भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 105

105.01

ज्योतिःशास्त्र^समुद्रं प्रमथ्य मति^मन्दराद्रिणा +अथ मया।
लोकस्य आलोककरः शास्त्र^शशाङ्कः समुत्क्षिप्तः॥

105.02

पूर्वाचार्य^ग्रन्था न^उत्सृष्टाः कुर्वता मया शास्त्रम्।
तान् अवलोक्य^इदं च प्रयतध्वं कामतः सुजनाः॥

105.03

अथ वा कृशम्[क्.भृशम्] अपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा।
नीचस् तद्^विपरीतः प्रकृतिर् इयं साध्व्^असाधूनाम्॥

105.04

दुर्जन^हुताश^तप्तं काव्य^सुवर्णं विशुद्धिम् आयाति।
श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन॥

105.05

ग्रन्थस्य यत् प्रचरतो +अस्य विनाशम् एति
लेख्याद् बहुश्रुत^मुख^आधिगम^क्रमेण।
यद्वा मया कुकृतम् अल्पम् इह^आकृतं वा
कार्यं तद् अत्र विदुषा परिहृत्य रागम्॥

105.06

दिनकर^मुनि^गुरु^चरण^प्रणिपातकृतप्रसादमतिना^इदम्।
शास्त्रम् उपसङ्गृहीतं नमो +अस्तु पूर्वप्रणेतृभ्यः॥
106 शास्त्रानुक्रमणी

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc