ग्रंथ पाठ
बृहत्पाराशरहोराशास्त्रम् · अध्याय 88
88.88
अथ भर्दावमदुर्योगशान्त्यध्यायः
88.1
अथाऽहं संप्रवक्ष्यामि भद्रायामवमे तथा ।
व्यातूपातादिदुर्योगे यमघण्टादिके च यत्
88.2
जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ।
प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः
88.3
दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही ।
पूजनं देवतानां च ग्रहाणां यजनं तथा
88.4
शङ्करस्याऽभिषेकं च घृतदीपं शिवालये ।
आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम्
88.5
हवनं विष्णुमन्त्रेण स।तमष्टोत्तरं सुधीः ।
ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात्
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0