बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.11
ब्र्हुप्भ्_5,10.1 सर्वेषामस्मिन्प्रकरण उपासनानां गतिरियं फलं चोच्यते-यदा वै पुरुषो विद्वानस्माल्लोकात्प्रैति शरीरं परित्यजति स तदा वायुमागच्छत्यन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितो ऽभेद्यस्तिष्ठति ।
स वायुस्तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहोते स्वात्मावयवान्विगमयति च्छिद्रीकरोत्यात्मानमित्यर्थः ।
किंपरिमामं छिद्रमिति ।
उच्यते-यथा रथ वक्रस्य खं छिद्रं प्रसिद्धपरिमाणम् ।
तेन छिद्रेण स विद्वानूर्ध्व आक्रमत ऊर्ध्वः सन्गच्छति स आदित्यमागच्छति ।
आदित्यो ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः सो ऽप्येवंविद उपासकाय द्वारं प्रयच्छति ।
तस्मै स तत्र विजिहोते ।
यथा लम्बरस्य खं वादित्रविशेषस्य च्छिद्रपरिमामं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति ।
सो ऽपि तस्मै तत्र विजिहीते ।
यथा दुन्दुभेः खं प्रसिद्धं तेन स ऊर्ध्व आक्रमते स लोकं प्रजापतिलोकमागच्छति ।
किंविशिष्टम् ।
अशोकं मानसेन दुःखेन विवर्जितमित्येतत् ।
अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः ।
तं प्राप्य तस्मिन्वसति शाश्वतीर्नित्याः समाः संवत्सरानित्यर्थः ।
ब्रह्मणो बहून्कल्पान्वसतीत्येतत् ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य दशमं ब्राह्मणम् ॥10॥
स्तर्त् ब्र्हुप् 5,11.1
एतद् वै परमं तपो यद् व्याहितस् तप्यते ।
परमं हैव लोकं जयति य एवं वेद ।
एतद् वै परमं तपो यं प्रेतम् अरण्यं हरन्ति ।
परमं हैव लोकं जयति य एवं वेद ।
एतद् वै परमं तपो यं प्रेतम् अग्नाव् अभ्यादधति ।
परमं हैव लोकं जयति य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0