बृहत्संहिता · अध्याय 12
समुद्रो +अन्तः शैलैर् मकर^नखर^उत्खात^शिखरैः
कृतस् तोय^उच्छित्त्या सपदि सुतरां येन रुचिरः।
पतन् मुक्तामिश्रैः प्रवर^मणिरत्न^अम्बुनिवहैः
सुरान् प्रत्यादेष्टुं *मित[क्.सित]^मुकुट^रत्नान् इव पुरा॥
येन च^अम्बुहरणे +अपि विद्रुमैर् भूधरैः स^मणिरत्न^विद्रुमैः।
निर्गतैस् तद्^उरगैश् च राजितः सागरो +अधिकतरं विराजितः॥
प्रस्फुरत्^तिमि^जलेभ^जिह्मगः क्षिप्त^रत्न^निकरो महोदधिः।
आपदां पदगतो +अपि यापितो येन पीतसलिलो +अमरश्रियम्॥
प्रचलत्^तिमि^शुक्तिज^शङ्ख^चितः सलिले +अपहृते +अपि पतिः सरिताम्।
स^तरङ्ग^सितोत्पल^हंस^भृतः सरसः शरदि^इव विभर्ति *रुचिम्[क्.रुचम्]॥
तिमि^सिताम्बुधरं मणि^तारकं स्फटिक^चन्द्रम् अनम्बु^शरद्^द्युतिः।
फणि^फण^उपल^रश्मि^शिखिग्रहं कुटिलगेश^वियच् च चकार यः॥
दिनकर^रथ^मार्ग^विच्छित्तये +अभ्युद्यतं यच् चलत्^शृङ्गम् उद्भ्रान्त^विद्याधर^अंस^अवसक्त^प्रिया^व्यग्र^दत्त^अङ्क^देह^अवलम्ब^अम्बर^*अत्य्[क्.अभ्य्]उच्छ्रित^उद्धूयमान^ध्वजैः शोभितम्।
करिकट^मद^मिश्र^रक्त^अवलेह^अनुवास^अनुसारि^द्विरेफ^अवलीन^उत्तमाङ्गैः कृतान् बाणपुष्पैर् इव^उत्तंसकान् धारयद्भिर् मृगेन्द्रैः सनाथीकृत^अन्तर्^दरी^निर्झरम्।
गगन^तलम् इव^उल्लिखन्तं प्रवृद्धैर् गज^आकृष्ट^फुल्ल^द्रुम^त्रास^विभ्रान्त^मत्त^द्विरेफ^आवली^*हृष्ट[क्.गीत]^मन्द्र^स्वनैः शैलकूटैस् तरक्ष^ऋक्ष^शार्दूल^शाखामृग^अध्यासितैः।
रहसि मदनसक्तया रेवया कान्तया^इव^उपगूढं सुर^अध्यासित^उद्यानम् अम्भोशन^अन्न^मूल^अनिलाहार^विप्र^अन्वितं विन्ध्यम् अस्तम्भयद् यश् च तस्य^उदयः श्रूयताम्॥
उदये च मुनेर् अगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि।
हृदयानि सताम् इव स्वभावात् पुनर् अम्बूनि भवन्ति निर्मलानि॥
पार्श्वद्वय^अधिष्ठित^चक्रवाकामापुष्णती सस्वन^हंस^पङ्क्तिम्।
ताम्बूल^रक्त^उत्कषित^अग्रदन्ती विभाति योषा^इव *शरत्[क्.सरित्] सहासा॥
इन्दीवर^आसन्न^सितोत्पल^अन्विता *शरद्[क्.सरित्] भ्रमत्षट्पदपङ्क्तिभूषिता।
सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषा^इव विभाति सस्मरा॥
इन्दोः पयोदविगमोपहितां विभूतिं
द्रष्टुं तरङ्गवलया कुमुदं निशासु।
उन्मीलयत्य् अलिनिलीनदलं सुपक्ष्म
वापी विलोचनम् इव^असित^तारकान्तम्॥
नाना^विचित्र^अम्बुज^हंस^कोक^कारण्डव^आपूर्ण^तडाग^हस्ता।
रत्नैः प्रभूतैः कुसुमैः फलैश् च भूर्यच्छतीवार्घम् अगस्त्यनाम्ने॥
सलिलम् अमरपाज्ञया^उज्झितं यद् धन^परिवेष्टित^मूर्तिभिर् भुजङ्गैः।
फणि^जनित^विष^अग्नि^सम्प्रदुष्टं भवति शिवं तद् अगस्त्य^दर्शनेन॥
स्मरणाद् अपि पापम् अपाकुरुते किम् उत स्तुतिभिर् वरुणाङ्गरुहः।
मुनिभिः कथितो +अस्य यथार्घविधिः कथयामि तथ^एव नरेन्द्रहितम्॥
संख्याविधानात् प्रतिदेशम् अस्य विज्ञाय सन्दर्शनम् आदिशेज् ज्ञः।
तच् च^*उज्जयिन्याम्[क्.उज्जयन्याम्] अगतस्य कन्यां भागैः स्वराख्यैः स्फुट^भास्करस्य॥
ईषत्प्रभिन्ने +अरुणरश्मिजालैर् नैशे +अन्धकारे दिशि दक्षिणस्याम्।
सांवत्सरावेदितदिग्विभागे भूपो +अर्घम् उर्व्यां प्रयतः प्रयच्छेत्॥
कालोद्भवैः सुरभिभिः कुसुमैः फलैश् च
रत्नैश् च सागरभवैः कनकाम्बरैश् च।
धेन्वा वृषेण परमान्न^युतैश् च भक्ष्यैर्
दध्य्^अक्षतैः सुरभि^धूप^विलेपनैश् च॥
नरपतिर् इमम् अर्घं श्रद्दधानो दधानः
प्रविगतगददोषो निर्जितारातिपक्षः।
भवति यदि च दद्यात् सप्त वर्षाणि सम्यग्
जलनिधि*रशनायाः[क्.रसनायाः] स्वामितां याति भूमेः॥
द्विजो यथालाभम् उपाहृतार्घः प्राप्नोति वेदान् प्रमदाश् च पुत्रान्।
वैश्यश् च गां भूरि घनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे॥
रोगान् करोति परुषः कपिलस् त्व् अवृष्टिं
धूम्रो गवाम् अशुभकृत् स्फुरणो भयाय।
माञ्जिष्ठराग^सदृशः क्षुधम् आहवांश् च
कुर्याद् अणुश् च पुररोधम् अगस्त्यनामा॥
शातकुम्भसदृशः स्फटिकाभस् तर्पयन्न् इव महीं *किरणाग्रैः[क्.किरणौघैः]।
दृश्यते यदि *तदा[क्.ततः] प्रचुरान्ना भूर् भवत्य् अभय^रोग^जन^आढ्या॥
उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकम् एव *विधत्ते[क्.धत्ते]।
दृश्यते स किल हस्तगते +अर्के रोहिणीम् उपगते +अस्तम् उपैति॥
13 सप्तर्षिचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0