बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.5
ब्र्हुप्भ्_4,4.25 इदानीं समस्तस्यैवाऽरण्यरकस्य योर्ऽथ उक्तः स समुच्चित्यास्या कण्डिकायां निर्दिश्यत एतावान्समस्तारण्यकार्थ इति ।
स वा एष महानज आत्माजरो न जीर्यत इति न विपरिणमत इत्यर्थः ।
अमरो यस्माच्चाजरस्तस्मादमरो न म्रियत इत्यमरः ।
यो हि जायते जीर्यते च स विनश्यति म्रियते वा ।
अयं त्वजत्वादजरत्वाच्चाविनाशी यतो ऽत एवामृतः ।
यस्माज्जनिप्रभृतिस्त्रिभिर्भावविरिपैर्वर्जितस्तस्मादितरैरपि भावविकारैस्त्रिभिस्तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वीजत इत्येतत् ।
अभयो ऽत एव ।
यस्माच्चैवं पूर्वोक्तविशेषणस्तस्मस्माद्भयवर्जितः भयं च हि नामाविद्याकार्यं तत्कार्यप्रितिषेधेन भावविकारप्रतिषेधेन चाविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः ।
अभय आत्मैवङ्गुणविशिष्टः किमसौ ब्रह्म परिवृढं निरतिशयं महदित्यर्थः ।
अभयं वै ब्रह्म ।
प्रसिद्धमेतल्लोके ऽभयं ब्रह्मेति ।
तस्माद्युक्तमेवङ्गुणविशिष्ट आत्मा ब्रह्मेति ।
य एवं यथोक्तमात्मानमभयं ब्रह्म वेद सो ऽभयं हि वै ब्रह्म भवति ।
एष सर्वस्या उपनिषदः संक्षिप्तोर्ऽथ उक्तः ।
एतस्यैवार्थस् सम्यक्प्रबोधायोत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा चाऽत्मनि कृता तदपोहेन च नेति नेतीत्यध्यारोपिताविशेषापनयद्वारेणपुनस्तत्वमावेदितम् ।
यथैकप्रभृत्यापरार्धसंख्यास्वरूपपरिज्ञानाया रेखाध्यारोपणं कृत्वैकेयं रेखा दशेयं शतेयं सहस्रेयमिति ग्राहयत्यवगमयति संख्यास्वरूपं केवलं न तु संख्याया रेखात्मत्वमेव यथा चाकारादीन्यक्षराणि ग्राहयति तथा चेहोत्पत्याद्यनेकोपायमास्थायैकं ब्रह्मतत्त्वमावेदितम् ।
पुनस्तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः ।
तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानमन्ते ऽस्य कण्डिकायामिति ॥4,4.25॥
इति चतुर्थं ब्राह्मणम् ॥
स्तर्त् ब्र्हुप् 4,5.1
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च ।
तयोर् ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्यो ऽन्यद् वृत्तम् उपाकरिष्यन्
ब्र्हुप्भ्_4,5.1 आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् ।
पुनस्तस्यैवोपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् ।
शैष्याचार्यसंबन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् ।
अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्येते ।
अयं च न्यायो वाक्यकोविदैः परिगृहीतो हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति ।
अथवाऽगमप्रधानेन मधुकाण्डेन यदमृतत्वसाधनं ससंन्यासभात्मज्ञानमभिहितं तदेव तर्केणाप्यमृतत्वसाधनं ससंन्यासमात्मज्ञानमधिगम्यते ।
तर्कप्रधानंहि याज्ञवल्कीयं काण्डम् ।
तस्माच्छास्त्रतर्काभ्यां निश्चितमेतद्यदेतदात्मज्ञानं ससंन्यासममृतत्वसाधनमिति ।
तस्माच्छास्त्रश्रद्धावद्भिरमृतत्वप्रतिपित्सुभिरेतत्प्रतिपत्तव्यमिति ।
आगमोपपत्तिभ्यां हि निश्चितोर्ऽथः श्रद्धेयो भवत्यव्यभिचारादिति ।
अक्षराणां तु चतुर्थे यथा व्याख्यातोर्ऽथस्तथा प्रतिपत्तव्यो ऽत्रापि ।
यान्यक्षराण्यव्याख्यातानि तानि व्याख्यास्यामः ।
अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः ।
हेतुप्रधानानि हि वाक्यान्यतीतानि तदनन्तरमागमप्रधानेन प्रतिज्ञातोर्ऽथो निगम्यते मैत्रेयीब्राह्मणेन ।
हशब्दो वृत्तावद्योतकः ।
याज्ञवल्क्यस्यर्षेः किल द्वे भार्ये पत्न्यौ बभूवतुरास्तां मैत्रेयी च नामत एकापरा कात्यायनी नामतः तयोर्भार्ययोर्मैत्रेयीह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूवाऽसीत् ।
स्त्रीप्रज्ञा स्त्रियां योचिता सा स्त्रीप्रज्ञा सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काल आसीत्कात्यायनी ।
अथैवं सति ह किल याज्ञवल्क्यो ऽन्यत्पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात्पारिव्राज्यलक्षणं वृत्तमुपाकरिष्यन्नुपाचिकीर्षुः सन् ॥4,5.1॥
स्तर्त् ब्र्हुप् 4,5.2
मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि ।
हन्त ते ऽनया कत्यायन्यान्तं करवाणीति
ब्र्हुप्भ्_4,5.2 हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास ।
आमन्ञ्य चोवाच ह प्रव्रजिष्यन्पानिव्राज्यं करिष्यन्वा अरे मैत्रेय्यस्मात्स्थानाद्गार्हस्थ्यादहमस्मि भवामि ।
मैत्रेय्यनुजानीहि मां हन्तेच्छसि यदि ते ऽनया कात्यायन्यान्तं करवाणोत्यादि व्याख्यातम् ॥4,5.2॥
स्तर्त् ब्र्हुप् 4,5.3-4
सा होवाच मैत्रेयी --
यन् नु म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्व् अहं तेनामृताहो3 नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति
सा होवाच मैत्रेयी --
येनाहं नामृता स्याम् किम् अहं तेन कुर्याम् ।
यद् एव भगवान् वेद तद् एव मे ब्रूहीति
ब्र्हुप्भ्_4,5.3-4 सैवमुक्तोवाच मैत्रेयी सर्वेयं पृथिवी वित्तेन पूर्णा स्यान्नु किं स्यां किमहं वित्तसाध्येन कर्मणामृताऽहो न स्यामिति ।
नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥4,5.3-4 ॥
स्तर्त् ब्र्हुप् 4,5.5
स होवाच याज्ञवल्क्यः --
प्रिया वै खलु नो भवती सती प्रियम् अवृधत् ।
हन्त तर्हि ।
भवत्य् एतद् व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति
ब्र्हुप्भ्_4,5.5 स होवाच प्रियैव पूर्वं खलु नो ऽस्मभ्यं भवती भवन्ति सतो प्रियमेवावृधद्वर्धितवती निर्धारितवत्यसि ।
अतस्तुष्टो ऽहं हन्तेच्छसि चेदमृतत्वसाधनं ज्ञातुं हे भवति ते तुभ्यं तद्मृतत्वसाधनं व्याख्यास्यामि ॥4,5.5॥
स्तर्त् ब्र्हुप् 4,5.6
स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस् तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस् तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस् तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्य् आत्मनस् तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस् तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस् तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस् तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस् तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य् आत्मनस् तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्
ब्र्हुप्भ्_4,5.6 आत्मनि खल्वरे मैत्रेयी दृष्टे ।
कथं दृष्ट आत्मनीति, उच्यते-पूर्वमाचार्यागमाभ्यां श्रुते पुनस्तर्केणोपपत्तया मते विचारिते ।
श्रवणं त्वागममात्रेण मत उपपत्त्या पश्चाद्विज्ञान एवमेतन्नान्यथेति निर्धारिते ।
किं भवतीत्युच्यत इदं विदितं भवति ।
इदं सर्वमिति यदात्मनो ऽन्यत् ।
आत्मव्यतिरेकेणाभावात् ॥4,5.6॥
स्तर्त् ब्र्हुप् 4,5.7-10
ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद् यो ऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास् तं परादुर् यो ऽन्यत्रात्मनो लोकान् वेद ।
देवास् तं परादुर् यो ऽन्यत्रात्मनो देवान् वेद ।
वेदास् तं परादुर् यो ऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर् यो ऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद् यो ऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यद् अयम् आत्मा
स यथा दुन्दुभेर् हन्यमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय ।
दुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः
स यथा वीणायै वाद्यमानायै न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः
ब्र्हुप्भ्_4,5.7-10 तमयथार्थदर्शितं परादात्पराकुर्यात्कैवल्यासंबन्धिनं कुर्यादयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥4,5.7-10 ॥
स्तर्त् ब्र्हुप् 4,5.11-12
स यथार्द्रैधाग्नेर् अभ्याहितस्य पृथग् धूमा विनिश्चरन्त्य् एवं वा अरे ऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्याननीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि
स यथा सर्वासाम् अपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वग् एकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुर् एकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रम् एकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयम् एकायनम् ।
एवं सर्वेषां कर्मणां हस्ताव् एकायनम् ।
एवं सर्वेषाम् आनन्दानाम् उपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुर् एकायनम् ।
एवं सर्वेषाम् अध्वनां पादाव् एकायनम् ।
एवं सर्वेषां वेदानां वाग् एकायनम्
ब्र्हुप्भ्_4,5.11-12 चतुर्थे शब्दनिःश्वासेनेव लोकाद्यर्थनिःश्वासः सामर्थ्यादिक्तो भवतीति पृथङ्नोक्तः ।
इह तु सर्वशास्त्रोप संहारं इति कृत्वार्ऽथप्राप्तो ऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥4,5.11-12 ॥
स्तर्त् ब्र्हुप् 4,5.13
स यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरे ऽयम् आत्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनयति ।
न प्रेत्य संज्ञास्तीत्य् अरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः
ब्र्हुप्भ्_4,5.13 सर्वकार्यप्रलये विद्यानिमित्ते सैन्धवघनवदनन्तरो ऽवाह्यः कृत्स्नः प्रज्ञानधन एक आत्मावतिष्ठते ।
पूर्वं तु भूतमान्नासंसर्गविशेषल्लब्धविशेषविज्ञानः सन् ।
तस्मिन्प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञास्तीत्येवं याज्ञवल्क्येनोक्ता ॥4,5.13॥
स्तर्त् ब्र्हुप् 4,5.14
सा होवाच मैत्रेयी --
अत्रैव मा भगवान् मोहान्तम् आपीपदत् ।
न वा अहम् इमं विजानामीति ।
स होवाच -- न वा अरे ऽहं मोहं ब्रवीमि ।
अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा
ब्र्हुप्भ्_4,5.14 सा होवाचात्रैव मा भगवानेतस्मिन्नैव वस्तुनि प्रज्ञानघन एव न प्रेत्य संज्ञाऽस्तीति मोहान्तं मोहमध्यमापीपिदापीपददवगमितवानसि संसोहितवानसीत्यर्थः ।
अतो न वा अहमिममात्मानमुक्तलक्षणं विजानामि विवेकत इति ।
स होवाच नाहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मा यतो विन(नं)ष्टुं शीलमस्येति विनाशी न विनाश्यविनाशी विनाशब्देन विक्रियाविनाशीत्यविक्रिय आत्मेत्यर्थः ।
अरे मैत्रेय्ययमात्मा प्रकृतो ऽनुच्छित्तिधर्मा ।
उच्छित्तिरुच्छेद उच्छेदो ऽन्तो विनाश उच्छित्तिर्धर्मो ऽस्येत्युच्छित्तिरर्धर्मा नोच्छित्तिधर्मानुच्छित्तिधर्मा नापि विक्रियालक्षणो नाप्यपच्छेदलक्षणो वीनाशो ऽस्य विद्यत इत्यर्थः ॥4,5.14॥
स्तर्त् ब्र्हुप् 4,5.15
यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति, तद् इतर इतरं जिघ्रति, तद् इतर इतरं रसयते, तद् इतर इतरम् अभिवदति, तद् इतर इतरं शृणोति, तद् इतर इतरं मनुते. तद् इतर इतरं स्पृशति, तद् इतर इतरं विजानाति ।
यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं रसयेत् तत् केन कम् अभिवदेत् तत् केन कं शृणुयात् तत् केन कं मन्वीत तत् केन कं स्पृशेत् तत् केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्य् आत्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारम् अरे केन विजानीयाद् इत्य् उक्तानुशासनासि मैत्रेयि ।
एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यो विजहार
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0