बृहत्संहिता · अध्याय 103
प्रायेण सूत्रेण विनाकृतानि प्रकाश^रन्ध्राणि चिरन्तनानि।
रत्नानि शास्त्राणि च योजितानि नवैर् गुणैर् भूषयितुं क्षमाणि॥
प्रायेण गोचरो व्यवहार्यो +अतस् तत्फलानि वक्ष्यामि।
नानावृत्तैर् आर्या[क्.तन्नो] मुखचपलत्वं *क्षमध्वं नः [क्.क्षमन्त्व् आर्याः]॥
माण्डव्य^गिरं श्रुत्वा न मदीया रोचते +अथ वा नैवम्।
साध्वी तथा न पुंसां प्रिया यथा स्याज् जघनचपला॥
सूर्यः षट्^त्रि^दश^स्थितस् त्रि^दश^षट्^सप्ताद्यगश् चन्द्रमा
जीवः सप्त^नव^द्वि^पञ्चम^गतो वक्र^अर्कजौ षट्त्रिगौ।
सौम्यः षड्^द्वि^चतुर्^दश^अष्टम^गतः सूर्ये[क्.ऊ.सर्वे] +अप्य् उपान्ते शुभाः
शुक्रः सप्तम^षड्^दश^ऋक्ष^सहितः शार्दूलवत् त्रासकृत्॥
जन्मन्य् आयासदो +अर्कः क्षपयति विभवान् कोष्ठरोग^अध्व^दाता
वित्त^भ्रंशं द्वितीये दिशति च न सुखं वञ्चनां दृग्रुजं च।
स्थानप्राप्तिं तृतीये *धन^निचय^मुदा कल्य^कृच्[क्.धननिचयमुदाकल्यकृच्] च^अरि^हर्ता[क्.हन्ता]
रोगान् दत्ते[क्.धत्ते] चतुर्थे जनयति च मुहुः स्रग्धरा^भोग^विघ्नम्॥
पीडाः स्युः पञ्चमस्थे सवितरि बहुशो रोग^अरि^जनिताः
षष्ठे +अर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश् च नुदति।
अध्वानं सप्तमस्थो जठर^गद^भयं दैन्यं च कुरुते।
रुक्^त्रासौ[क्.रुक्कासौ] च^अष्टमस्थे भवति सुवदना न स्वापि वनिता॥
रवाव् आपद्दैन्यं रुग् इति नवमे वित्त[क्.चित्त]चेष्टाविरोधो
जयं प्राप्नोत्य् उग्रं दशम^गृहगे कर्म^सिद्धिं क्रमेण।
जय^स्थानं[क्.जयं स्थानं] मानं विभवम् अपि च^एकादशे रोगनाशं
सुवृत्तानां चेष्टा भवति सफला द्वादशे न^इतरेषाम्॥
शशी जन्मन्य् अन्न^प्रवर^शयन^आच्छादन^करो
द्वितीये मानार्थान्[क्.मानार्थौ] ग्लपयति सविघ्नश् च भवति।
तृतीये वस्त्र^स्त्री^धन^विजय[क्.निचय]सौख्यानि लभते
चतुर्थे +अविश्वासः शिखरिणि भुजङ्गेन सदृशः॥
दैन्यं व्याधिं शुचम् अपि शशी पञ्चमे मार्गविघ्नं
षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च।
यानं मानं शयनम् अशनं सप्तमे वित्तलाभं
मन्दाक्रान्ते फणिनि हिमगौ च अष्टमे भीर् न कस्य॥
नवम^गृहगो बन्ध^उद्वेग^श्रम^उदररोगकृद्
दशम^भवने च आज्ञा^कर्म^प्रसिद्धि^करः *शशी[क्.ओमित्तेद्]।
उपचय^सुहृत्संयोग^अर्थप्रमोदम् उपान्त्यगो
वृषभ^चरितान् दोषान् अन्त्ये[क्.अन्ते] करोति च[क्.हि] सव्ययान्॥
कुजे +अभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः।
भृशं च पित्त^अनल^*चौर^रोगैर्[क्.रोगचौरैर्] उपेन्द्रवज्र^प्रतिमो +अपि यः स्यात्॥
तृतीयगश् चौर^कुमारकेभ्यो
भौमः सकाशात् फलम् आदधाति।
प्रदीप्तिम् आज्ञां धनम् और्णिकानि
धात्व्^आकर^आख्यानि किल अपराणि॥
भवति धरणिजे चतुर्थगे ज्वर^जठर^गद^असृग्^उद्भवः।
कुपुरुष^जनिताच् च सङ्गमात् प्रसभम् अपि करोति च अशुभम्॥
रिपु^गद^कोप^भयानि पञ्चमे
तनयकृताश् च शुचो महीसुते।
द्युतिर् अपि न अस्य चिरं भवेत् स्थिरा
शिरसि कपेर् इव मालती यथा[क्.कृता]॥
रिपु^भय^कलहैर् विवर्जितः सकनक^विद्रुम^ताम्र^*कामगः[क्.कागमः ऊ.चागम]।
रिपुभवन^गते महीसुते किम् अपरवक्त्र^विकारम् ईक्षते॥
कलत्र^कलह^अक्षि^रुग्^जठररोग^कृत् सप्तमे
क्षरत्^क्षतज^रूक्षितः क्षपित[क्.क्षयित]^वित्त^मानो +अष्टमे।
कुजे नवम^संस्थिते परिभव^अर्थनाश^आदिभिर्
विलम्बितगतिर् भवत्य् अबल^देह^धातु^क्लमैः॥
दशम^गृहगते समं महीजे विविध^धन^आप्तिर् उपान्त्यगे जयश् च।
जनपदम् उपरि स्थितश् च भुङ्क्ते वनम् इव षट्चरणः सुपुष्पित^अग्रम्॥
नानाव्ययैर् द्वादशगे महीसुते
सन्ताप्यते +अनर्थ^शतैश् च मानवः।
स्त्री^कोप^पित्तैश् च सनेत्र^वेदनैर्
यो +अपि इन्द्रवंश^अभिजनेन गर्वितः॥
दुष्ट^वाक्य^पिशुन^अहित^भेदैर् बन्धनैः सकलहैश् च हृतस्वः।
जन्मगे शशिसुते पथि गच्छन् स्वागते +अपि कुशलं न शृणोति॥
परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदय^आप्तिः[क्.ऊ.सुहृदाप्तिः]।
नृपति^शत्रु^भय^शङ्कित^*चितो[क्.चित्तो] द्रुतपदं व्रजति दुश्चरितैः स्वैः॥
चतुर्थगे स्वजन^कुटुम्ब^वृद्धयो
धन^आगमो भवति च शीतरश्मिजे।
सुत^स्थिते तनय^कलत्र^विग्रहो
निषेवते न च रुचिराम् अपि स्त्रियम्॥
सौभाग्यं विजयम् अथ उन्नतिं च षष्ठे
वैवर्ण्यं कलहम् अतीव सप्तमे ज्ञः।
मृत्युस्थे जय^सुत[क्.सुतजय]^वस्त्र^वित्त^लाभा
नैपुण्यं भवति मति^प्रहर्षणीयम्॥
विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश् च।
सप्रमदं शयनं च विधत्ते तद्गृहदो +अथ *कथां स्तरणं च[क्.कथास्तरणं]॥
धन^*सुत^सुख[क्.सुखसुत]^योषिन्^मित्र^*वाह[क्.वाह्य]^आप्ति^तुष्टिस्
तुहिनकिरण^पुत्रे लाभगे मृष्ट^वाक्यः।
रिपु^परिभव^रोगैः पीडितो द्वादशस्थे
न सहति परिभोक्तुं मालिनी^योग^सौख्यम्॥
जीवे जन्मन्य् अपगत^धन^धीः
स्थान^भ्रष्टो बहु^कलह^युतः।
प्राप्य अर्थे +अर्थान् व्यरिर् अपि कुरुते
कान्ता^आस्य^अब्जे भ्रमरविलसितम्॥
स्थान^भ्रंशात् कार्य^विघाताच् च तृतीये
+अनेकैः[क्.नैकैः] क्लेशैर् बन्धुजन^उत्थैश् च चतुर्थे।
जीवे शान्तिं पीडितचित्तश् च स विन्देद्[क्.विन्देन्]
नैव ग्रामे नापि वने मत्त^मयूरे॥
जनयति च तनयभवनम् उपगतः
परिजन^शुभ^सुत^करि^तुरग^वृषान्।
सकनक^पुर^गृह^युवति^वसन^कृन्
मणिगुणनिकर^कृद् अपि विबुध^गुरुः॥
न सखी^वदनं तिलकोज्ज्वलं
न *च वनं[क्.भवनं] शिखि^कोकिल^नादितम्।
हरिण^प्लुत^शाव^विचित्रितं
रिपुगते मनसः सुखदं गुरौ॥
त्रिदशगुरुः शयनं रतिभोगं
धनम् अशनं कुसुमान्य् उपवाह्यम्।
जनयति सप्तमराशिम् उपेतो
ललितपदां च गिरं धिषणां च॥
बन्धं व्याधिम् च^अष्टमे शोकम् उग्रं
मार्ग^*क्लेशान्[क्.क्लेशं] मृत्यु^तुल्यांश् च रोगान्।
नैपुण्या^आज्ञा^पुत्र^कर्म^अर्थ^सिद्धिं
धर्मे जीवः शालिनीनां च लाभम्॥
स्थान^कल्य^धन^हा दश^ऋक्षगस्
तत्प्रदो भवति लाभगो गुरुः।
द्वादशे +अध्वनि विलोम^दुःख^भाग्
याति यद्य् अपि नरो रथोद्धतः॥
प्रथमगृह^उपगो भृगुसुतः स्मर^उपकरणैः
सुरभि^मनोज्ञ^गन्ध^कुसुम^अम्बरैर् उपचयम्।
शयन^गृह^आसन^अशन^युतस्य च अनुकुरुते
समद^विलासिनी^मुख^सरोज^षट्चरणताम्॥
शुक्रे द्वितीयगृहगे प्रसव^अर्थ^धान्य^
भूपाल^*सन्नत[क्.सन्नति]^कुटुम्ब^हितान्य् अवाप्य।
संसेवते कुसुम^रत्न^विभूषितश् च
कामं वसन्ततिलक^द्युति^मूर्धजो +अपि॥
आज्ञा^अर्थ^मान^आस्पद^भूति^वस्त्र^शत्रु^क्षयान् दैत्यगुरुस् तृतीये।
दत्ते[क्.धत्ते] चतुर्थश् च सुहृत्^समाजं रुद्र^इन्द्र^वज्र^प्रतिमां च शक्तिम्॥
जनयति शुक्रः पञ्चमसंस्थो गुरु^परितोषं बन्धुजन^आप्तिम्।
सुत^धन^लब्धिं मित्र^सहायान् अनवसितत्वं च अरि^बलेषु॥
षष्ठो भृगुः परिभव^रोग^तापदः
स्त्रीहेतुकं जनयति सप्तमो +अशुभम्।
यातो +अष्टमं भवन^परिच्छद^प्रदो
लक्ष्मीवतीम् उपनयति स्त्रियं च सः॥
नवमे तु धर्म^वनिता^सुख^भाग्
भृगुजे +अर्थ^वस्त्र^निचयश् च भवेत्।
दशमे +अवमान^कलहान् नियमात्
प्रमिताक्षराण्य् अपि वदन् लभते॥
उपान्त्यगो भृगो सुतः सुहृद्^धन^अन्न^गन्ध^दः।
धन^अम्बर^आगमो +अन्त्यगः स्थिरस् तु न^अम्बर^आगमः॥
प्रथमे रविजे विष^वह्नि^हतः स्वजनैर् वियुतः कृत^बन्धु^वधः।
परदेशम् उपैत्य् असुहृद्^भवनो विमुख^अर्थ^सुतो +अटक^दीन^मुखः॥
चारवशाद् द्वितीयगृहगे दिनकर^तनये
रूप^सुख^अपवर्जित^तनुर् विगत^मद^बलः।
अन्यगुणैः कृतं वसुचयम् तद् अपि खलु भवत्य्
अम्ब्व् इव वंशपत्रपतितं न बहु न च चिरम्॥
सूर्यसुते तृतीयगृहगे धनानि लभते
दास^परिच्छद^उष्ट्र^महिषा^अश्व^कुञ्जर^खरान्।
सद्म^विभूति^सौख्यम् अमितं गद^व्युपरमं
भीरुर् अपि प्रशास्त्य् अधिरिपूंश् च वीर^ललितैः॥
चतुर्थं गृहं सूर्यपुत्रे +अभ्युपेते
सुहृद्^वित्त^भार्य^आदिभिर् विप्रयुक्तः।
भवत्य् अस्य सर्वत्र च^असाधु दुष्टं
भुजङ्ग^प्रयात^अनुकारं च चित्तम्॥
सुत^धन^परिहीणः पञ्चमस्थे
प्रचुर^कलह^युक्तश् च अर्कपुत्रे।
विनिहत^रिपु^रोगः षष्ठयाते
पिबति च वनिता^आस्यं श्री^पुटोष्ठम्॥
गच्छत्य् अध्वानं सप्तमे च अष्टमे च
हीनः स्त्री^पुत्रैः सूर्यजे दीनचेष्टः।
तद्वद् धर्मस्थे वैर^हृद्^रोग^बन्धैर्
धर्मो +अप्य् उच्छिद्येद् वैश्वदेवी^क्रिया^आद्यः॥
कर्म^प्राप्तिर् दशमे +अर्थक्षयश् च
विद्या^कीर्त्योः परिहानिश् च सौरे।
तैक्ष्ण्यं लाभे परयोषार्थ^*लाभश्[क्.लाभा]
च अन्त्ये[क्.अन्ते] प्राप्नोत्य् अपि शोक^ऊर्मिमालाम्॥
अपि कालम् अपेक्ष्य च पात्रं शुभकृद् विदधात्य् अनुरूपम्।
न मधौ बहु कं कुडवे वा[क्.च] विसृजत्य् अपि मेघवितानः॥
रक्तैः पुष्पैर् गन्धैस् ताम्रैः कनक^वृष^बकुल^कुसुमैर् दिवाकर^भूसुतौ
भक्त्या पूज्याव् इन्दुर् धेन्वा सितकुसुम^रजत^मधुरैः सितश् च मदप्रदैः।
कृष्णद्रव्यैः सौरिः सौम्यो मणि^रजत^तिलक^कुसुमैर् गुरुः परिपीतकैः
प्रीतैः पीडा न स्याद् उच्चाद् यदि पतति विशति यदि वा भुजङ्गविजृम्भितम्॥
शमय^उद्गताम् अशुभदृष्टिम् अपि विबुधविप्रपूजया।
शान्ति^जप^नियम^दान^दमैः सुजन^अभिभाषण^समागमैस् तथा॥
रवि^भौमौ पूर्वार्धे शशिसौरौ कथयतो +अन्त्यगौ राशेः।
सदसल्^लक्षणम् आर्यगीत्य्^उपगीत्योर् यथासंख्यम्॥
आदौ यादृक् सौम्यः पश्चाद् अपि तादृशो भवति।
उपगीतेर् मात्राणां गणवत् सत्सम्प्रयोगो वा॥
आर्याणाम् अपि कुरुते विनाशम् अन्तर्गुरुर् विषमसंस्थः।
गण इव षष्ठे दृष्टः स[क्.च] सर्वलघुतां जनं[क्.गतो] नयति॥
अशुभ^निरीक्षितः शुभ^फलो बलिना बलवान्
अशुभ^फल^प्रदश् च शुभ^दृग्^विषय^उपगतः।
अशुभशुभाव् अपि स्वफलयोर् व्रजतः समताम्
इदम् अपि गीतकं च खलु नर्कुटकं च यथा॥
नीचे +अरिभे +अस्ते *च अरिदृष्टस्य[क्ऽस् त्र्. अरिदृष्टस्य] सर्वं वृथा यत्[क्ऽस् त्र्. यथा] परिकीर्तितम्।
पुरतो +अन्धस्य इव कामिन्याः सविलास^कटाक्ष^निरीक्षणम्॥
सूर्यसुतो +अर्कफलसमश् चन्द्रसुतश् छन्दतः समनुयाति यथा।
स्कन्धकम् आर्यागीतिर् वैतालीयं च मागधी गाथा^आर्याम्॥
सौरो +अर्करश्मि^*योगात्[क्.रागात्] सविकारो लब्ध^वृद्धिर् अधिकतरम्।
पित्तवद् आचरति नृणां पथ्यकृतां न तु तथा^आर्याणाम्॥
यादृशेन ग्रहेण^इन्दुर् युक्तस् तादृग् भवेत् सो +अपि।
मनो^वृत्ति^समायोगाद् विकार इव वक्त्रस्य॥
पञ्चमं *लघु सर्वेषु[क्.सर्वपादेषु] सप्तमं द्वि^चतुर्थयोः।
यद्वत्^श्लोक^अक्षरं तद्वल् लघुतां याति दुःस्थितैः॥
प्रकृत्या^अपि लघुर् यश् च वृत्तबाह्ये व्यवस्थितः।
स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः॥
प्रारब्धम् असुस्थितैर् ग्रहैर् यत् कर्म^आत्म^विवृद्धये बुधैः[क्.+अबुधैः]।
विनिहन्ति तद् एव कर्म तान् वैतालीयम् इव अयथाकृतम्॥
सौस्थित्यम् अवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा।
