भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 104

104.01

पादौ मूलं जङ्घे च रोहिणी जानुनी[क्.ओमित्तेद्] तथाश्विन्यः।
ऊरू च आषाढद्वयम् अथ गुह्यं फल्गुनी^*द्वितयम्[क्.युग्मम्]॥

104.02

कटिर् अपि च कृत्तिका पार्श्वयोश् च यमला भवन्ति भद्रपदाः।
कुक्षिस्था रेवत्यो विज्ञेयम् उरो +अनुराधा च॥

104.03

पृष्ठं विद्धि धनिष्ठां[क्.धनिष्ठा] भुजौ विशाखा[क्.विशाखां] स्मृतौ करौ हस्तः॥
अङ्गुल्यश् च पुनर्वसुर् आश्लेषासंज्ञिताश् च नखाः॥

104.04

ग्रीवा ज्येष्ठा *श्रवणं श्रवणौ[क्.श्रवणौ श्रवनः] पुष्यो मुखं द्विजाः स्वातिः।
हसितं शतभिषग् अथ नासिका मघा मृगशिरो नेत्रे॥

104.05

चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश् च^आर्द्रा।
नक्षत्रपुरुषको +अयं कर्तव्यो रूपम् इच्छद्भिः॥

104.06

चैत्रस्य बहुल^पक्षे ह्य् अष्टम्यां मूलसंयुते चन्द्रे।
ह्य्[क्.ओमित्तेद्] उपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च॥

104.07

दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम्।
विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च॥

104.08

अन्नैः क्षीरघृत^उत्कटैः सह गुडैर् विप्रान् समभ्यर्चयेद्
दद्यात् तेषु सुवर्ण[क्.तथ^एव]वस्त्ररजतं लावण्यम् इच्छन् नरः।
पाद^ऋक्षात् प्रभृति क्रमाद् उपवसन्न् अङ्ग^ऋक्षनामस्व् अपि
कुर्यात् केशव^पूजनं स्वविधिना धिष्ण्यस्य पूजां तथा॥

104.09

प्रलम्ब^बाहुः पृथु^पीन^वक्षाः क्षपाकर^आस्यः सित^चारु^दन्तः।
गजेन्द्र^गामी कमल^आयत^अक्षः स्त्री^चित्त^हारी स्मर^तुल्य^मूर्तिः॥

104.10

शरद्^अमल^पूर्ण^चन्द्र^द्युति^सदृश^मुखी सरोज^दल^नेत्रा।
रुचिर^दशना सुकर्णा भ्रमर^उदर^सन्निभैः केशैः॥

104.11

पुंस्कोकिल^सम^वाणी ताम्रोष्टी[क्.ऊ.ताम्रोष्ठी] पद्म^पत्र^कर^चरणा।
स्तनभारा^नत^मध्या प्रदक्षिणावर्तया नाभ्या॥

104.12

कदली^काण्ड^निभ^ऊरुः[क्.ऊ.ऊरूः] सुश्रोणी वर^कुकुन्दरा सुभगा।
सुश्लिष्ट^अङ्गुलि^पादा भवति प्रमदा *मनुष्यश् च[क्.मनुष्यो वा]॥

104.13

यावन् नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा
तावन् नक्षत्रभूतो विचरति सह तैर् ब्रह्मणो +अह्नो +अवशेषम्।
कल्पादौ चक्रवर्ती भवति हि मतिमांस् तत्क्षयाच् च^अपि भूयः
संसारे जायमानो भवति नरपतिर् ब्राह्मणो वा धनाढ्यः॥

104.14

मृगशीर्ष^आद्याः केशव^नारायण^माधवाः सगोविन्दाः।
विष्णु^मधुसूदन^आख्यौ त्रिविक्रमो वामनश् च^एव॥

104.15

श्रीधर^नामा तस्मात् सहृषीकेशश् च पद्मनाभश् च।
दामोदर इत्य् एते मासाः प्रोक्ता यथासंख्यं॥

104.16

मास^नाम समुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन्।
केशवम् समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम्॥
105 उपसंहाराध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc