ठितं
तत्^कार्त्स्न्य^उपनयस्य नाम मुनिभिः संकीर्त्यते संहिता।
स्कन्धे +अस्मिन् गणितेन या ग्रहगतिस् तन्त्र^अभिधानस् त्व् असौ
होरा^अन्यो +अङ्ग^विनिश्चयश् च कथितः स्कन्धस् तृतीयो +अपरः॥
वक्र^अनुवक्र^अस्तमय^उदय^आद्यास् तारा^ग्रहाणां करणे मया^उक्ताः।
होरागतं विस्तरशश् च जन्म^यात्रा^विवाहैः सह पूर्वम् उक्तम्॥
प्रश्न^प्रतिप्रश्न^कथा^प्रसङ्गान् स्व्^अल्प^उपयोगान् ग्रह^सम्भवाम्श् च।
सन्त्यज्य फल्गूनि च सार^भूतं भूत^अर्थम् अर्थैः सकलैः प्रवक्ष्ये॥
2 सांवत्सरसूत्राध्यायः
अथ^अतः सांवत्सर^सूत्रं व्याख्यास्यामः
2.(1) तत्र सांवत्सरो +अभिजातः प्रिय^दर्शनो विनीतवेषः सत्यवाग् अनसूयकः समः सुसंहिता^उपचित^गात्र^सन्धिर् अविकलश् चारु^कर^चरण^नख^नयन^चिबुक^दशन^श्रवण^ललाट^भ्रू^उत्तम^अङ्गो वपुष्मान् गम्भीर^उदात्त^घोषः। प्रायः शरीर^आकार^*अनुवर्त्तिनो[क्.अनुवर्तिनो] हि गुणा दोषाश् च भवन्ति।
2.(2) तत्र गुणाः---शुचिर् दक्षः प्रगल्भो *वाग्ग्मी[क्.वाग्मी] प्रतिभानवान् देश^काल^वित् सात्त्विको न पर्षद्^भीरुः सहाध्यायिभिर् अनभिभवनीयः कुशलो +अव्यसनी शान्तिक^पौष्टिक^अभिचार^स्नान^विद्या^अभिज्ञो विबुध^अर्चन^व्रत^उपवास^निरतः स्वतन्त्र^आश्चर्य^उत्पादित^प्रभावः पृष्टाभिधाय्य् अन्यत्र दैवात् ययाद् ग्रहगणित^संहिता^होरा^ग्रन्थ^अर्थ^वेत्ता^इति।
2.(3) तत्र ग्रहगणिते पौलिश^रोमक^वासिष्ठ^सौर^पैतामहेषु पञ्चस्व् एतेषु सिद्धान्तेषु युग^वर्ष^अयन^ऋतु^मास^पक्ष^अहोरात्र^याम^मुहूर्त^*नाडी[उ.नाडी^विनाडी]प्राण^त्रुटि^त्रुट्य्^आद्य्^अवयव^*आदिकस्य[क्.आद्यस्य] कालस्य क्षेत्रस्य च वेत्ता।
2.(4) चतुर्णां च मानानां सौर^सावन^नाक्षत्र^चान्द्राणाम् अधिमासक^अवम^सम्भवस्य च कारण^अभिज्ञः।
2.(5) षष्ट्य्^अब्द^युग^वर्ष^मास^दिन^होरा^अधिपतीनां *प्रतिपत्ति[क्.प्रतिपत्तिवि]^च्छेदवित्।
2.(6) सौर^आदीनां च मानानाम् *असदृश^सदृश[क्.सदृश^असदृश]योग्य^अयोग्यत्व^प्रतिपादन^पटुः।
2.(7) सिद्धान्त^भेदे +अप्य् अयन^निवृत्तौ प्रत्यक्षं सम^मण्डल^लेखा^सम्प्रयोग^अभ्युदित^अंशकानां [क्.च] छाया^जल^यन्त्र^दृग्^गणित^साम्येन प्रतिपादन^कुशलः।
2.(8) सूर्य^आदीनां च ग्रहाणाम् शीघ्र^मन्द^याम्य^उत्तर^नीच^उच्चगति^कारण^अभिज्ञः।
2.(9) सूर्य^चन्द्रमसोश् च ग्रहणे ग्रहण^आदि^मोक्ष^काल^दिक्^प्रमाण^स्थिति^विमर्द^वर्ण^*आदेशानाम्[क्.देशानाम्] अनागत^ग्रह^समागम^युद्धानाम् आदेष्टा।
2.(10) प्रत्येक^ग्रह^भ्रमण^योजन^कक्ष्या^प्रमाण^प्रतिविषय^योजन^परिच्छेद^कुशलः[क्.कुशलो]।
2.(11) भू^भगण^भ्रमण^संस्थान^आद्य्^अक्ष^अवलम्बक^अहर्व्यास^चर^दल^काल^राश्य्^उदय^च्छाया^नाडी^करण^प्रभृतिषु क्षेत्र^काल^करणेष्व् अभिज्ञः।
2.(12) नाना^चोद्य^प्रश्न^भेद^उपलब्धि^जनित^वाक्^सारो निकष^सन्ताप^अभिनिवेशैः [क्.विशुद्धस्य] कनकस्य^इव^अधिकतरम् अमलीकृतस्य [क्.शास्त्रस्य]वक्ता तन्त्रज्ञो भवति[क्.उक्तञ् च]।
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0