भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 11

11.01

गार्गीयं शिखि^चारं पाराशरम् असितदेवल^कृतं च।
अन्यांश् च बहून् दृष्ट्वा क्रियते +अयम् अनाकुलश् चारः॥

11.02

दर्शनम् अस्तमयो वा न गणितविधिना^अस्य शक्यते ज्ञातुम्।
दिव्य^अन्तरिक्ष^भौमास् त्रिविधाः स्युः केतवो यस्मात्॥

11.03

अहुताशे +अनलरूपं यस्मिंस् तत्^केतुरूपम् एव^उक्तम्।
खद्योत^पिशाचालय^मणि^रत्न^आदीन् परित्यज्य॥

11.04

ध्वज^शस्त्र^भवन^तरु^तुरग^कुञ्जर^आद्येष्व् अथ^अन्तरिक्षास् ते।
दिव्या नक्षत्रस्था भौमाः स्युर् अतो +अन्यथा शिखिनः॥

11.05

शतम् एक^अधिकम् एके सहस्रम् अपरे वदन्ति केतूनाम्।
बहुरूपम् एकम् एव प्राह मुनिर् नारदः केतुम्॥

11.06

यद्य् एको यदि बहवः किम् अनेन फलं तु सर्वथा वाच्यम्।
उदय^अस्तमयैः स्थानैः स्पर्शैर् आधूमनैर् वर्णैः।

11.07

यावन्त्य् अहानि दृश्यो मासास् तावन्त एव फलपाकः।
मासैर् अब्दांश् च वदेत् प्रथमात् पक्षत्रयात् परतः॥

11.08

ह्रस्वस् तनुः प्रसन्नः स्निग्धस् त्व् ऋजुर् अचिर^संस्थितः शुक्लः।
उदितो *+अथ वा^अभिवृष्टः[क्.वा^अप्य् अभिदृष्टः] सुभिक्ष^सौख्यावहः केतुः॥

11.09

उक्त^विपरीत^रूपो न शुभकरो धूमकेतुर् उत्पन्नः।
इन्द्रायुध^अनुकारी विशेषतो द्वित्रिचूलो वा॥

11.10

हार^मणि^हेम^रूपाः किरण^आख्याः पञ्चविंशतिः सशिखाः।
प्रागपरदिशोर् दृश्या नृपति^विरोधावहा रविजाः॥

11.11

शुक^दहन^बन्धुजीवक^लाक्षा^क्षतज^उपमा हुताशसुताः।
आग्नेय्यां दृश्यन्ते तावन्तस् ते +अपि शिखिभयदाः॥

11.12

वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश् च ते +अपि तावन्तः।
दृश्यन्ते याम्यायां जन^मरक^आवेदिनस् ते च॥

11.13

दर्पण^वृत्त^आकारा विशिखाः किरणान्विता धरातनयाः।
क्षुद्भयदा द्वाविंशतिर् ऐशान्याम् अम्बुतैलनिभाः॥

11.14

शशिकिरण^रजत^हिम^कुमुद^कुन्द^कुसुम^उपमाः सुताः शशिनः।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः॥

11.15

ब्रह्मसुत एक एव त्रिशिखो वर्णैस् त्रिभिर् युगान्तकरः।
अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः॥

11.16

शतम् अभिहितम् एकसमेतम् एतद् एकेन विरहितान्य् अस्मात्।
कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः॥

11.17

सौम्यैशान्योर् उदयं शुक्रसुता यान्ति चतुरशीत्याख्याः।
विपुलसिततारकास् ते स्निग्धाश् च भवन्ति तीव्रफलाः॥

11.18

स्निग्धाः प्रभा^समेता द्विशिखाः षष्टिः शनैश्चराङ्गरुहाः।
अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः॥

11.19

विकचा नाम गुरुसुताः सित^एकताराः शिखापरित्यक्ताः।
षष्टिः पञ्चभिर् अधिका स्निग्धा याम्याश्रिताः पापाः॥

11.20

न^अतिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथा^इष्ट^दिक्^प्रभवाः।
बुधजास् तस्करसंज्ञाः पापफलास् त्व् एकपञ्चाशत्॥

11.21

क्षतज^अनल^अनुरूपास् त्रि^चूल^ताराः कुजात्मजाः षष्टिः।
नाम्ना च कौङ्कुमास् ते सौम्याशासंस्थिताः पापाः॥

11.22

त्रिंशत्य् अधिका राहोस् ते तामसकीलका इति ख्याताः।
रविशशिगा दृश्यन्ते तेषां फलम् अर्कचारोक्तम्॥

11.23

विंशत्यधिकम् अन्यत्^शतम् अग्नेर् विश्वरूपसंज्ञानाम्।
तीव्र^अनल^भयदानां ज्वालामालाकुलतनूनाम्॥

11.24

श्यामारुणा विताराश् चामररूपा विकीर्णदीधितयः।
अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः॥

11.25

तारापुञ्जनिकाशा गणका नाम प्रजापतेर् अष्टौ।
द्वे च शते चतुरधिके *चतुरस्रा[क्.चतुरश्रा] ब्रह्मसन्तानाः॥

11.26

कङ्का नाम वरुणजा द्वात्रिंशद्^वंश^गुल्म^संस्थानाः।
शशिवत्^प्रभा^समेतास् तीव्रफलाः केतवः प्रोक्ताः॥

11.27

षण्णवतिः कालसुताः कबन्ध^संज्ञाः कबन्ध^संस्थानाः।
*पुण्ड्र[क्.चण्ड]^अभय^प्रदाः स्युर् विरूप^ताराश् च ते शिखिनः॥

11.28

शुक्ल^विपुल^एकतारा नव विदिशां केतवः समुत्पन्नाः।
एवं केतु^सहस्रं विशेषम् एषाम् अतो वक्ष्ये॥

11.29

उदगायतो महान् स्निग्ध^मूर्तिर् अपरोदयी वसाकेतुः।
सद्यः करोति मरकं सुभिक्षम् अप्य् उत्तमं कुरुते॥

11.30

तल्लक्षणो +अस्थिकेतुः स तु रूक्षः क्षुद्^भय^आवहः प्रोक्तः।
स्निग्धस् तादृक् प्राच्यां शस्त्राख्यो डमर^मरकाय॥

11.31

दृश्यो +अमावास्यायां कपालकेतुः सधूम्र^रश्मि^शिखः।
प्राङ् नभसो +अर्धविचारी क्षुत्^मरक^अवृष्टि^रोग^करः॥

11.32

प्राग् *वैश्वानर[क्.वश्वानर, क्ऽस् त्र्. वैश्वानर]मार्गे शूलाग्रः श्याव^रूक्ष^ताम्र^अर्चिः।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः॥

11.33

अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुल^उच्छ्रितया।
गच्छेद् यथा यथोदक् तथा तथा दैर्घ्यम् आयाति॥

11.34

सप्तमुनीन् संस्पृश्य ध्रुवम् अभिजितम् एव च प्रतिनिवृत्तः।
नभसो +अर्धमात्रम् इत्वा याम्येन^अस्तम् समुपयाति॥

11.35

हन्यात् प्रयागकूलाद् यावद् अवन्तीं च *पुष्करारण्यम्[क्.पुष्कराण्यम्]।
उदग् अपि च देविकाम् अपि भूयिष्ठं मध्यदेशाख्यम्॥

11.36

अन्यान् अपि स देशान् क्व चित् क्व चिद् धन्ति रोगदुर्भिक्षैः।
दश मासान् फलपाको +अस्य कैश् चिद् अष्टादश प्रोक्तः॥

11.37

प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुर् अन्यश् च।
क इति युगाकृतिर् अपरे युगपत्तौ सप्तदिनदृश्यौ॥

11.38

स्निग्धौ सुभिक्षशिवदाव् अथाधिकं दृश्यते कनामा यः।
दश वर्षाण्य् उपतापं जनयति शस्त्र^प्रकोपकृतम्॥

11.39

श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः।
विनिवर्तते +अपसव्यं त्रिभागशेषाः प्रजाः कुरुते॥

11.40

आधूम्रया तु शिखया दर्शनम् आयाति कृत्तिकासंस्थः।
ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते॥

11.41

ध्रुवकेतुर् अनियत^गति^प्रमाण^वर्ण^आकृतिर् भवति विष्वक्।
दिव्य^अन्तरिक्ष^भौमो भवत्य् अयं स्निग्ध इष्टफलः॥

11.42

सेनाङ्गेषु नृपाणां गृह^तरु^शैलेषु च^अपि देशानाम्।
गृहिणाम् उपस्करेषु च विनाशिनां दर्शनं याति॥

11.43

कुमुद इति कुमुदकान्तिर् वारुण्यां प्राक्शिखो निशाम् एकाम्।
दृष्टः सुभिक्षम् अतुलं दश किल वर्षाणि स करोति॥

11.44

सकृद् एकयामदृश्यः सुसूक्ष्मतारो +अपरेण मणिकेतुः।
ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव॥

11.45

उदयन्न् एव सुभिक्षं चतुरो मासान् करोत्य् असौ सार्धान्।
प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम्॥

11.46

जलकेतुर् अपि च पश्चात् स्निग्धः शिखयापरेण च^उन्नतया।
नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य॥

11.47

भवकेतुर् एकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः।
हरिलाङ्गूल^उपमया प्रदक्षिणावर्तया शिखया॥

11.48

यावत एव मुहूर्तान् दर्शनम् आयाति निर्दिशेत्^मासान्।
तावद् अतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान्॥

11.49

अपरेण पद्मकेतुर् मृणालगौरो भवेन् निशाम् एकाम्।
सप्त करोति सुभिक्षं वर्षाण्य् अतिहर्षयुक्तानि॥

11.50

आवर्त इति निशार्धे सव्यशिखो +अरुणनिभो +अपरे स्निग्धः।
यावत् क्षणान् स दृश्यस् तावन् मासान् सुभिक्षकरः॥

11.51

पश्चात् सन्ध्याकाले संवर्तो नाम धूम्र^ताम्र^शिखः।
आक्रम्य वियत्त्र्यंशं शूलाग्र^अवस्थितो रौद्रः॥

11.52

यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति।
भूपान् शस्त्र^निपातैर् उदय^ऋक्षं च^अपि पीडयति॥

11.53

ये शस्तास् तान् हित्वा केतुभिर् *आधूपिते[क्.आधूमिते] +अथ वा स्पृष्टे।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान्॥

11.54

अश्विन्याम् अश्मकपं भरणीषु किरातपार्थिवं हन्यात्।
बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम्॥

11.55

औशीनरम् अपि सौम्ये जलजाजीवाधिपं तथार्द्रासु।
आदित्ये +अश्मक*नाथान्[क्.नाथं] पुष्ये मघधाधिपं हन्ति॥

11.56

असिकेशं भौजङ्गे पित्र्ये +अङ्गं पाण्ड्यनाथम् अपि भाग्ये।
*औज्जयिनिकम्[क्.औज्जयनिकम्] आर्यम्णे सावित्रे दण्डकाधिपतिम्॥

11.57

चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ज्ञः।
काश्मीरक^काम्बोजौ नृपती प्राभञ्जने न स्तः॥

11.58

इक्ष्वाकुर् अलक*नाथश्[क्.नाथौ, क्ऽस् त्र्. नाथो] च हन्यते यदि भवेद् विशाखासु।
मैत्रे पुण्ड्राधिपतिर् *ज्येष्ठासु च[क्.ज्येष्ठास्वथ] सार्वभौमवधः॥

11.59

मूले +अन्ध्र^मद्रक^पती जलदेवे काशिपो मरणम् एति।
यौधेयक^अर्जुनायन^शिवि^चैद्यान् वैश्वदेवे च॥

11.60

हन्यात् कैकयनाथं पाञ्चनदं सिंहलाधिपं वाङ्गम्।
नैमिषनृपं किरातं श्रवणादिषु षट्स्व् इमान् क्रमशः॥

11.61

उल्काभिताडितशिखः शिखी शिवः शिवतरो *+अतिदृष्टो[क्.अभिवृष्टो] यः।
अशुभः स एव चोल^अवगाण^सितहूण^चीनानाम्॥

11.62

नम्रा यतः शिखि^शिखा^अभिसृता यतो वा
ऋक्षं च यत् स्पृशति तत् कथितांश् च देशान्।
दिव्य^प्रभाव^निहतान् स यथा गरुत्मान्
भुङ्क्ते गतो नरपतिः परभोगिभोगान्॥
12 अगस्त्यचाराध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc