भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 16

16.01

प्राङ् नर्मदार्ध^शोण^उड्र^वङ्ग^सुह्माः कलिङ्ग^बाह्लीकाः।
शक^यवन^मगध^शबर^प्राग्ज्योतिष^चीन^काम्बोजाः॥

16.02

मेकल^किरात^विटका बहिर्^अन्तः^शैलजाः पुलिन्दाश् च।
द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः॥

16.03

चम्प^उदुम्बर^कौशाम्बि^चेदि^विन्ध्याटवी^कलिङ्गाश् च।
पुण्ड्रा गोलाङ्गूल^श्रीपर्वत^*वर्धमानानि[क्.वर्धमानाश् च]॥

16.04

इक्षुमती^इत्य् अथ तस्कर^पारत^कान्तार^गोप^बीजानाम्।
तुषधान्य^कटुक^तरु^कनक^दहन^विष^समरशूराणाम्॥

16.05

भेषज^भिषक्^चतुष्पद^कृषिकर^नृप^हिंस्र^यायि^चौराणाम्।
व्याल^अरण्य^यशोयुत^तीक्ष्णाणां भास्करः स्वामी॥

16.06

गिरि^सलिल^दुर्ग^कोशल^भरुकच्छ^समुद्र^रोमक^*तुषाराः[क्.तुखाराः]।
वनवासि^तङ्गण^हल^स्त्रीराज्य^महार्णवद्वीपाः॥

16.07

मधुररस^कुसुम^फल^सलिल^लवण^मणि^शङ्ख^मौक्तिक^अब्जानाम्।
शालि^यव^औषधि^गोधूम^सोमप^आक्रन्द^विप्राणाम्॥

16.08

सित^सुभग^तुरग^रतिकर^युवति^चमूनाथ^भोज्य^वस्त्राणाम्।
शृङ्गि^निशाचर^कार्षक^यज्ञविदां च^अधिपश् चन्द्रः॥

16.09

शोणस्य नर्मदाया भीमरथायाश् च पश्चिमार्धस्थाः।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा॥

16.10

मन्दाकिनी पयोष्णी महानदी सिन्धु^मालती^पाराः।
उत्तरपाण्ड्य^महेन्द्राद्रि^विन्ध्य^मलय^उपगाश् चोलाः॥

16.11

द्रविड^विदेह^अन्ध्र^अश्मक^*भासापर[क्.भासापुर]^कौङ्कणाः समन्त्रिषिकाः।
कुन्तल^केरल^दण्डक^कान्तिपुर^म्लेच्छ^*सङ्करिणः[क्.सङ्करजाः]॥
[क्.16.12अब्। नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः।
क्.16.12च्द्। ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥]

16.12

नागर^कृषिकर^पारत^हुताशनाजीवि^*शस्त्र^वार्तानाम्[क्.शस्त्र^वार्त्तानाम्]।
आटविक^दुर्ग^कर्वट^*वधिक[क्.वधक]^नृशंस^अवलिप्तानाम्॥

16.13

नरपति^कुमार^कुञ्जर^दाम्भिक^डिम्भाभिघात^पशुपानाम्।
रक्त^फल^कुसुम^विद्रुम^चमूप^गुड^मद्य^तीक्ष्णानाम्॥

16.14

कोश^भवन^आग्निहोत्रिक^धात्वाकर^शाक्य^भिक्षु^चौराणाम्।
शठ^दीर्घवैर^बह्वाशिनां च वसुधासुतो +अधिपतिः॥

16.15

लोहित्यः सिन्धुनदः सरयूर् गाम्भीरिका रथाख्या च।
गङ्गा^कौशिक्य्^आद्याः सरितो वैदेह^काम्बोजाः॥

16.16

मथुरायाः पूर्वार्धं हिमवद्^गोमन्त^चित्रकूट^स्थाः।
सौराष्ट्र^सेतु^जलमार्ग^पण्य^बिल^पर्वत^आश्रयिणः॥

16.17

उदपान^यन्त्र^गान्धर्व^लेख्य^मणि^राग^गन्ध^युक्ति^विदः।
आलेख्य^शब्द^गणित^प्रसाधक^आयुष्य^शिल्पज्ञाः॥

16.18

चरपुरुष^कुहकजीवक^शिशु^कवि^शठ^सूचक^अभिचार^रताः।
दूत^नपुंसक^हास्यज्ञ^भूततन्त्र^इन्द्रजाल^ज्ञाः॥

16.19

आरक्षक^नट^नर्तक^घृत^तैल^स्नेह^बीज^तिक्तानि।
व्रतचारि^रसायन^कुशल^वेसराश् चन्द्रपुत्रस्य॥

16.20

सिन्धुनद^पूर्वभागो मथुरा^पश्चार्ध^भरत^सौवीराः।
स्रुघ्न^*औदीच्य[क्.उदीच्य]^विपाशा^सरित्^शतद्रू रमठ^*शाल्वाः[क्.साल्वाः]॥

16.21

त्रैगर्त^*पौरव[क्.पौरब]^अम्बष्ठ^पारता वाटधान^यौधेयाः।
सारस्वत^अर्जुनायन^मत्स्यार्ध^ग्रामराष्ट्राणि॥

16.22

हस्त्य्^अश्व^पुरोहित^भूप^मन्त्रि^माङ्गल्य^पौष्टिक^आसक्ताः।
कारुण्य^सत्य^शौच^व्रत^विद्या^दान^धर्म^युताः॥

16.23

पौर^महाधन^शब्द^अर्थ^वेदविदुषो +अभिचार^नीति^ज्ञाः।
मनुजेश्वर^उपकरणम् छत्र^ध्वज^चामर^आद्यं च॥

16.24

शैलेय^कुष्ठ[क्.कष्ठ]^मांसी^तगर^रस^सैन्धवानि वल्लीजम्।
मधुर^रस^मधूच्छिष्टानि चोरकश् च^इति जीवस्य॥

16.25

तक्षशिल^*मर्तिकावत[क्.ऊ.मार्तिकावत]^बहुगिरि^गान्धार^पुष्कलावतकाः।
प्रस्थल^मालव^कैकय^दाशार्ण^उशीनराः शिबयः॥

16.26

ये च पिबन्ति वितस्ताम् इरावतीं चन्द्रभाग^सरितं च।
रथ^रजत^आकर^कुञ्जर^तुरग^महामात्र^धनयुक्ताः॥

16.27

सुरभि^कुसुम^अनुलेपन^मणि^वज्र^विभूषण^अम्बुरुह^शय्याः।
वर^तरुण^युवति^काम^उपकरण^मृष्टान्न^मधुर^भुजः॥

16.28

उद्यान^सलिल^कामुक^यशः^सुख^औदार्य^रूप^सम्पन्नाः।
विद्वद्^अमात्य^वणिग्जन^घटकृच्^चित्राण्डजास् त्रिफलाः॥

16.29

कौशेयपट्ट^कम्बल^पत्रौर्णिक^रोध्र^पत्र^चोचानि।
जातीफल^अगुरु^वचा^पिप्पल्यश् चन्दनं च भृगोः॥

16.30

आनर्त^आर्बुद^पुष्कर^सौराष्ट्र^आभीर^शूद्र^रैवतकाः।
नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः।

16.31

कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः।
खल^मलिन^नीच^तैलिक^विहीनसत्त्व^उपहत^पुंस्त्वाः॥

16.32

*बान्धन[क्.बन्धन]^शाकुनिक^अशुचि^कैवर्त^विरूप^वृद्ध^सौकरिकाः।
गणपूज्य^स्खलित^व्रत^शबर^पुलिन्द^अर्थपरिहीनाः।

16.33

कटु^तिक्त^रसायन^विधवयोषितो भुजग^तस्कर^महिष्यः।
खर^करभ^चणक^*वातल[क्.वातुल]^निष्पावाश् च^अर्कपुत्रस्य॥

16.34

गिरिशिखर^कन्दर^दरी^विनिविष्टा म्लेच्छजातयः शूद्राः।
गोमायु^भक्ष^शूलिक^वोक्काण^अश्वमुख^विकलाङ्गाः।

16.35

कुलपांसन^हिंस्र^कृतघ्न^चौर^निःसत्य^शौच^दानाश् च।
खर^चर^नियुद्धवित्^तीव्ररोष^*गर्त्ताश्रया[क्.गर्भाशया] नीचाः॥

16.36

उपहत^दाम्भिक^राक्षस^निद्राबहुलाश् च जन्तवः सर्वे।
धर्मेण च संत्यक्ता माष^तिलाश् च^अर्कशशिशत्रोः॥

16.37

गिरिदुर्ग^पह्लव^श्वेत^हूण^चोल^आवगाण^मरु^चीनाः।
प्रत्यन्त^धनि^महेच्छ^व्यवसाय^पराक्रमोपेताः॥

16.38

परदार^विवाद^रताः पररन्ध्र^कुतूहला मद^उत्सिक्ताः।
मूर्खा^अधार्मिक^विजिगीषवश् च केतोः समाख्याताः॥

16.39

उदयसमये यः स्निग्धांशुर् महान् प्रकृतिस्थितो
यदि च न हतो निर्घात^उल्का^रजो^ग्रहमर्दनैः।
स्वभवन^गतः स्वोच्च^प्राप्तः शुभग्रह^वीक्षितः
स भवति शिवस् तेषां येषां प्रभुः परिकीर्तितः॥

16.40

अभिहित^विपरीत^*लक्षणे[क्.लक्षनैः] क्षयम् उपगच्छति तत्परिग्रहः।
डमर^भय^गद^आतुरा जना नरपतयश् च भवन्ति दुःखिताः॥

16.41

यदि न रिपुकृतं भयं नृपाणां स्वसुत^कृतं नियमाद् अमात्यजं वा।
भवति जनपदस्य च^अप्य् अवृष्ट्या गमनम् अपूर्वपुर^अद्रि^निम्नगासु॥
17 ग्रहयुद्धाध्यायः।

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc