भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 18

18.01

भानां यथासम्भवम् उत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिणं तत्^*शुभदं नृपाणां[क्.शुभकृन्नराणां] याम्येन यातो न शिवः शशाङ्कः॥

18.02

चन्द्रमा यदि कुजस्य यात्य् उदक् पार्वतीय^बलशालिनां जयः।
क्षत्रियाः प्रमुदिताः सयायिनो भूरि^धान्य^मुदिता वसुन्धरा॥

18.03

उत्तरतः स्वसुतस्य शशङ्कः पौर^जयाय सुभिक्ष^करश् च।
सस्य^चयं कुरुते जनहार्दिं कोश^चयं च नराधिपतीनाम्॥

18.04

बृहस्पतेर् उत्तरगे शशाङ्के पौर^द्विज^क्षत्रिय^पण्डितानाम्।
धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश् च॥

18.05

भार्गवस्य यदि यात्य् उदक् शशी कोश^युक्त^गज^वाजि^वृद्धिदः।
यायिनां च विजयो धनुष्मतां सस्यसम्पद् अपि च^उत्तमा तदा॥

18.06

रविजस्य शशी प्रदक्षिणं कुर्याच् चेत् पुरभूभृतां जयः।
शक^बाह्लिक^सिन्धु^पह्लवा *मुदभाजो[क्.मुद्भाजो] यवनैः समन्विताः॥

18.07

येषाम् उदग् गच्च्छति भग्रहाणां प्रालेयरश्मिर् निरुपद्रवश् च।
तद्^द्रव्य^पौर^इतर^भक्ति^देशान् पुष्णाति याम्येन निहन्ति तानि॥

18.08

शशिनि फलम् *उदक्स्थे[क्.उदकस्थे] यद् ग्रहस्य^उपदिष्टं
भवति तद् अपसव्ये सर्वम् एव प्रतीपम्।
इति शशिसमवायाः *कीर्तिता[क्.कीर्त्तिता] भग्रहाणां
न खलु भवति युद्धं साकम् इन्दोर् ग्रह^ऋक्षैः॥
19 ग्रहवर्षफलाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc