भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.6

4.6.1

ब्र्हुप्भ्_4,5.15 चतुर्ष्वपि प्रपाठकेष्वेक आत्मा तुल्यो निर्धारितः परं ब्रह्म ।
उपायविशेषस्तु तस्याधिगमे ऽन्यश्चान्यश्च ।
उपेयस्तु स एवाऽत्मा यश्चतुर्थे ऽथात आदेशो नेति नेतीति निर्दिष्टः ।
स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः ।
पुनः पञ्चमसमाप्तौ ।
पुनर्जनकयाज्ञवल्क्यसंवादे ।
पुनरिहोपनिषत्समाप्तौ ।
चतुर्णामपि प्रपाठकानामेतदात्मनिष्ठता नान्यो ऽन्तराले कश्चिदपि विवक्षितेर्ऽथ इत्येतत्प्रदर्शनायान्त उपसंहारः स एष नेति नेत्यादिः ।
यस्मात्प्रकारशतेनापि निरूप्यमाणे तत्तवे नेति नेत्यात्मैव निष्ठा नान्योपलभ्यते तर्केण वाऽगमेन वा तस्मादेतदेवामृतत्वसाधनं यदेतन्नेति नेत्यात्मपरिज्ञानं सर्वसंन्यासश्चेत्येतमर्थमुपसंजिहीर्षन्नाह-एतावदेतावन्मात्रं यदेतन्नेति नेत्यद्वैतात्मदर्शनमिदं चान्यसहकारिकारणनिरपेक्षमेवारे मैत्रेय्यमृतत्वसाधनम् ।
यत्पृष्टत्यसि यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति तदेतावदेवेतु विज्ञेयं त्वयेति हैवं किलामृतत्वसाधनमात्मज्ञानं प्रियायै भार्याया उक्त्वा संन्यासपर्यवसाना ।
एतावानुपदेश एतद्वेदानुशासनमेषा परमनिष्ठैष पुरुषार्थकर्तव्यतान्त इति ।
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये ।
यत आकुलानि हि वाक्यानि दृश्यन्ते"यावज्जीवमग्निहोत्रं जुहुयात्" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" "एतद्वै जरामर्यं सर्वं यदग्निहोत्रम्"इत्यादीन्यैकाश्रम्याज्ञापकान्यानि चाऽश्रमान्तरप्रतिपादकानि वाक्यानि"विदित्वा व्युत्थाय प्रव्रजन्ति" "ब्रह्मचर्यं समाप्य गृही भवेद्ग्रहाद्वनी भूत्वा प्रव्रजेत्" "यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा"इति ।
"न कर्मणा न प्रजया धनेन त्यागेनैकेमृतत्वमानशुः"इत्यादीनि ।
तथा स्मृतयश्च-"ब्रह्मचर्यवान्प्रव्रजति" "अविशीर्णब्रह्मचर्यो यमिच्छत्तमावसेति"तस्याऽश्रममविकल्पमेकेब्रुवते"तथा-"वैदाननधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्" ॥
"प्राजापत्यां निरुप्येष्टिं सर्ववेसदक्षिणाम् ।
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" ॥
इत्याद्याः ।
एवं व्युत्थानविकल्पक्रमयतेष्टाश्रमप्रतिपत्तिप्रतापादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलंभ्यन्त इतरेतरविरुद्धानि ।
आचारश्च तद्विदाम् ।
विप्रतिपत्तिश्च शास्त्रार्थप्रतपत्तॄणां बहुविदामपि ।
अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् ।
परिनिष्ठतशास्त्रन्यायबुद्धिभिरेव ह्योषां वाक्यानां विषयविभागः शक्यते ऽवधारयितुम् ।
तस्मादेषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थंय विचारयिष्यामः ।
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात्क्रियावसान अव वेदार्थ ।
तं यज्ञपात्रैर्दहन्तीत्यन्त्यकर्मश्रवणाज्जरामर्यश्रवणाच्च लिङ्गाच्च भस्मान्तं शरीरमिति ।
न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् ।
स्मृतिश्च-"निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्या शास्त्रे ऽधिकारो ऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित्"इति ।
समन्त्रकं हि यत्कर्म वेदेनेह विधीयते तस्य श्मशानान्ततां दर्शयति स्मृतिः ।
अधिकाराभावप्रदर्शनाच्चात्यन्तमेव श्रुत्यधिकाराभावो ऽकर्मिणो गम्यते ।
अग्न्युद्वासनापवादाच्च ऽवीरहा वा एष देवानां यो ऽग्निमुद्वासयतेऽ इति ।
ननु व्युत्थानादिविझधानाद्वैकल्पिकं क्रियावसानत्वं वेदार्थस्य ।
न ।
अन्यार्थत्वाद्व्युत्थानादिश्रुतीनाम् ।
ऽयावज्जीवमन्निहोत्रं जुहोतिऽ"याज्जीवं दर्शपूर्णमासाभ्यां यजेत"इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वाद्यदा न शक्यते ऽन्यार्थता कल्पयितुं तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसंभवात् ।
"कुर्वन्नेवेह कर्माणि जिजीवषेच्छतं समाः"इति च मन्त्रवर्णाज्जरया वा ह्येवास्मान्मुच्यते मृत्युना वेति च जरामृत्युभ्यामन्यत्र कर्मवियोगाच्छिद्रासंभवात्कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् ।
काणकुब्जादयो ऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् ।
पारिव्राज्याक्रमविधानस्यानवकाशत्वमिति चेत् ।
न ।
विश्वजित्सर्वमेधयोर्यावज्जीवविध्यपवादत्वात् ।
यावज्जीवाग्निहोत्रादिविधेर्विश्वजित्सर्वमेधयोरेवापवादस्तत्र च क्रमप्रतिपत्तिसंभवो"ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भुत्वा प्रव्रजेदि"ति विरोधानुपपत्तेः ।
न ह्येवंविषयत्वे पारिव्राज्यकमविधानवाक्यस्य कश्चिद्विरोधः क्रमप्रतिपत्तेः ।
अन्यविषयपरिकल्पनायां कश्चिद्बाधः ।
नाऽत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमात् ।
यत्तावदात्मेत्येवोपासीतेत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतमात्मज्ञानं तदमृतत्वसाधनमित्यभ्युपगतं भवता ।
तत्रैतावदेवामृतत्वसाधनमन्यनिरपेक्षमित्येतन्न मृष्यते ।
तत्र भवन्तं पृच्छामि किमर्थमात्मज्ञानं मर्षयति भवानिति ।
शृणु तत्र कारणं यथास्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतो ऽग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते तथेहाप्यात्मज्ञानम् ।
यथा ज्ञाप्यते तताभूतमेवामृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम् तुल्यप्रामाण्यादुभयत्र ।
यद्येवं किं स्यात् ।
सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात् ।
दाराग्निसंबद्धानां तावदग्निहोत्रादिकर्मणां भेदबुद्धिविषयसंप्रदानकारकसाध्यत्वम् ।
अन्यबुद्धिपरच्छेद्यां ह्यग्न्यादिदेवतां संप्रदानकारकभूतामन्त्रेण न हि तत्कर्म निर्वर्त्यते ।
यया हि संप्रदानकारकबुद्ध्या संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते सेह विद्यया निवर्त्यते"अन्यो ऽसावन्यो ऽहमस्मीति न स वेद" "देवास्तं परादुर्यो ऽन्यत्राऽत्मनो देवान्वेद" "मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति" "एकधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति"इत्यादिश्रुतिभ्यः ।
न च देशकालनिमित्त द्यपेक्षत्वं व्यवस्थितात्मवस्तुविषयत्वादात्मज्ञानस्य ।
क्रियायास्तु पुरुषतन्त्रत्वात्स्याद्देशकालनिमित्ताद्येपेक्षत्वम् ।
ज्ञानं तु वस्तुतन्त्रत्वान्न देशकालनिमित्ताद्यपेक्षते ।
यथाग्निरुष्ण आकाशो ऽमूर्त इति तथाऽत्मविज्ञानमपु ।
नन्वेवं सति प्रामाणभूतस्य कर्विधेर्निरोधः स्यात् ।
न च तुल्यप्रमाणयोरितरेतरनिरोधो युक्तः ।
न ।
स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात् ।
न हि विध्यन्तरनिरोधकमात्मज्ञानम् स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि ।
तथापि हेत्वपहारात्कर्मानुपपत्तेर्विधैनिरोध एव स्यादिति चेत् ।
न ।
कामप्रतिषेधात्काम्यप्रवृत्तिनिरोधवददोषात् ।
यथा स्वर्गकामो यजेतेति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिर्निरुध्यते ।
न चैतावता काम्यविधिर्निरुद्धो भवति ।
कामप्रतिषेधविधिना काम्यविधेरनर्कत्वज्ञानात्प्रवृत्यनुपपत्तिरिति चेत् ।

अननुष्ठेयत्वे ऽनुष्ठातुरभावादनुष्ठानविध्यानर्थक्यादप्रामाण्यमेव कर्मविधीनामिति चेत् ।
न ।
प्रागात्मज्ञानात्प्रवृत्युपपत्तेः स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात्कर्महेतुत्वमुपपद्यत एव ।
यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक्काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्यास्तद्वात् ।
तथा सत्यनर्थार्थो वेद इति चेत् ।
न ।
अर्थानर्थयोरभिप्राततन्त्रत्वात् ।
मोक्षमेकं वर्जयित्वान्यस्याविद्याविषयत्वात ।
पुरुषाभिप्रायतन्त्रौ ह्यार्थानर्थौ ।
मरणादिकाम्येष्टदर्शनात् ।
तस्माद्यावदात्मज्ञानविधेराभिमुख्यं तावदेव कर्मविधय ।
तस्मान्नाऽत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धमात्मज्ञानमेवामृतत्वसाधनमेतावदरे खल्वमृतत्वमिति ।
कर्मनिरपेक्षत्वाज्ज्ञानस्य ।
अतो विदुषस्तावत्पारिव्राज्यं सिद्धं संप्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणाप्युक्तन्यायतः ।
तथाच व्याख्यातमेतत्"येषां नो ऽयमात्मायं लोक"इति होतुवचनेन ।
पूर्वे विद्वासः प्रजामकामयमाना व्युत्तिष्ठन्तीति पारिव्राज्यं विदुषामात्मलोकावबोधादेव ।
तथाच विविदिषोरपु सिद्धं पारिव्राज्यम् ।
"एतमेवाऽत्मानं लोकमिच्छन्तः प्रव्रजन्ति"इति वचनात् ।
कर्मणां चाविद्वद्विषयत्वमवोचाम ।
अविद्याविषये चोत्पत्याप्तिविकारसंस्कार्थानि कर्माणीत्यतः आत्मसंस्कारद्वैरेणाऽत्मज्ञानसाधनत्वमपि कर्मणामवोचाम यज्ञादिभिर्विविदषन्तीति ।
अथैत सत्यविद्विषयाणामाश्रमकर्मणां बलाबलविचारणायामात्मज्ञानोत्पादनं प्रति यमप्रधानानाममानित्वादीनां मानसानां च ध्यानज्ञानवैराग्यादीनां सन्निपत्योपकारत्वम् ।
हिंसारागद्वेषादिबाहुल्याद्बहुक्लिष्टकर्मविमिश्रिता इतर इत्यतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति-"त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।
वैराग्यं पुनरेतस्य मोक्षस्य परमो ऽवधिः" ॥
"किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहा प्रविष्टं पितामहास्ते क्व गताः पिता च ॥
"एवं साख्ययोगशास्त्रेषु च संन्यासो ज्ञानं प्रति प्रत्यासन्न उच्यते ।
कामप्रवृत्त्यभावाच्च ।
कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा ।
तस्माद्विरक्तस्य मुमुक्षोर्विनापि ज्ञानेन ब्रह्मचर्यादेव प्रव्रजेदित्याद्यूपपन्नम् ।
ननु सावकाशत्वादनधिकृतविषयमेतदित्युक्तं यावज्जीवश्रुत्युपरोधात् ।
नैष दोषः ।
नितरां सावकाशत्वाद्यावज्जीवश्रुतीनाम् ।
अवद्वित्कामिकर्तव्यता ह्यवोचाम सर्वकर्मणाम् ।
न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ।
प्रायेणहि पुरुषाः कामबहुलाः ।
कामश्चानेकविषयो ऽनेककर्मसाधनसाध्यश्च ।
अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसंबन्धपुरुषकर्तव्यानु पुनः पुनश्चानुष्ठीयमानानु बहुफलानु कृष्यादिवद्वर्षशतसमाप्तीनि च गार्हस्थ्ये वारण्ये वातस्तदपेक्षया यावज्जीवश्रुतयः ।
ऽकुर्वन्नेवेह कर्माणिऽ इति च मन्त्रवर्णः ।
तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः ।
यस्मिंश्च पक्षे यावज्जीवानुष्ठानं तदा श्मशानान्तत्वं भस्मान्तता च शरीरस्य ।
इतरवर्णापेक्षया वा यावज्जीवश्रुतिः ।
न हि क्षत्त्रियवैश्ययो पारिव्राज्यप्रतिपत्तिरस्ति ।
तथा ऽमन्त्रैर्यस्योदितो विधिःऽ ।
ऽऐकाश्रम्यं त्वाचार्याऽ इत्येवमादीनां क्षत्रियवैश्यापेक्षत्वम् ।
तस्मात्पुरुशसामर्थयज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रिपत्तप्रकारा न विरुध्यन्ते ।
अनधिकृतानां च पृथग्विधानात्पारिव्राज्यस् ऽस्नातको वास्नातको वोत्सन्नाग्निरनग्निको वेऽत्यादिना ।
तस्मात्सिद्धाश्रमान्तराण्यधिकृतानामेव ॥4,5.15॥
इति पञ्चमं ब्राह्मणम् ॥
स्तर्त् ब्र्हुप् 4,6.1-3
अथ वंशः ।
पौतिमाष्यो गौपवनात् ।
गौपवनः पौतिमाष्यात् ।
पौतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच् च गौतमाच् च ।
गौतमः

4.6.2

अग्निवेश्यात् ।
अग्निवेश्यो गार्ग्यात् ।
गार्ग्यो गार्ग्यात् ।
गार्ग्यो गौतमात् ।
गौतमः सैतवात् ।
सैतवः पाराशर्यायणात् ।
पाराशर्यायणो गार्ग्यायणात् ।
गार्ग्यायण उद्दालकायनात् ।
उद्दालकायनो जाबालायनात् ।
जाबालायनो माध्यन्दिनायनात् ।
माध्यन्दिनायनः सौकरायणात् ।
सौकरायणः काषायणात् ।
काषायणः सायकायनात् ।
साकायनः कौशिकायनेः
कौशिकायनिः

4.6.3

घृतकौशिकात् ।
घृतकौशिकः पाराशर्यात् ।
पाराशर्यः पाराशर्यात् ।
पाराशर्यो जातुकर्ण्यात् ।
जातुकर्ण्य आसुरायणाच् च यस्काच् च ।
आसुरायणस् त्रैवणेः ।
त्रैवणिर् औपजन्धनेः ।
औपजन्धनिर् आसुरेः ।
आसुरिर् भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर् गौतमात् ।
गौतमो गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात् काप्यात् ।
कैशोर्यः काप्यः कुमारहरितात् ।
कुमारहरितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद् बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरो ऽयास्याद् अङ्गिरसात् ।
अयास्य आङ्गिरस आभुतेस् त्वाष्ट्रात् ।
आभुतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् ।
विश्वरूपस् त्वाष्ट्रो ऽश्विभ्याम् ।
अश्विनौ दधिच आथर्वणात् ।
दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्राध्वंसनात् ।
प्राध्वंसनः एकर्षेः ।
एकर्षिर् विप्रजित्तेः ।
विप्रजित्तिर् व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्टिणः ।
परमेष्टी ब्रह्मणः ।
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc