भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 15

15.01

आग्नेये सितकुसुम^आहिताग्नि^मन्त्रज्ञ^सूत्र^भाष्य^ज्ञाः।
आकरिक^नापित^द्विज^घटकार^पुरोहित^अब्दज्ञाः॥

15.02

रोहिण्यां सुव्रत^पण्य^भूप^धनि^योग^युक्त^शाकटिकाः।
गो^वृष^जलचर^कर्षक^शिलोच्चय^ऐश्वर्यसम्पन्नाः॥

15.03

मृगशिरसि सुरभि^वस्त्र^अब्ज^कुसुम^फल^रत्न^वनचर^विहङ्गाः।
मृग^सोमपीथि^गान्धर्व^कामुका लेखहाराश् च॥

15.04

रौद्रे वध^बन्ध^आनृत^परदार^स्तेय^शाठ्य^भेद^रताः।
तुषधान्य^तीक्ष्ण^मन्त्र^अभिचार^वेतालकर्मज्ञाः॥

15.05

आदित्ये सत्य^औदार्य^शौच^कुल^रूप^धी^यशो^अर्थ^युताः।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः॥

15.06

पुष्ये यव^गोधूमाः शालि^इक्षु^वनानि मन्त्रिणो भूपाः।
सलिलोपजीविनः साधवश् च यज्ञ^इष्टि^सक्ताश् च॥

15.07

अहिदेवे कृत्रिम^कन्द^मूल^फल^कीट^पन्नग^विषाणि।
पर^धन^हरण^अभिरतास् तुषधान्यं सर्वभिषजश् च॥

15.08

पित्र्ये धन^धान्य^आढ्याः कोष्ठागाराणि पर्वताश्रयिणः।
पितृ^भक्त^वणिक्^शूराः क्रव्यादाः स्त्री^द्विषो मनुजाः॥

15.09

प्राक्फल्गुनीषु नट^युवति^सुभग^गान्धर्व^शिल्पि^पण्यानि।
कर्पास^लवण^*मक्षिक[क्.ऊ.माक्षिक]^तैलानि कुमारकाश् च^अपि॥

15.10

आर्यम्णे मार्दव^शौच^विनय^*पाखण्डि[क्.पाषण्डि]^दान^शास्त्र^रताः।
शोभन^धान्य^महाधन^कर्मानुरताः समनुजेन्द्राः॥

15.11

हस्ते तस्कर^कुञ्जर^रथिक^महामात्र^शिल्पि^पण्यानि।
तुषधान्यं श्रुतयुक्ता वणिजस् तेजोयुताश् च^अत्र॥

15.12

त्वाष्ट्रे भूषण^मणि^राग^लेख्य^गान्धर्व^गन्ध^युक्ति^ज्ञाः।
गणितपटु^तन्तुवायाः शालाक्या राजधान्यानि॥

15.13

स्वातौ खग^मृग^तुरगा वणिजो धान्यानि वातबहुलानि।
अस्थिर^सौहृद^लघु^सत्त्व^तापसाः पण्य^कुशलाश् च॥

15.14

इन्द्राग्निदैवते रक्त^पुष्प^फल^शाखिनः स^तिल^मुद्गाः।
कर्पास^माष^चणकाः पुरन्दर^हुताश^भक्ताश् च॥

15.15

मैत्रे शौर्यसमेता गणनायक^साधु^गोष्ठि^यान^रताः।
ये साधवश् च लोके सर्वं च शरत्समुत्पन्नम्॥

15.16

पौरन्दरे +अतिशूराः कुल^वित्त^यशो^+अन्विताः परस्वहृतः।
विजिगीषवो नरेन्द्राः सेनानां च^अपि नेतारः॥

15.17

मूले भेषज^भिषजो गणमुख्याः कुसुम^मूल^फल^*वार्ताः[क्.वार्त्ताः]।
बीजान्य् अतिधनयुक्ताः फलमूलैर् ये च वर्तन्ते॥

15.18

आप्ये मृदवो जलमार्गगामिनः सत्य^शौच^धन^युक्ताः।
सेतुकर^वारि^जीवक^फल^कुसुमान्य् अम्बुजातानि॥

15.19

विश्वेश्वरे महामात्र^मल्ल^करि^तुरग^देवता^*सक्ताः[क्.भक्ताः]।
स्थावर^योधा भोगान्विताश् च ये *तेजसा[क्.चौजसा] युक्ताः॥

15.20

श्रवणे मायापटवो नित्योद्युक्ताश् च कर्मसु समर्थाः।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश् च॥

15.21

वसुभे मानोन्मुक्ताः *क्लीब[क्.क्लीबाश्]^अचलसौहृदाः स्त्रियां *द्वेष्याः[क्.द्वष्याः, क्ऽस् त्र्. द्वेष्याः]।
दानाभिरता बहुवित्तसंयुताः शमपराश् च नराः॥

15.22

वरुणेशे पाशिक^मत्स्य^बन्ध^जलजानि जलचराजीवाः।
सौकरिक^रजक^शौण्डिक^शाकुनिकाश् च^अपि वर्गे +अस्मिन्॥

15.23

आजे तस्कर^पशुपाल^हिंस्र^कीनाश^नीच^शठ^चेष्टाः।
धर्म^व्रतैर् विरहिता नियुद्ध^कुशलाश् च ये मनुजाः॥

15.24

*आहिर्बुध्न्ये[क्.आहिर्बुध्न्यु] विप्राः क्रतु^दान^तपो^युता महाविभवाः।
आश्रमिणः *पाखण्डा[क्.पाषण्डा] नरेश्वराः सारधान्यं च॥

15.25

पौष्णे सलिलज^फल^कुसुम^लवण^मणि^शङ्ख^मौक्तिक^अब्जानि।
सुरभि^कुसुमानि गन्धा वणिजो नौकर्णधाराश् च॥

15.26

अश्विन्याम् अश्वहराः सेनापति^वैद्य^सेवकास् तुरगाः।
*तुरगारोहा वणिजो[क्.तुरगारोहाश् च वनिग्] रूपोपेतास् तुरगरक्षाः॥

15.27

याम्ये +असृक्^पिशित^भुजः क्रूरा वध^बन्ध^ताडन^आसक्ताः।
तुषधान्यं नीचकुलोद्भवा विहीनाश् च सत्त्वेन॥

15.28

पूर्वात्रयं सानलम् अग्रजानां राज्ञां तु पुष्येण सहोत्तराणि।
सपौष्ण^मैत्रं पितृदैवतं च प्रजापतेर् भं च कृषीवलानाम्॥

15.29

आदित्य^हस्त^अभिजिद्^आश्विनानि वणिग्जनानां प्रवदन्ति *तानि[क्.भानि]।
मूल^त्रिनेत्र^अनिल^वारुणानि भान्य् उग्रजातेः *प्रभविष्णुतायाः[क्.प्रभविष्णुतायाम्]॥

15.30

सौम्य^ऐन्द्र^चित्रा^वसुदैवतानि सेवाजन^स्वाम्यम् उपागतानि।
सार्पं विशाखा श्रवणो भरण्यश् चण्डालजातेर् *अभिनिर्दिशन्ति[क्.इति निर्दशन्ति]॥

15.31

रवि^रविसुत^भोगम् आगतं क्षितिसुत^भेदन^वक्र^दूषितम्।
ग्रहणगतम् अथ^उल्कया हतं नियतम् उषाकर^पीडितं च यत्॥

15.32

तद् उपहतम् इति प्रचक्षते प्रकृति^विपर्यय^यातम् एव वा।
निगदित^परिवर्ग^दूषणं कथित^विपर्ययगं समृद्धये॥
16 ग्रहभक्तियोगाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc