भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 19

19.01

सर्वत्र भूर् विरलसस्ययुता वनानि
दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि।
*नद्यश्[क्.स्यन्दन्ति] च नैव *हि[क्.च] पयः प्रचुरं *स्रवन्ति[क्.स्रवन्त्यो]
रुग्भेषजानि न तथातिबलान्वितानि॥

19.02

तीक्ष्णं तपत्य् अदितिजः शिशिरे +अपि काले
नात्यम्बुदा जलमुचो +अचलसन्निकाशाः।
नष्टप्रभ^ऋक्षगण^शीत^करं नभश् च
सीदन्ति तापसकुलानि सगोकुलानि॥

19.03

हस्त्य्^अश्व^पत्तिमद् असह्यबलैर् उपेता
बाण^आसन^असि^मुशल^अतिशयाश् चरन्ति।
घ्नन्तो नृपा युधि नृप^अनुचरैश् च देशान्
संवत्सरे दिनकरस्य दिने +अथ मासे॥

19.04

व्याप्तं नभः प्रचलित^अचल^सन्निकाशैर्
व्याल^अञ्जन^अलि^गवल^च्छविभिः पयोदैः।
गां पूरयद्भिर् अखिलाम् अमलाभिर् अद्भिर्
*उत्कण्ठितेन[क्.उत्कण्ठकेन] गुरुणा ध्वनितेन चाशाः॥

19.05

तोयानि पद्म^कुमुद^उत्पलवन्त्य् अतीव
फुल्लद्रुमाण्य् उपवनान्य् अलिनादितानि।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैर् अविरतं रमयन्ति रामान्॥

19.06

गोधूम^शालि^यव^धान्य^वर^इक्षु^वाटा
भूः पाल्यते नृपतिभिर् नगर^आकर^आढ्या।
चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा
संवत्सरे शिशिरगोर् अभिसम्प्रवृत्ते॥

19.07

वातोद्धतश् चरति वह्निर् अतिप्रचण्डो
ग्रामान् वनानि नगराणि च सन्दिधक्षुः।
हाहा^इति दस्युगणपातहता रटन्ति
निःस्वीकृता विपशवो भुवि मर्त्यसंघाः॥

19.08

अभ्युन्नता वियति संहतमूर्तयो +अपि
मुञ्चन्ति *कुत्र चिद्[क्.न क्व चिद्] अपः प्रचुरं पयोदाः।
सीम्नि प्रजातम् अपि शोषम् उपैति सस्यं
निष्पन्नम् अप्य् अविनयाद् अपरे हरन्ति॥

19.09

भूपा न सम्यगभिपालनसक्तचित्ताः
पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः।
एवंविधैर् *उपहृता[क्.ऊ.उपहता] भवति प्रजा^इयं
संवत्सरे +अवनिसुतस्य विपन्नसस्या॥

19.10

माया^इन्द्रजाल^कुहक^आकर^नागराणां
गान्धर्व^लेख्य^गणित^अस्त्रविदां च वृद्धिः।
पिप्रीषया नृपतयो +अद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः॥

19.11

*वार्ता[क्.वार्त्ता] जगत्य् अवितथा विकला त्रयी च
सम्यक् चरत्य् अपि मनोर् इव दण्डनीतिः।
*अध्यक्षर[क्.अध्यक्षरं]स्वभिनिविष्टधियो *+अपि[क्.अत्र] के चिद्
आन्वीक्षिकीषु च परं पदमीहमानाः॥

19.12

हास्यज्ञ^दूत^कवि^बाल^नपुंसकानां
युक्तिज्ञ^सेतु^जल^पर्वत^वासिनां च।
हार्दिं करोति मृगलाञ्छनजः स्वके +अब्दे
मासे +अथ वा *प्रचुरता[क्.प्रचुरतां] भुवि च^औषधीनाम्॥

19.13

ध्वनिर् उच्चरितो +अध्वरे द्युगामी
विपुलो यज्ञमुषां मनांसि भिन्दन्।
विचरत्य् अनिशं द्विजोत्तमानां
हृदय^आनन्द^करो +अध्वरांशभाजाम्॥

19.14

क्षितिर् उत्तम^सस्यवत्य् अनेक^द्विप^पत्त्य्^अश्व^धन^उरु^गोकुल^आढ्या।
क्षितिपैर् अभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति॥

19.15

विविधैर् वियद् उन्नतैः पयोदैर् वृतम् उर्वीं पयसाभितर्पयद्भिः।
सुरराजगुरोः शुभे *तु[क्.अत्र] वर्षे बहुसस्या क्षितिर् उत्तम^ऋद्धियुक्ता॥

19.16

शालि^इक्षुमत्य् अपि धरा धरणीधर^आभ^
धाराधर^उज्झित^पयः^परिपूर्ण^वप्रा।
श्रीमत्^सरोरुह^तत^अम्बु^तडाग^कीर्णा
योषा^इव भात्य् अभिनव^आभरण^उज्ज्वल^अङ्गी॥

19.17

क्षत्रं क्षितौ क्षपित^भूरि^बल^अरि^पक्षम्
उद्घुष्ट^नैक^जय^शब्द^विराविताशम्।
संहृष्ट^शिष्ट^जन^दुष्ट^विनष्ट^वर्गां
गां पालयन्त्य् अवनिपा नगराकराढ्याम्॥

19.18

पेपीयते मधु मधौ सह कामिनीभिर्
जेगीयते श्रवणहारि स^वेणु^वीणम्।
बोभुज्यते +अतिथिसुहृत्स्वजनैः सहान्नम्
अब्दे सितस्य मदनस्य जयावघोषः॥

19.19

*उद्वृत्त[उ.उद्धत]^दस्युगणभूरिरणाकुलानि
राष्ट्राण्य् अनेकपशुवित्तविनाकृतानि।
रोरूयमाण^हत^बन्धुजनैर् जनैश् च
रोग^उत्तमाकुलकुलानि बुभुक्षया च॥

19.20

वातोद्धताम्बुधरवर्जितम् अन्तरिक्षम्
आरुग्णनैकविटपं च धरातलं द्यौः।
नष्टार्कचन्द्रकिरणातिरजो +अवनद्धा
तोयाशयाश् च विजलाः सरितो +अपि तन्व्यः॥

19.21

जातानि कुत्र चिद् अतोयतया विनाशम्
ऋच्छन्ति पुष्टिम् अपराणि जलोक्षितानि।
सस्यानि मन्दम् अभिवर्षति *वृत्र^शत्रुर्[क्.वृत्रशत्रौ]
वर्षे दिवाकरसुतस्य सदा प्रवृत्ते॥

19.22

अणुर् अपटुमयूखो नीचगो +अन्यैर् जितो वा
न सकलफलदाता पुष्टिदो +अतो +अन्यथा यः।
यद् अशुभम् अशुभे +अब्दे मासजं तस्य वृद्धिः
शुभफलम् अपि च^एवं याप्यम् अन्योन्यतायाम्॥
20 ग्रहशृङ्गाटकाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc