बृहत्संहिता · अध्याय 14
नक्षत्रत्रय^वर्गैर् आग्नेयाद्यैर् व्यवस्थितैर् नवधा।
भारतवर्षे *मध्य[क्.मध्यात्]^प्रागादि^विभाजिता देशाः॥
भद्र^अरिमेद^माण्डव्य^साल्व^नीप^उज्जिहान^संख्याताः।
मरु^वत्स^घोष^यामुन^सारस्वत^मत्स्य^माध्यमिकाः॥
माथुरक^उपज्योतिष^धर्मारण्यानि शूरसेनाश् च।
गौरग्रीव^उद्देहिक^पाण्डु^गुड^अश्वत्थ^पाञ्चालाः॥
साकेत^कङ्क^कुरु^कालकोटि^कुकुराश् च पारियात्र^नगः।
औदुम्बर^कापिष्ठल^गजाह्वयाश् च^इति मध्यम् इदम्॥
अथ पूर्वस्याम् अञ्जन^वृषभ^ध्वज^पद्म^माल्यवद्^गिरयः।
व्याघ्रमुख^सुह्म^कर्वट^चान्द्रपुराः शूर्पकर्णाश् च॥
खस^मगध^शिबिरगिरि^मिथिल^समतट^उड्र^अश्ववदन^दन्तुरकाः।
प्राग्ज्योतिष^लौहित्य^क्षीरोद^समुद्र^पुरुषादाः॥
उदयगिरि^भद्र^गौडक^पौण्ड्र^उत्कल^काशि^मेकल^अम्बष्ठाः।
एकपद^*ताम्रलिप्तक[क्.तामलिपितक]^कोशलका वर्धमानाश् च॥
आग्नेय्यां दिशि कोशल^कलिङ्ग^वङ्ग^उपवङ्ग^जठराङ्गाः।
शौलिक^विदर्भ^वत्स^अन्ध्र^चेदिकाश् च^ऊर्ध्वकण्ठाश् च॥
वृष^नालिकेर^चर्मद्वीपा विन्ध्यान्तवासिनस् त्रिपुरी।
श्मश्रुधर^*हेमकुड्य[क्.हेमकूट्य]^व्यालग्रीवा महाग्रीवाः॥
किष्किन्ध^कण्टकस्थल^निषादराष्ट्राणि पुरिक^दाशार्णाः।
सह नग्न^पर्णशबरैर् आश्लेषाद्ये त्रिके देशाः॥
अथ दक्षिणेन लङ्का^कालाजिन^सौरिकीर्ण^तालिकटाः।
गिरिनगर^मलय^दर्दुर^महेन्द्र^मालिन्द्य^भरुकच्छाः॥
कङ्कट^*कङ्कण[क्.टङ्कण]^वनवासि^शिबिक^फणिकार^कोङ्कण^आभीराः।
आकर^वेणा^*आवर्तक[क्.आवन्तक]^दशपुर^गोनर्द^केरलकाः॥
कर्णाट^महाटवि^चित्रकूट^नासिक्य^कोल्लगिरि^चोलाः।
क्रौञ्चद्वीप^जटाधर^कावेर्यो रिष्यमूकश् च॥
वैदूर्य^शङ्ख^मुक्ता^अत्रि^वारिचर^धर्मपट्टन^द्वीपाः।
गणराज्य^कृष्ण^वेल्लूर^पिशिक^शूर्पाद्रि^कुसुमनगाः॥
तुम्बवन^*कार्मणयक[क्.ऊ.कार्मणेयक]^याम्योदधि^तापसाश्रमा ऋषिकाः।
काञ्ची^मरुचीपट्टन^चेर्य्^आर्यक^सिंहला ऋषभाः॥
बलदेवपट्टनं दण्डकावन^तिमिङ्गिलाशना भद्राः।
कच्छो +अथ कुञ्जरदरी सताम्रपर्णी^इति विज्ञेयाः॥
नैरृत्यां दिशि देशाः पह्लव^काम्बोज^सिन्धुसौवीराः।
वडवामुख^अरव^अम्बष्ठ^कपिल^नारीमुख^आनर्ताः॥
फेणगिरि^यवन^*मार्गर[क्.माकर]^कर्णप्रावेय^पारशव^शूद्राः।
बर्बर^किरात^खण्ड^*क्रव्याद[क्.क्रव्याश्या]^आभीर^चञ्चूकाः॥
हेमगिरि^सिन्धु^कालक^रैवतक^सुराष्ट्र^बादर^द्रविडाः।
स्वात्य्^आद्ये भत्रितये ज्ञेयश् च महार्णवो +अत्र^एव॥
अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणो +अस्तगिरिः।
अपरान्तक^शान्तिक^हैहय^प्रशस्ताद्रि^वोक्काणाः॥
पञ्चनद^रमठ^पारत^तारक्षिति^जृङ्ग^वैश्य^कनक^शकाः।
निर्मर्यादा म्लेच्छा ये पश्चिम^दिक्^स्थितास् ते च॥
दिशि पश्चिमोत्तरस्यां माण्डव्य^*तुषार[क्.तुखार]^ताल^हल^मद्राः।
अश्मक^कुलूत^*हलडाः[क्.हड]^स्त्रीराज्य^नृसिंहवन^खस्थाः॥
वेणुमती फल्गुलुका गुलुहा मरुकुच्च^चर्मरङ्गाख्याः।
एकविलोचन^शूलिक^दीर्घग्रीव^आस्य^केशाश् च॥
उत्तरतः कैलासो हिमवान् वसुमान् गिरिर् धनुष्मांश् च।
क्रौञ्चो मेरुः कुरवस् तथा^उत्तराः क्षुद्रमीनाश् च॥
कैकय^वसाति^यामुन^भोगप्रस्थ^अर्जुनायन^अग्नीध्राः।
*आदरान्तर्द्वीपि[क्.ऊ.आदर्शान्तद्वीपि]^त्रिगर्त^*तुरगाननाः श्वमुखाः[क्.तुरगाननाश्वमुखाः]॥
केशधर^चिपिटनासिक^दासेरक^वाटधान^शरधानाः।
तक्षशिल^पुष्कलावत^कैलावत^कण्ठधानाश् च॥
अम्बर^मद्रक^मालव^पौरव^कच्छार^दण्ड^पिङ्गलकाः।
माणहल^हूण^कोहल^शीतक^माण्डव्य^भूतपुराः॥
गान्धार^यशोवति^हेमताल^राजन्य^खचर^गव्याश् च।
यौधेय^दासमेयाः श्यामाकाः क्षेमधूर्ताश् च॥
ऐशान्यां मेरुक^नष्टराज्य^पशुपाल^कीर^काश्मीराः।
अभिसार^दरद^तङ्गण^कुलूत^*सैरिन्ध्र[क्.सैरिन्ध]^वनराष्ट्राः॥
ब्रह्मपुर^दार्व^डामर^वनराज्य^किरात^चीन^कौणिन्दाः।
*भल्लाः पटोल[क्.भल्लापलोल]^जटासुर^*कुनटखस[क्.कुनठखष]^घोष^कुचिकाख्याः॥
एकचरण^*अनुविद्धाः[क्.अनुविश्वाः] सुवर्णभूर् *वसुधनं[क्.वसुवनं] दिविष्ठाश् च।
पौरव^*चीरनिवासि[क्.चीरनिवासन]^त्रिनेत्र^मुञ्जाद्रि^*गान्धर्वाः[क्.गन्धर्वाः]॥
वर्गैर् आग्नेयाद्यैः क्रूरग्रह^पीडितैः क्रमेण नृपाः।
पाञ्चालो मागधिकः कालिङ्गश् च क्षयं यान्ति॥
आवन्तो +अथ^आनर्तो मृत्युं च^आयाति सिन्धुसौवीरः।
राजा च हारहौरो मद्रेशो +अन्यश् च कौणिन्दः॥
15 नक्षत्रव्यूहाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0