बृहत्संहिता · अध्याय 17
युद्धं यथा यदा वा *भविष्यम्[क्.भविष्यद्] आदिश्यते त्रिकालज्ञैः।
तद्विज्ञानं करणे मया कृतं सूर्य^*सिद्धान्ते[क्.सिद्धान्तात्]॥
वियति चरतां ग्रहाणाम् उपर्युपर्य् आत्ममार्गसंस्थानाम्।
अतिदूराद् दृग्विषये समताम् इव सम्प्रयातानाम्॥
आसन्न^क्रम^योगाद् भेद^उल्लेख^अंशु^मर्दन^*असव्यैः[क्.असव्यः]।
युद्धं चतुष्प्रकारं पराशर^आद्यैर् मुनिभिर् उक्तम्॥
भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च।
उल्लेखे शस्त्र^भयं मन्त्रिविरोधः प्रियान्नत्वम्॥
अम्शुविरोधे युद्धानि भूभृतां शस्त्र^रुक्^क्षुद्^अवमर्दाः।
युद्धे च^अप्य् अपसव्ये भवन्ति युद्धानि भूपानाम्॥
रविर् आक्रन्दो मध्ये पौरः पूर्वे +अपरे स्थितो यायी।
पौरा बुध^गुरु^रविजा नित्यं शीतांशुर् *आक्रन्दः[क्.आक्रन्द्रः]॥
केतु^कुज^राहु^शुक्रा यायिन एते हता *घ्नन्ति[क्.ग्रहा हन्युः]।
आक्रन्द^यायि^पौरान् जयिनो *जयदाः[क्.जयदा] स्व^वर्गस्य॥
पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति।
एवं *याय्याक्रन्दा[क्.याय्याक्रन्दौ] नागर^यायि^ग्रहाश् च^एव॥
दक्षिणदिक्स्थः परुषो वेपथुर् अप्राप्य सन्निवृत्तो +अणुः।
अधिरूढो विकृतो निष्प्रभो विवर्णश् च यः स जितः॥
उक्तविपरीतलक्षणसम्पन्नो जयगतो *विनिर्देश्यः[क्.विनिर्दिष्टः]।
विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थो +अपि जययुक्तः॥
द्वाव् अपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः।
तत्र *अन्योन्यं प्रीतिर्[क्.अन्योन्यप्रीतिर्] विपरीताव् आत्मपक्षघ्नौ॥
युद्धं समागमो वा यद्य् अव्यक्तौ *स्वलक्षणैर्[क्.तु लक्षणैर्] भवतः।
भुवि भूभृताम् अपि तथा फलम् अव्यक्तं विनिर्देश्यम्॥
गुरुणा जिते +अवनिसुते बाह्लीका यायिनो *+अग्निवार्ताश् च[क्.अग्निवार्त्ताश् च]।
शशिजेन शूरसेनाः कलिङ्ग^*शाल्वाश्[क्.साल्वाश्] च पीड्यन्ते॥
सौरेण^अरे विजिते जयन्ति पौराः प्रजाश् च सीदन्ति।
*कोष्ठागार[क्.कोष्ठागार]^म्लेच्छ^क्षत्रिय^तापश् च शुक्रजिते॥
भौमेन हते शशिजे वृक्ष^सरित्^तापस^अश्मक^नरेन्द्राः।
उत्तरदिक्स्थाः क्रतु^दीक्षिताश् च सन्तापम् आयान्ति॥
गुरुणा *जिते बुधे[क्.बुधे जिते] म्लेच्छ^शूद्र^चौर^अर्थयुक्त^पौरजनाः।
त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही॥
रविजेन बुधे ध्वस्ते नाविक^योध^अब्ज^सधन^गर्भिण्यः।
भृगुणा जिते +अग्निकोपः सस्य^अम्बुद^यायि^विध्वंसः॥
जीवे शुक्र^अभिहते कुलूत^गान्धार^कैकया मद्राः।
*शाल्वा[क्.साल्वा] वत्सा वङ्गा गावः सस्यानि *पीड्यन्ते[क्.नश्यन्ति]॥
भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः।
सौरेण च^अर्जुनायन^वसाति^यौधेय^शिबि^विप्राः॥
शशितनयेन^अपि जिते बृहस्पतौ म्लेच्छ^सत्य^शस्त्र^भृतः।
उपयान्ति मध्यदेशश् च संक्षयं यच् च भक्तिफलम्॥
शुक्रे बृहस्पति^*जिते[क्.हते] यायी श्रेष्ठो विनाशम् उपयाति।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस् त्यजति॥
कोशल^कलिङ्ग^वङ्गा वत्सा मत्स्याश् च मध्यदेश^युताः।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश् च॥
कुज^विजिते भृगु^तनये बल^मुख्य^वधो नरेन्द्र^संग्रामाः।
सौम्येन पार्वतीयाः क्षीरविनाशो +अल्पवृष्टिश् च॥
रविजेन सिते विजिते *गुणमुख्याः[उ.गणमुख्याः] शस्त्र^जीविनः क्षत्रम्।
जलजाश् च निपीड्यन्ते सामान्यं भक्तिफलम् अन्यत्॥
असिते सितेन निहते +अर्घ^वृद्धिर् अहि^विहग^मानिनां पीडा।
क्षितिजेन तङ्गण^अन्ध्र^उड्र^काशि^बाह्लीक^देशानाम्॥
सौम्येन पराभूते मन्दे +अङ्ग^वणिग्^विहङ्ग^पशु^नागाः।
सन्ताप्यन्ते गुरुणा स्त्री^बहुला महिषक^शकाश् च॥
अयं विशेषो +अभिहितो हतानां कुज^ज्ञ^वागीश^सित^असितानाम्।
फलं तु वाच्यं ग्रह^भक्तितो +अन्यद् यथा तथा घ्नन्ति हताः स्वभक्तीः॥
18 शशिग्रहसमागमाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0