भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 13

13.01

सैकावलीव राजति ससितोत्पलमालिनी सहासेव।
नाथवतीव च दिग् यैः कौवेरी सप्तभिर् मुनिभिः॥

13.02

ध्रुवनायकोपदेशान् *नरिनर्ती[क्.नरिनर्त्ती]^इव^उत्तरा भ्रमद्भिश् च।
यैश् चारम् अहं तेषां कथयिष्ये वृद्धगर्ग^मतात्॥

13.03

आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ।
षड्द्विकपञ्चद्वियुतः शककालस् तस्य राज्ञश् च॥

13.04

एकैकस्मिन्न् ऋक्षे शतं शतं ते चरन्ति वर्षाणाम्।
*प्रागुदयतो +अप्य् अविवराद् र्जून् नयति तत्र संयुक्ताः[क्.प्रागुत्तरतश् च एते सदा उदयन्ते ससाध्वीकाः]॥

13.05

पूर्वे भागे भगवान् मरीचिर् अपरे स्थितो वसिष्ठो +अस्मात्।
तस्याङ्गिरास् ततो +अत्रिस् तस्यासन्नः पुलस्त्यश् च॥

13.06

पुलहः क्रतुर् इति भगान् आसन्ना अनुक्रमेण *पूर्वाद्यात्[क्.पूर्वाद्याः]।
तत्र वसिष्ठं मुनिवरम् उपाश्रितारुन्धती साध्वी॥

13.07

उल्का^अशनि^धूम^आद्यैर् हता विवर्णा विरश्मयो ह्रस्वाः।
हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश् च तद्वृद्ध्यै॥

13.08

गन्धर्व^देव^दानव^मन्त्र^औषधि^सिद्ध^यक्ष^नागानाम्।
पीडाकारो मरीचिर् ज्ञेयो विद्याधराणां च॥

13.09

शक^यवन^दरद^पारत^काम्बोजांस् तापसान् वनोपेतान्।
हन्ति वसिष्ठो +अभिहतो विवृद्धिदो रश्मिसम्पन्नः॥

13.10

अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश् च निर्दिष्टाः।
अत्रेः कान्तारभवा जलजान्य् अम्भोनिधिः सरितः॥

13.11

रक्षः^पिशाच^दानव^दैत्य^भुजङ्गाः स्मृताः पुलस्त्यस्य।
पुलहस्य तु मूलफलं क्रतोस् तु यज्ञाः सयज्ञभृतः॥
14 नक्षत्रकूर्माध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc