भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 86

86.86

अथ दर्शजन्मशान्त्यध्यायः

86.1

मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः

86.2

कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् ।
उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा

86.3

सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् ।
पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत्

86.4

सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।
आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके

86.5

दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् ।
प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा

86.6

आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च ।
उपचारैः समाराध्य ततो होमं समाचरेत्

86.7

समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती ।
भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः

86.8

अष्टोत्तरशतं वापि अष्टविंशतिरेव वा ।
अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः

86.9

हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ।
ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc