बृहत्पाराशरहोराशास्त्रम् · अध्याय 57
अथ शन्यन्तर्दशाफलाध्यायः
मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते
राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् ।
वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम्
महाराजप्रसादेन सेनापत्यादिलाभकृत् ।
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत्
तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते ।
तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम्
रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् ।
मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः
अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् ।
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः
मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा ।
सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम्
स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् ।
यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम्
देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् ।
सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा
वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् ।
अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम्
षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति ।
रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च
नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता ।
फलमीदृशमादौ तु मध्यान्ते रोगपीडनम्
नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् ।
द्वितीयसप्तमाधिशे देहबाधा भविष्यति
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम्
मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते ।
स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते
केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् ।
दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम्
स्वप्रभोश्च महाकष्टं विदेशगमनं तथा ।
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः
गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् ।
दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे
समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः ।
तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च
अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् ।
शीतज्वरातिसारश्च व्रणचौरादिपीडनम्
दारपुत्रवियोगश्च संसारे भवति ध्रुवम् ।
द्वितियद्यूनराशिस्थे देह पीडा भविष्यति
छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् ।
केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात्
मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा
दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः ।
गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम्
महाराजप्रसादेन हीष्टसिद्धिः सुखावहा ।
स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत्
द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा ।
गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः
शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् ।
शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे
दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः ।
दारानां स्वजनक्लेशः सन्तापो जनविग्रहः
दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते ।
राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम्
दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् ।
सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम्
दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः ।
दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा
नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः ।
कपोले दन्तशूलादि हृदि गुह्ये च पीडनम्
जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः ।
राजद्वारे जनद्वेषः सोधरेण विरोधनम्
द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत्
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात्
मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे
शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् ।
गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम्
वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् ।
लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च
हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा ।
इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम्
तापज्वरादिपीडा च व्याकुलत्वं भयं तथा ।
आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत्
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत्
मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते ।
स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा
पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः ।
महाराजप्रसादेन वाहनाम्बरभूषणम्
सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् ।
पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा
क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे ।
क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा
जातकस्य महत्कष्टं राजकोपो धनक्षयः ।
पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत्
व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः ।
अकाले भोजनं चैव मौषधस्य च भक्षणम्
फलमेतद्विजानीयादादौ सौख्यं धनागमः ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा
वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा ।
पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः
मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् ।
दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते
शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् ।
शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात्
द्वितीयद्यूननाथे तु देहालस्य भविष्यति ।
तद्दोषशमनार्थं च तिलहोमादिकं चरेत्
गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि ।
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये
मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे ।
तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ।
राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम्
सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः ।
नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत्
नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते ।
पापदृष्टियुते वापि धनहानिर्भविष्यति
चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् ।
भ्रातृपित्रादिपीडा च दायादजनविग्रहः
चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् ।
विदेशगमनं चैव नानमार्गे धनव्ययः
अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि ।
अपमृत्युभयं चैव नानाकष्टं पराभवः
तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम्
मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा ।
देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम्
अर्थव्ययो राजभयं स्वजनादिविरोधिता ।
विदेशगमनं चैव गृहक्षेत्रादिनाशनम्
लग्नाधिपेन संयुक्ते योगकारकसंयुते ।
स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे
आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् ।
देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत्
चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् ।
मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम्
मेषे कन्यागते वापि कुलीरे वृषभे तथा ।
मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत्
राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् ।
द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति
मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम्
मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे ।
लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा
सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् ।
महाराजप्रसादेन धनवाहनभूषणम्
सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् ।
देवतागुरुभक्तिश्च विद्वज्जनसमागमः
दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् ।
षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते
निजसम्बन्धिमरणं धनधान्यविनाशनम् ।
राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति
विदेशगमनं चैव कुष्ठरोगादिसम्भवः ।
दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा
विभवं दारसौभाग्यं राजश्रीधनसम्पदः ।
भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत्
ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा ।
अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम्
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति
कुभोजनं कर्महानी राजदण्डाद्धनव्यय ।
कारागृहप्रवेशश्च पुत्रदारादिपीडनम्
द्वितीयद्यूननाथे तु देहवाधा मनोरुजः ।
आत्मसम्बन्धमरणं भविष्यति न संशयः
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम्
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0