बृहत्संहिता · अध्याय 102
मूर्तौ करोति दिनकृद् विधवां कुजश् च
राहुर् विपन्न^तनयां रविजो दरिद्राम्।
शुक्रः शशाङ्क^तनयश् च गुरुश् च साध्वीम्
आयुःक्षयं प्रकुरुते +अथ विभावरीशः॥
कुर्वन्ति भास्कर^शनैश्चर^राहु^भौमा
दारिद्र्य^दुःखम् अतुलं नियतं द्वितीये।
वित्तेश्वरीम् अविधवां गुरु^शुक्र^सौम्या
नारीं प्रभूत^तनयां कुरुते शशाङ्कः॥
सूर्य^इन्दु^भौम^गुरु^शुक्र^बुधास् तृतीये
कुर्युः सदा बहुसुतां धनभागिनीं च।
व्यक्तां[क्.व्यक्तं] दिवाकरसुतः सुभगां करोति
मृत्युं ददाति नियमात् खलु सैंहिकेयः॥
स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे
दौर्भाग्यम् उष्ण^किरणः कुरुते शशी च।
राहुः सपत्ननम्[क्.सपत्न्यम् ऊ.सपत्नम्] अपि च क्षितिजो +अल्पवित्तं[क्.अल्पवित्तां]
दद्याद् भृगुः सुरगुरुश् च बुधश् च सौख्यम्॥
नष्टात्मजां रविकुजौ खलु पञ्चमस्थे[क्.पञ्चमस्थौ]
चन्द्रात्मजो बहुसुता गुरुभार्गवौ च।
राहुर् ददाति मरणं शनिर् उग्ररोगं
कन्या^*विनाशम्[क्.प्रसूतिम्] अचिरात् कुरुते शशाङ्कः॥
षष्ठ^आश्रिताः शनि^दिवाकर^राहु^जीवाः
कुर्युः कुजश् च सुभगां श्वशुरेषु भक्ताम्।
चन्द्रः करोति विधवाम् उशना दरिद्राम्
ऋद्धां शशाङ्क^तनयः कलहप्रियां च॥
सौर^आर^जीव^बुध^राहु^रवि^इन्दु^शुक्राः
कुर्युः प्रसह्य खलु सप्तमराशि^संस्थाः।
वैधव्य^बन्धन^वध^क्षयम् अर्थनाश^
व्याधि^प्रवास^मरणानि यथाक्रमेण॥
स्थाने +अष्टमे गुरुबुधौ नियतं वियोगं
मृत्युं शशी भृगुसुतश् च तथ^एव राहुः।
सूर्यः करोत्य् अविधवां सरुजां[क्.सरुजं] महीजः
सूर्यात्मजो धनवतीं पतिवल्लभां च॥
धर्मे स्थिता भृगु^दिवाकर^भूमिपुत्रा
जीवश् च धर्मनिरतां शशिजस् त्व् अरोगाम्।
राहुश् च सूर्यतनयश् च करोति बन्ध्यां[क्.वन्ध्यां]
कन्याप्रसूतिम् अटनां[क्.अटनं] कुरुते शशाङ्कः॥
राहुर् नभःस्थल^गतो[क्.नभस्थलगतो] विधवां करोति
पापे रतां दिनकरश् च शनैश्चरश् च।
मृत्युं कुजो +अर्थरहितां कुलटां च चन्द्रः
शेषा ग्रहा धनवतीं सुभगां च कुर्युः॥
आये रविर् बहुसुतां सधनां[क्.धनिनीं] शशाङ्कः
पुत्र^अन्वितां क्षितिसुतो रविजो धनाढ्याम्।
आयुष्मतीं सुरगुरुः शशिजः समृद्धां
राहुः करोत्य् अविधवां भृगुर् अर्थयुक्ताम्॥
अन्ते गुरुर् धनवतीं दिनकृद् दरिद्रां
चन्द्रो धन^व्यय^करीं कुलटां च राहुः।
साध्वीं भृगुः शशिसुतो बहु^पुत्र^पौत्रां
पान^प्रसक्त^हृदयाम् रविजः कुजश् च॥
गोपैर् यष्ट्य्^आहतानां खुर^पुट^दलिता या तु धूलिर् दिनान्ते
सोद्वाहे सुन्दरीणां विपुल^धन^सुत^आरोग्य^सौभाग्य^कर्त्री।
तस्मिन् काले न च^ऋक्षं न च तिथि^करणं नैव लग्नं न योगः
ख्यातः पुंसां सुखार्थं शमयति दुरितान्य् उत्थितं गोरजस् तु॥
103 ग्रहगोचराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0