अणुना अपि स पौरुषेण वृत्तस्य^औपच्छन्दसिकस्य याति पारम्॥
उपचय^भवन^उपयातस्य भानोर् दिने कारयेद् धेम^ताम्र^अश्व^काष्ठ^अस्थि^चर्म^और्णिक^अद्रि^द्रुम^त्वग्^नख^व्याल^चौर^आयुधीय^अटवी^क्रूर^राजोपसेव^अभिषेक^औषध^क्षौम^पण्यादि^गोपाल^कान्तार^वैद्य^अश्म^कूट^अवदात^अभिविख्यात^शूर^आहवश्लाघ्य^*याय्य्[क्.याज्य]^*अग्निकर्माणि[क्.^अग्निकार्याणि] सिद्ध्यन्ति लग्नस्थिते वा रवौ।
शिशिरकिरण^वासरे तस्य व अप्य् उद्गमे केन्द्रसंस्थे +अथ वा भूषणं शङ्ख^मुक्ता^अब्ज^रूप्य^अम्बु^यज्ञ^इक्षु^भोज्य^अङ्गना^क्षीर^सुस्निग्धवृक्ष^क्षुप^अनूप^धान्य^द्रवद्रव्य^*विप्र^अध्व^गीत[क्.विप्राश्वशीत]क्रिया^शृङ्गि^कृष्यादि^सेनाधिप^आक्रन्द^भूपाल^सौभाग्य^नक्तञ्चर^श्लैष्मिक^द्रव्य^मातुल्य[क्.मातुङ्ग]पुष्प^अम्बर^आरम्भ^सिद्धिर् भवेत्॥
क्षितितनय^दिने प्रसिद्ध्यन्ति[क्.प्रसिध्यन्ति] धात्वाकरादीनि सर्वाणि कार्याणि चामीकर^अग्नि^प्रवाल^आयुध^क्रौर्य^चौर्य^अभिघात^अटवी^दुर्ग^सेनाधिकारास् तथा रक्त^पुष्प^द्रुमा रक्तम् अन्यच् च तिक्तं कटु^द्रव्य^कूट^अहि^पाश^अर्जित^स्वाः कुमारा भिषक्^शाक्यभिक्षु^क्षपावृत्ति^कोशेश[क्.कौशेय]^शाठ्यानि सिद्ध्यन्ति[क्.सिध्यन्ति] दम्भास् तथा॥
हरति[उ.हरित, क्.हरित]मणि^मही^सुगन्धीनि वस्त्राणि साधारणं नाटकं शास्त्र^विज्ञान^काव्यानि सर्वाः कला^युक्तयो मन्त्र^धातु^क्रिया^वाद^नैपुण्य^पुण्य^व्रतायोग^दूतास् तथा^आयुष्य^माया^अनृत^स्नान^ह्रस्वाणि दीर्घाणि मध्यानि च छन्दतश्[क्.च्छन्दनश्] चण्डवृष्टि^प्रयात^अनुकारीणि कार्याणि सिद्ध्यन्ति[क्.सिध्यन्ति] सौम्यस्य लग्ने +अह्नि वा॥
सुरगुरु^दिवसे कनकं रजतं तुरगाः करिणो वृषभा भिषग्^औषधयः[क्.ओषधयः]
द्विज^पितृ^सुर^कार्य^पुरःस्थित^घर्म^निवारण^चामर^भूषण^भूपतयः।
विबुध^भवन^धर्मसमाश्रय^मङ्गल^शास्त्र^मनोज्ञ^बलप्रद^सत्यगिरः
व्रत^हवन^धनानि च सिद्धिकराणि तथा रुचिराणि च वर्णक^दण्डकवत्॥
भृगुसुतदिवसे च चित्र^वस्त्र^वृष्य^वेश्य^कामिनी^विलास^हास^यौवनोपभोग^रम्य^भूमयः
स्फटिक^रजत^मन्मथ^उपचार^वाहन^इक्षु^शारद^प्रकार^गो^वणिक्^कृषीवल^औषध^अम्बुजानि च।
सवितृसुतदिने च कारयेन् महिष्य्^अज^उष्ट्र^कृष्णलोह^दास^वृद्ध^नीच^कर्म^पक्षि^चौर^पाशिकान्
च्युतविनय^विशीर्णभाण्ड^हस्त्य्^अपेक्ष^विघ्नकारणानि च अन्यथा न साधयेत् समुद्रगो +अप्य् अपां कणम्॥
विपुलाम् अपि बुद्ध्वा छन्दोविचितिं भवति कार्यम् एतावत्।
श्रुति^सुखद^वृत्त^संग्रहम् इमम् आह वराहमिहिरो +अतः॥
104 रूपसत्राध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0