बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 4.4
ब्र्हुप्भ्_4,3.38 तमेव जिगमिषुं के सह गच्छन्ते ।
ये वा गच्छन्ति ते किं तत्क्रियाप्रणुन्ना आहोस्वित्तत्कर्मवशात्स्वयमेव गच्छन्ति परलोकशरीरकर्तॄणि च भूतानीति ।
अत्रोच्यते दृष्टान्तः - ततद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमिच्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्तं यथाभिसमायन्त्याभुमिख्येन समायन्त्येकीभावेन तमभिमुखा आयन्त्यनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञाः, एवमेवेममात्मानं भोक्तारमन्तकाले मरणकाले सर्वे प्राणा वागादयो ऽभिसमायन्ति ।
यत्रातदूर्ध्वोच्छ्वासी भवतीति व्याख्यातम् ॥4,3.38॥
इति बृहदारण्यकोपनिषद्भाष्ये चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥
स्तर्त् ब्र्हुप् 4,4.1
स यत्रायम् आत्माबल्यं न्येत्य संमोहम् इव न्येति ।
अथैनम् एते प्राणा अभिसमायन्ति ।
स एतास् तेजोमात्राः समभ्याददानो हृदयम् एवान्ववक्रामति ।
स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते ।
अथारूपज्ञो भवति
ब्र्हुप्भ्_4,4.1 स यत्रायममात्मा ।
संसारोपवर्णनं प्रस्तुतम् ।
तत्रायं पुरुष एभ्यो ऽङ्गेभ्यः संप्रमुच्येत्युक्तम् ।
तत्संप्रमोक्षणं कस्मिन्काले कथे वेति सविस्तरं संसरणं वर्णयितव्यमित्यापभ्यते-सो ऽयमात्मा प्रस्तुतो यत्र यस्मिन्काले ऽबल्यमबलभावं नि एत्य गत्वा ।
यद्देहस्य दौर्बल्यं तदात्मन एव दौर्बल्यमित्युपर्यते ऽबल्यं न्येत्येति ।
न ह्यसौ स्वतो ऽमूर्तत्वादबलभावं गच्छति ।
तथा संमोहमिव संमूठता संमोहो विवेकाभावः संमूढतामिव न्येति निगच्छति ।
न चास्य स्वतः संमोहो ऽसंमोहो वास्ति ।
नित्यचैतन्यज्योतिःस्वभावत्वात् ।
तेनेवशब्दः संमोहमिव न्येतीति ।
उत्क्रान्तिकालं हि करणोपसंहारनिमित्तो व्याकुलीभाव आत्मन इव लक्ष्यते लैकिकैः ।
तथा च वक्तारो भवन्ति संमूढः संमूढो ऽयमिति ।
अथ वोभयत्रेवशब्दप्रयोगो योज्यः ।
अबल्यमिव न्येत् संमोहमिव न्येतीति ।
उभयस् परोपाधिनिमित्तत्वाविशेषात् ।
समानकर्तृकनिर्देशाच्च ।
अथास्मिन्काल एते प्राणा वागादय एनमात्मनमभिसमायन्ति तदास्य शारीरस्याऽत्मनो ऽङ्गेभ्यः संप्रमो7णम् ।
कथं पुनः संप्रमोक्षणं केन वा प्रकारेणाऽत्मानमभिसमायन्तीति ।
उच्यते-स आत्मैतास्तेजोमात्रास्तेजसो मात्रास्तेजोमात्रास्तेजोवयवा रूपादिप्रकाशकत्वाच्चक्षुरादीनि करणानीत्यर्थः ।
ता एताः समभ्याददानः सम्यङ्निर्लेपेनाभ्याददान आभिमुख्येना ।
ञऽददानः संहरमाणस्तत्स्वप्नापेक्षया विशेषणं समिति ।
न तु स्वप्ने निर्लेपेन सम्यागादानम् ।
अस्ति त्वादानमात्रम् ।
ऽगृहीता वाग्गृहीतं चक्षुःऽ ऽअस्य लोकस्य सर्वावतो मात्रामपादायऽ ऽशुक्रमादायेऽत्यादिवाक्येभ्यः ।
हृदयमेव पुण्डरीकाकारमन्वक्रामत्यन्वागच्छति ।
हृदये ऽभिव्यक्तविज्ञानो भवतीत्यर्थः ।
बुद्ध्यादिविक्षेपोपसंहापे सति ।
न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा ।
ध्यायतीव लेलायतीवेत्युक्त्वात् ।
बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाऽध्यारोप्यतेतस्मिन् ।
कदा पुनस्तस्य तेजोमात्राभ्यादामिति ।
उच्.ते-स यत्रैष चक्षुषि भवश्चाक्षुष- पुरुष जादित्यांशो भोक्तुः कर्मणा प्रयुक्तो यादवद्देहधारणं तावच्चक्षुषो ऽनुग्रहं कुर्वन्वर्तते ।
मरणकाले त्वस्य चक्षुरनुग्रहं परित्यजति स्वमादित्यात्मानं प्रतिपद्यते ।
तदेतदुक्तं"यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यामि"त्यादि ।
पुनर्देहग्रहणकाले संश्रयिष्यन्ति ।
तथा स्वप्स्यतः प्रबुध्यतश्च ।
तदेतदाहि-चाक्षुषः पुरुषो यत्र यस्मिन्काले पराङ्पर्यावर्तते परिसमन्तात्पराङ्व्यावर्तत इति ।
अथात्रास्मिन्काले ऽरूपज्ञो भवति मुमूर्षू रूपं न जानाति तदायमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्न्काल इव ॥4,4.1॥
स्तर्त् ब्र्हुप् 4,4.2
एकीभवति न पश्यतीत्य् आहुः ।
एकीभवति न जिघ्रतीत्य् आहुः ।
एकीभवति न रसयतीत्य् आहुः ।
एकीभवति न वदतीत्य् आहुः ।
एकीभवति न शृणोतीत्य् आहुः ।
एकीभवति न मनुत इत्य् आहुः ।
एकीभवति न स्पृशतीत्य् आहुः ।
एकीभवति न विजानातीत्य् आहुः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति ।
चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः ।
तम् उत्क्रामन्तं प्राणो ऽनूत्क्रामति ।
प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ।
सविज्ञनो भवति ।
संजानम् एवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च
ब्र्हुप्भ्_4,4.2 एकीभवति करणजातं स्वेन लिङ्गात्मना ।
तदैवन पार्श्वस्था आहुर्न पश्यतीति ।
तथा घ्राणदेवतानिवृत्तौ घ्राणमेकीभवति लिङ्गात्मना तदा न जिघ्रतीत्याहुः ।
समानमन्यत् ।
जिह्वायां सोमो वरुणो वा देवता तन्निवृत्यपेक्षया न रसयत इत्याहुः ।
तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः ।
तदोपलक्ष्यते देवतानिवृत्तिः करणानां च हृदय एकीभावः ।
तत्र हृदय उपसंहृतेषु करणेषु यो ऽन्तर्वायपारः स कथ्यते-तस्य हैतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् ।
अग्रं नाडीमुखं निर्गमद्वारं प्रद्योतते स्वप्नकाल इव स्वेन भासातेजोमात्रादानकृतेन स्वोनाव ज्योतिषाऽत्मनैव च ।
तेनाऽत्मज्योतिषा प्रद्योतेन हृदयाग्रेणैष आत्मा विज्ञानमयो लिङ्गोपाधिर्निग्रच्छति निष्क्रमाति ।
तथाऽथर्वणे"कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठते प्रतिष्ठास्यामीति स प्राणमसृजत"इति ।
तत्र चाऽत्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरम् ।
तदुपाधिद्वारा ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः ।
तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि तत्सूत्रं तज्जीवनं सो ऽन्तरात्मा जगतस्तस्थुषश्च ।
तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीति ।
उच्यते-चक्षुष्टो वा ।
आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् ।
मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् ।
अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो यथाकर्म यथाश्रुतम् ।
तं विज्ञानात्मानमुत्क्रामन्तं परलोकस्य प्रस्थितं परलोकायोद्भूताकूतमित्यर्थ- ।
प्राणः सर्वाधिकारिस्थानीयो राज्ञ इवानूत्क्रामति ।
तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणां अनूत्क्रामन्ति ।
यथाप्रधानान्वाचिख्यासेयं न तु क्रमेण सार्थवद्ग्मनमिह विवक्षितम् ।
तदैष आत्मा सविज्ञानो भवति स्वप्न् इव विशेषविज्ञानवान्भवति कर्मवशान्न् स्वतन्त्रः स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ।
नैव तु तल्लभ्यते ।
अत एवाऽह व्यासः"सदा तद्भावभावितः"इति ।
कर्मणा तूद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोक एतस्मिन्काले सविज्ञानो भवति ।
सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः ।
तस्मात्तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्टपुण्योपयश्च श्रद्धधानैः परलोकार्थिभिरप्रमत्तैः कर्तव्य इति ।
सर्वशास्त्राणां यत्नतो विधेयोर्ऽथो दुश्चरिताच्चोपरमणम् ।
न हि तत्काले शक्यते किञ्चित्सम्पादयितुम् ।
कर्मणा नीयमानस्य स्वातन्त्र्याभावात् ।
ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽत्युक्तम् ।
एतस्य ह्यनर्थस्योपशमोपायविधानाया सर्वशाखोपनिषदः प्रवृत्ताः ।
न हि तद्विहितोपायानुसेवनं मुक्त्वाऽत्यन्तिको ऽस्यानर्थस्योपशमोपायो ऽस्ति ।
तस्मादत्रैवोपनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः ।
शकटवस्तंभृसंभारं उत्सर्जन्यातीत्युक्तं, किं पुनस्तस्य परलोकाय प्रवृत्तस्य पथ्दनं शाकटिकसंभारस्थानीयं गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकं च यत्तत्किमिति ।
उच्यते-तं परलोकाय गच्छन्तमात्मानं विद्याकर्मणी विद्या च कर्म च विद्याकर्मणी विद्या स्रवप्रकारा विहिता प्रतिषिद्धा चाविहिताप्रतिषिद्धा च ।
तथा कर्म विहितं प्रतिषिद्धं चाविहितप्रतिषिद्धं च समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्वप्रज्ञा च पूर्वानुभूतविषया प्रज्ञापूर्वप्रज्ञातीतकर्मफलानुभववासनेत्यर्थः ।
सा च वासनापूर्वकर्मरम्भे कर्मविपाके चाङ्गं भवति ।
तेनासावप्यन्वापभते ।
न हि तया वासनया विना कर्म कर्तुं फलं चोपभोक्तुं शक्यते ।
न ह्यनभ्यस्ते विषये कौशलमिन्द्रयाणां भवति ।
पूर्वानुभववासनाप्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमनन्तरेण कौशलमुपपद्यते ।
दृश्यते च केषाञ्चित्कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैवेहाभ्यासेन जन्मत एव कौशलं कासुचिदत्यन्तसौकर्ययुक्तास्वप्यकौशलं कोषाञ्चित् ।
तथा पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित्प्रवृत्तिरुपपद्यते ।
तस्मादेतत्त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदन विद्याकर्मपूर्वप्रज्ञाख्यम् ।
यस्माद्विद्याक्रमणी पूर्वप्ज्ञा च देहान्तरप्रतिपत्युपभोगसाधनं तस्मद्विद्याकर्मादि शुभमेव समातरेद्यथेष्टदेहसम्भोगोपभोगौ स्यातामिति प्रकरणार्थः ॥4,4.2॥
स्तर्त् ब्र्हुप् 4,4.3
तद् यथा तृणजलायुका तृणस्यान्तं गत्वान्यम् आक्रमम् आक्रम्यात्मानम् उपसंहरति ।
एवम् एवायम् आत्मेदं शरीरं निहत्याविद्यां गमयित्वान्यम् आक्रमम् आक्रम्यात्मानम् उपसंहरति
ब्र्हुप्भ्_4,4.3 एवं विद्यादिसम्बारसम्फृतो देहान्तरं प्रतिपद्यमानो मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं देहान्तरं प्रतिपद्यते ।
अथवाऽतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते ।
किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहोस्विच्छरीरःस्य संकुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत्सर्वतो व्यप्य पुनर्देहान्तरारम्भे सङ्कोचमुपगच्छन्ति ।
किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति किंवा कल्पनानान्तरमेव वेदान्तसमय इति ।
उच्यते-"त एते सर्व एव समाः सर्वे ऽनन्ताः"इति श्रुतेः सर्वात्मकानि तावत्करणानि ।
सर्वात्मकप्राणसंश्रयाच्च ।
तेषामाध्यामिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः ।
अतस्तद्वशात्स्वभावतः सर्गतानामनन्तानामपि प्राणानां कर्ज्ञानवासनानुरूपेणैव देहान्नरारम्भवशात्प्राणानां वृत्तिः संकुचति विकसति च ।
तथा चोक्तम्-"समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण"इति ।
तथा चेदं वचनमनुकूलम्-",स यो हैताननन्तानुपास्ते"इत्यादि ।
"तं यथा यथोपासते"इति च ।
तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकवत्संततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरमारभते हृदयस्यैव पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चतीत्येतस्मिन्नर्थे दृष्टान्त उपादीयते-तत्तत्र देहान्तरसञ्चार इदं निदर्शनम् ।
यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्यान्तमवसानं गत्वा प्राप्यान्यं तृणान्तरमाक्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याऽश्चित्याऽत्मानमात्मनः पूर्ववयवमुपसंहरत्यन्त्यावयवस्थाने ।
एवमेवायमात्मा यः प्रकृतः संसारीदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वाविद्यां गमयित्वाचेतनं कृत्वा स्वात्मोसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलूका शरीरान्तरं गृहीत्वा प्रसारित्या वासनयाऽमानमुपसंहरति ।
तत्राऽत्मभावमारभते यथा स्वप्ने देहान्तरमारभते स्वप्नदेहान्तरस्य शरीराम्भदेश आरभ्यमाणे देहे जङ्गमे स्थावरे वा ।
तत्र च कर्मवशात्करणानि लब्धवृत्तीनि संहन्यन्ते ।
बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते ।
तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहायाग्न्यादिदेवताः संश्चयन्ते ।
एष देहान्तरारम्भविधिः ॥4,4.3॥
स्तर्त् ब्र्हुप् 4,4.4
तद् यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन् नवतरं कल्याणतरं रूपं तनुते ।
एवम् एवायम् आत्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन् नवतरं कल्याणतरं रूपं कुरुते ।
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम्
ब्र्हुप्भ्_4,4.4 तत्र देहान्तरारम्भे नित्थोपात्तमेवोपादानमुपमृद्योपमृद्य देहान्तरमारभत आहोस्तिदपूर्वमेव पुनः पुनरादत्त इति ।
अत्रोच्यते दृष्टान्तः-तत्तत्रेतस्मिन्नर्थे--यथा पेशस्कारी पेशः सुवर्ण तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्रामपादायापिच्छिद्य गृहीत्वा अन्यत् पूर्वस्माद् रचनाविशेषान्नवतरमभिनवतरं कल्याणात् कल्याणतरं रूपं तनुते निर्मिनोति ।
एवमेवायमात्मेत्यादि पूर्ववत् ।
नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्च भूतानि यानि ऽद्वे वाव ब्रह्मणो रूपेऽ इति चतुर्थे व्याख्यातानि पेशःस्थानायानि,तान्येवोपमृद्योपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानवेशेषं वा पितृभ्यो हितं पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्, तथा देवानां दैवम्, प्रजापतेः प्रजापत्यम्, ब्रह्मण इदं ब्राह्मं वा; यथाकर्म यथाश्रुतमन्येषांवा भूतानां सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बन्यते ॥4,4.4॥
स्तर्त् ब्र्हुप् 4,4.5
स वा अयम् आत्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश् चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस् तेजोमयो ऽतेजोमयः काममयो ऽकाममयः क्रोधमयो ऽक्रोधमयो धर्ममयो ऽधर्ममयः सर्वमयः ।
तद् यद् एतद् इदंमयो ऽदोमय इति ।
यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर् भवति ।
पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा पापः पापेन ।
अथो खल्व् आहुः ।
काममय एवायं पुरुष इति ।
स यथाकामो भवति तत्क्रतुर् भवति ।
यत्क्रतुर् भवति तत् कर्म कुरुते ।
यत् कर्म कुरुते तद् अभिसंपद्यते
ब्र्हुप्भ्_4,4.5 यो ऽस्य बन्धनसंज्ञका उपाधिभूताः, यैः संयुत्त्कस्तन्मये ऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते-स वा अयं य एवं संसरत्यात्मा ब्रह्मैव पर एव यो ऽशनायाद्यतीतो, विज्ञानमयो विज्ञानं बुद्विस्तेनोपलङ्यमाणस्तन्मयः ।
कतम आत्मेति यो ऽयं विज्ञानमयः प्राणेष्विति हयुक्तम् ।
विज्ञानमयो वीज्ञानप्रायो यस्मात्तद्वर्मत्वमस्य विभाव्यते ध्यायतीव लेलायतीवेति ।
तथा मनोमयो मनः संनिकर्षान्मनोमयः ।
तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो येन चेतनश्चलतीव लक्ष्यते ।
तथा चक्षुर्मयो रूपदर्शनकाले ।
एवं श्रोत्रमयः शब्दश्रवणकाले ।
एवं तस्य तस्येन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति ।
एवं बुद्विप्राणद्वारेण चक्षुरादिकरणमयः सञ्शरीरारम्भकपृथिव्यादिभूतमयो भवति ।
तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति ।
तथा वरुणादिलोकेष्वाप्यशरीरारम्भ आपोमयो भवति ।
तथा वायव्यशरीरारम्भे वायुमयो भवति ।
तथाऽकाशशरीरारम्भ आकाशमयो भवति ।
एवमेतानि तैजसानि देवशरीराणि ।
तेष्वारभ्यमाणेषु तन्मयस्तेजोमयो भवति ।
अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि तान्यपेक्ष्याऽहातेजोमय इति ।
एवं कार्यकरणसंघातमयः सन्नात्मा प्राप्तव्यं वस्त्वन्तरं पश्यन्निदं मया प्राप्तमदो मया प्राप्तव्यमित्येवं विपरीतप्रत्ययस्तदभिलाषः काममयो भवति ।
तस्मिन्कामे दोषं पश्यतस्तद्विषयाभिलाषप्रशामे चितं प्रसन्नमकलुषं शान्तं भवति ।
तन्मयो ऽकाममयः ।
एवं तस्मिन्विहते कामेकेनाचित्स कामः क्रोधत्वेन परिणमते तेन तन्मयो भवन्क्रोधमयः ।
स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति तदा प्रसन्नमनाकुलं चितं सदक्रोध उच्यते तेन तन्मयः ।
एवं कामक्रोधाभ्यामकामाक्रोधाभ्यां च तन्मयो भूत्वा धर्ममयो ऽधर्ममयश्च भवति ।
न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरूपपद्यते ।
"यद्यद्वि कुरुते कर्म तत्तत्कामस्य चेष्टितम्" ।
इति स्मरणात् ।
धर्ममयो ऽधर्मयश्च भूत्वा सर्वमयो भवति ।
समस्तं धर्माधर्मयोः कार्यं यावर्त्किचिद्व्याकृतं तत्सर्वं धर्माधर्मयोः फलं तत्प्रतिपद्यामानस्तन्मयो भवति ।
किं बहुना तदेतत्सिद्वमस्य यदयमिदंमयो गृह्यमाणविषयादिदंमयस्तस्मादयमदोमयः ।
अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते ।
अनन्ता ह्यन्तःकरणे भावनाविशेषाः ।
नैव ते विशेषतो निर्देष्टुं शक्यन्ते ।
तस्मिस्तस्मिन्क्षणे कार्यतो ऽवगम्यन्त इदमस्य ह्रदि वर्तते ऽदोस्यते तेन गृह्यमाणकार्येणेदंमयतया निर्दिश्यते परोक्षो ऽन्तःस्थो व्यवहारो ऽयमिदानीमदोमय इति ।
संक्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सो ऽयं यथाकारी यथा चारी स तथा भवति ।
करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या चरणं नामानियतमिति विशेषः ।
साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणं पापकारी पापो भवतीति च यथाचारीत्यस्य ।
ताच्छील्यप्रत्ययोपादानादत्यन्ततात्पर्यतैव तन्मयत्वं न तु तत्कर्ममात्रेणोत्याशङ्कयाऽह-पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ।
पुण्यपापकर्ममात्रेणैव तन्मयता स्यान्न तु ताच्छील्यमपेक्षते ।
ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः ।
तत्र कामक्रोधादिपूर्वकपुण्यकारिता सर्वमयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसंचारस्य च ।
एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते ।
तस्मात्पुण्यापुण्ये संसारस्य कारणम् ।
एतद्विषयौ हि विधिप्रतिषेधौ ।
अत्र शास्त्रस्य साफल्यमिति ।
अथो अप्यन्ये बन्धमोक्षकुशलाः खल्वाहुः-सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणं तथापि कामप्रयुक्तो हि पुरुषः पुण्यपुण्ये कर्मणी उपचिनोति कामप्रहाणे तु कर्म विद्यामानमपि पुण्यपुण्येपचयकरं न भवति ।
उपचिते अपि पुण्यपुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः ।
तस्मात्काम एव संसारस्य मूलम् ।
तथा चेक्तमाथर्वणे-कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र इति ।
तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं तदकारणं विद्यानमपीत्यप्तो ऽवधारयति काममय एवेति ।
यस्मात्स च काममयः सन्यादृशेन कामेन यथाकामो भवति तत्क्रतुर्बवति स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति सो ऽविहन्यमानः स्फुटीभवन्क्रतुत्वामापद्यते ।
क्रतुर्नाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्तते ।
यत्क्रतुर्भवति यादृक्कामकार्येण क्रतुना यथारूपः क्रतुरस्य सो ऽयं यत्क्रतुर्भवति तत्कर्म कुरुतेयद्विषयः क्रतुस्तत्फलनिर्वृत्तये यद्योग्यं कर्म तत्कुरुते निर्वर्तयति ।
यत्कर्म कुरुते तदभिसंपद्यते, तदीयं फलमभिसंपद्यते ।
तस्मात्सर्वमयत्वे ऽस्य संसारित्वे च काम हेतुरिति ॥4,4.5॥
स्तर्त् ब्र्हुप् 4,4.6
तद् एष श्लोको भवति --
तद् एव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तम् अस्य ।
प्राप्यान्तं कर्मणस् तस्य यत् किञ्चेह करोत्य् अयम् ।
तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणे ।
इति नु कामयमानः ।
अथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ।
ब्रह्मैव सन् ब्रह्माप्येति
ब्र्हुप्भ्_4,4.6 तत्तस्मिन्नर्थ एष श्लोको मन्त्रोपि भवति ।
तदेवैति तदेव गच्छति सक्त आसक्तस्तत्रोद्भूताभिलाषः सन्नित्यर्थः ।
कथमेति ।
सह कर्मणा यत्कर्मफलासक्तः सन्नकरोत्तेन कर्मणा सहैव तदेति तत्फलमेति ।
किं तल्लिङ्गमनः ।
मनः प्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते ।
अथवा लिङ्गयते ऽवगम्यते ऽवगच्छति येन तल्लिङ्गं तन्मनो यत्र यस्मिन्निषक्तं निश्चयेन सक्तमुद्भूताभिलाषमस्य संसारिणः ।
तदभिलाषो हि तत्कर्म कृतवान् ।
तस्मात्तन्मनो ऽभिषङ्गवशादेवास्य तेन कर्मणा तत्फलप्राप्तिः ।
तेनैतसिद्वं भवति कामो मूलं संसारस्येति ।
अत उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदो वन्ध्यप्रसवानि भवन्ति ।
"पर्याप्तकामसय कृतात्मनश्च इहैव सर्वे प्रविलीतन्ति कामाः"इति श्रुतेः ।
किञ्च प्राप्यान्तं कर्मणः प्राप्य भुक्त्वान्तमवसानं तस्य कर्मणः फलं भुक्त्वान्तं प्राप्य तस्माल्लोकात्पुनरैत्यागच्छत्यस्मै लोकाय कर्मणे ऽयं हि लोकः कर्मप्रधानस्तेनाऽह कर्मण इति ।
पुनः कर्मकरणाय पुनः कर्म कृत्वा फलासङ्गवशात्पुनरमुं लोकं यातीत्येवम् ।
इति न्वेवं नु कामयमानः संसरति ।
य मात्कामयमान एवैवं संसरत्यथ तस्मादकामयमानो न क्वचित्संसरति ।
फलासक्तस्य हि गतिरुक्ता ।
अकामस्य हि क्रियानुपपत्तेरकामयमानो मुच्यत एव ।
कथं पुनकामयमानो भवति ।
यो ऽकामो भवत्यसावकामयमानः कथमकामतेत्युच्यते--यो निष्टकामो यस्मान्निर्गताः कामाः सो ऽयं निष्कामः ।
कथं कामा निर्गच्छन्ति ।
य आप्तकामो भवत्याप्ताः कामा येन स आप्तकामः ।
कथमाप्यन्ते कामा आत्मकामत्वेन यस्याऽमैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति ।
आत्मैवानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्ध्व न तिर्यङ्नाध आत्मनो ऽन्यत्कामयितव्यं वस्त्वन्तरम् ।
यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येच्छृणुयान्मन्वीत विजानीयाद्वैवं विजानन्कं कामयेत ।
ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ।
न चासावन्यो ब्रह्मविद आप्तकामस्यास्ति ।
य एवाऽत्मकामतयाऽप्तकामः स निष्कामो ऽकामो ऽकामयमानश्चेति मुच्यते ।
न हि यस्याऽत्मैव सर्वं भवति तस्यानात्मा कामयितव्यो ऽस्ति ।
अनात्मा चान्यः कामयितव्यः सर्वं चाऽत्मैवाभूदिति विप्रतिषिद्वम् ।
सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः ।
ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदो ऽपि तेषां सर्व भवति ।
प्रत्यवायस्य जिहासितव्यस्याऽत्मनो ऽन्यस्याभिप्रेतत्वात् ।
