बृहत्पाराशरहोराशास्त्रम् · अध्याय 56
अथ जीवान्तर्दशाफलाध्यायः
स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे ।
अनेकराजधीशो वा सम्पन्नो राजपूजितः
मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् ।
नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम्
गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः ।
ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम्
स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् ।
नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे
नीचसङ्गो महादुःखं दायादजनविग्रहः ।
कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत्
पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् ।
सप्तमाधिपदोषेण देववाधा भविष्यति
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये
जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे ।
लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते
राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् ।
धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत्
वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् ।
पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत्
नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः ।
पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम्
अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु ।
लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ
धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः ।
स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत्
गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् ।
गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत्
गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते
धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् ।
उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम्
द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्
कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् ।
मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम
जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते
अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् ।
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा
वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् ।
महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः
व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् ।
दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे
स्वदेशे धनलाभश्च पितृमातृसुखावहा ।
गजवाजिसमायुक्तो राजमित्रप्रसादतः
दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते ।
शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः
विदेशगमनं चैव मार्गे चौरभयं तथा ।
व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः
लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते ।
अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम्
चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च ।
अपमृत्युभयं चैव शत्रूणां कलहो भवेत्
शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः ।
आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत्
अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते ।
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम्
जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते ।
अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम्
परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते
राजकोपो धनच्छेदो बन्धनं रोगपीडनम् ।
बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम्
दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा ।
नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम्
महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् ।
व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत्
यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति
छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः
जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते ।
लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते
नरवाहनयोगश्च गजाश्वाम्बरसंयुतः ।
महारजप्रसादेन लाभाधिक्यं महत्सुखम् ।
नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति
पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् ।
कल्याणं च महाप्रीतिः पितृमातृसुखावहा
देवतागुरुभक्तिश्च अन्नदानं महत्तथा ।
तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः
षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ।
कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम्
मन्दारराहुसंयुक्ते कलहो राजतो भयम् ।
स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा
सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः ।
दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा
धनधान्यादिलाभश्च स्र्।ईलाभो राजदर्शनम्
वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् ।
गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः
दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् ।
द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः
अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः ।
तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत्
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ।
शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात्
जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा
धने वा बलसंयुते दायेशाद्वा तथैव च ।
तत्काले धनलाभः स्याद्राजसम्मानवैभवम्
वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः ।
मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम्
लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च ।
शिरोरोगादिपीडा च ज्वरपीडा तथैव च
सत्कर्मसु तदा हीनः पापकर्मचयस्तथा ।
सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत्
अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ ।
द्वितीयद्यूननाथे तु देहपीडा भविष्यति
तद्दोषपरिहारार्थमादित्यहृदयं जपेत् ।
सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः
जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते
दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् ।
दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा
सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा ।
महाराजप्रसादेन सर्वसौख्यं धनागमः
अनेकजनसौख्यं च दानधर्मादिसंग्रहः ।
षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः
नृपचौरादिपीडा च दायादजनविग्रहः ।
मातुलादिवियोगश्च मातृपीडा तथैव च
द्वितीयषष्ठयोरीशे देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत्
जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा
विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् ।
जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम्
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः
मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् ।
स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा
दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा ।
पापयुतेक्षिते वापि धान्यार्थगृहनाशनम्
नानरोगभयं दुःखं नेत्ररोगादिसम्भवः ।
पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम्
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः ।
वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम्
जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा ।
मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते
शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् ।
भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत्
देशग्रामाधिकं च यवनप्रभुदर्शनम् ।
गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम्
दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः ।
सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा
दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते ।
चौराहिव्रणभीतिश्च राजवैषम्यमेव च
गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् ।
सोदरेण विरोधः स्याद्दायादजनविग्रहः
गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् ।
अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत्
द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत्
छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् ।
देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0