ग्रंथ पाठ
बृहत्पाराशरहोराशास्त्रम् · अध्याय 85
85.85
अथऽशुभजन्मकथनाध्यायः
85.1
अथाऽन्यत् संप्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि ।
यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम्
85.2
दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा ।
पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा
85.3
व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा ।
यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च
85.4
प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् ।
शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम्
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0