भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 87

87.87

अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः

87.1

कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज

87.2

द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम्

87.3

षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः

87.4

शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम्

87.5

बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ

87.6

त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित्

87.7

इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च

87.8

आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम्

87.9

जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत्

87.10

समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः

87.11

अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक्

87.12

मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत्

87.13

अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc