बृहत्पाराशरहोराशास्त्रम् · अध्याय 58
अथ बुधान्तर्दशाफलाध्यायः
मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् ।
विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम्
विभवं दारपुत्रादि पितृमातृसुखावहम् ।
स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे
पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः ।
आत्मबन्धुविरोधश्च शूलरोओगादिसम्भवः
राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् ।
द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति
आत्मसम्बन्धिमरणं वातशूलादिसम्भवः ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्
बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे ।
शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते
योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे ।
देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत्
चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः ।
विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम्
भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् ।
दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते
वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः ।
चौरादिराजभीतिश्च पापकर्मरतः सदा
वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः ।
शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत्
द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति ।
तद्दोषपरिहाराय छागदानं तु कारयेत्
सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे ।
सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत्
मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् ।
दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा
तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः ।
वापीकूपतडागदिदानधर्मादिसंग्रहः
व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् ।
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते
हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् ।
आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम्
आत्मकष्टं मनस्तापदायकं द्विजसत्तम ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात्
सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा
राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् ।
भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत्
लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् ।
ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत्
लग्नाष्टमव्यये वापि शन्यारफणिसंयुते ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते
चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति ।
शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत्
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि
सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते
योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् ।
स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम्
नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् ।
गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम्
दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति ।
द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति
मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् ।
नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति
दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ।
तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम्
मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते
चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् ।
दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत्
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत्
वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात्
सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते
राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् ।
लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात्
पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् ।
गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम्
राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् ।
नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा
पापदृष्टियुते वापि देहपीडा मनोव्यथा ।
उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम्
ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् ।
दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा
शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् ।
पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।
तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम्
नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् ।
स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः
अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत्
गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात्
बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा
राजसम्मानकीर्तिं च धनं च प्रभविष्यति ।
पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा
इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् ।
भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत्
लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् ।
भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत्
लग्नादुपचये राहौ शुभग्रहसमन्विते ।
राजसंलापसन्तोषो नूतनप्रभुदर्शनम्
दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते ।
निष्ठुरं राजकार्याणि अथानभ्रंशो महद्भयम्
बन्धनं रोगपीडा च निजबन्धुमनोव्यथा ।
हृद्रोगो मानहानिश्च धनहानिर्भविष्यति
द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत्
श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात्
बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे
देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च ।
विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम्
गोमहिष्यादिलाभश्च पुराणस्र्।अवणादिकम् ।
देवतागुरुभक्तिश्च दानधर्ममखादिकम्
यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा ।
नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा
शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः ।
चौरादिदेहपीडा च पितृमातृविनाश्नम्
मानहानि राजदण्डो धनहानिर्भविष्यति ।
विषाहिज्वरपीडा च कृषिभूमिविनाशनम्
दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम्
पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते
अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति ।
कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः
अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् ।
द्वितीयसप्तमस्थे वा देहबाधा भविष्यति
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति
सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम्
राज्यलाभं महोत्साहं गृहं गोधनसंकुलम्
शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् ।
अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च
अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् ।
बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः
विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0