बृहत्संहिता · अध्याय 101
अश्विन्यो +अथ भरण्यो बहुलापादश् च कीर्त्यते मेषः।
वृषभो बहुलाशेषं रोहिण्यो +अर्धम् च मृगशिरसः॥
मृगशिरो +अर्धं रौद्रं पुनर्वसोर्[क्.पुनर्वसोर् च] अंशकत्रयं मिथुनः[क्.मिथुनम्]।
पादश् च *पुनर्वसुतस् तिष्यः श्लेषा[क्.पुनर्वसोः सतिष्यो +अश्लेषा] च कर्कटकः॥
सिंहो +अथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश् च।
तत्परिशेषं हस्तश् चित्राद्यर्धं च कन्याख्यः॥
तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः।
अलिनि विशाखापादस् तथानुराधान्विता ज्येष्ठा॥
मूलम् अषाढा पूर्वा प्रथमश् च^अप्य् उत्तरांशको धन्वी।
मकरस् तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम्॥
कुम्भो +अन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः।
भद्रपदायाः शेषं तथोत्तरा रेवती च झषः॥
अश्विनी^पित्र्य^मूल^आद्या मेष^सिंह^हय^आदयः।
विषम^ऋक्षान् निवर्तन्ते पाद^वृद्ध्या यथोत्तरम्॥
102 विवाहपटलाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0