येन चाशनायाद्यतीतो नित्यं प्रत्यवायसंबद्वो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः ।
नित्यमेवाशनायाद्यतीतमात्मनं पश्यति ।
यस्माच्च जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म न शक्यत एव संबद्धु म् ।
यस्त्वब्रह्मवितस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः ।
अतः कामाभावादकामयमानो न जायते मुच्यत एव ।
तस्यैवमकामयमानस्य कर्माभावे गमनकारणाभावात्प्राणा वागादयो नोत्क्रामन्ति नोर्ध्व क्रामन्ति देहात् ।
स च विद्वानाप्तकाम आत्मकामतयेहैव ब्रह्मभूतः ।
सर्वात्मनो हि ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति ।
तस्य हि दार्ष्टान्तिकभूतो ऽयमर्थ उपसंह्रियते ऽथाकामयमान इत्यादिना ।
स कथमेवंभूतो मुच्यत इत्युच्यते-यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिः स्वभावमात्मानं पश्यति तस्यैवाकामयमानस्य कर्मभावे गमनकारणभावत्प्राणा वागादयो नोत्क्रामन्ति ।
किन्तु विद्वान्सैहैव ब्रह्म, यद्यपि देहावानिव लक्ष्यते स ब्रह्मैव सन्ब्रह्माप्येति ।
यस्मान्न हि तस्याब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति तस्मादिहैव ब्रह्मैव सन्ब्रह्माप्येति न शरीरपातेत्तरकालम् ।
न हि विदुषो मृतस्य भावान्तरापत्तिर्जीवतो ऽन्यभावो देहान्तरप्रतिसंधानाभावमात्रेणोव तु ब्रह्माप्येतीत्युच्यते ।
भावान्तरारापत्तौ हि मोक्षस्य सर्वोपनिषनिद्विवक्षितोर्ऽथ आत्मैकत्वाख्यः स बाधितो भवेत् ।
कर्महेतुकश्च मोक्षः प्राप्नोति न ज्ञाननिमित्त इति ।
स चानिष्टो ऽनित्यत्वं च मोक्षस्य प्राप्नोति ।
न हि क्रियानिर्वृत्तोर्ऽथो नित्यो दृष्टः ।
नित्यश्च मोक्षो ऽभ्युपगम्यते ।
"एष नित्यो महिमा"इति मन्त्रवर्णात् ।
न च स्वाभाविकात्स्वभावादन्यन्नित्यं कल्पयितुं शक्यम् ।
स्वाभाविकश्चेदग्न्युदात्मनः स्वभावः स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् ।
न ह्यग्नेरौष्ण्यं प्रकाशो वाग्नुव्यापारानन्तरानुभावी ।
अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् ।
ज्वलनव्यापानानुभावित्वमुष्णप्राकाशगुणाभ्यामभिव्यज्यते तन्नाग्न्येपेक्षया किं तर्ह्यन्यदृष्टेरग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितै कस्यचिद्दृष्ट्या त्वसंबध्यमानौ ज्वलनापेक्षया व्यधानापगमे दृष्टेरभिव्यज्येते तदपेक्षया भ्रान्तिरुपजायते ज्वलनपूर्वकावेताविष्णप्राकाशौ धर्मौ जाताविति ।
यद्युष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् ।
यः स्वाभावकिऽग्नेर्धर्मस्तमुदाहरिष्यामः ।
न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ।
न च निगडभङ्ग इवाभावभूतो मोक्षो बन्धननिवृत्तिरुपपद्यते ।
परमात्मैकत्वाभ्युपगमात् ऽएकमेवाद्वितीयम्ऽइति श्रुतेः ।
न चान्यो बद्धो ऽस्ति यस्य निगडनिवृत्तिवद्बन्धननिवृत्तर्मोक्षः स्यात् ।
परमात्मव्यतिरेकेणान्यस्याभावं विस्तरेणावादिष्म ।
तस्मादविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति चावोचाम यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः ।
ये ऽप्याचक्षते मोक्षे विज्ञानान्तरमानन्दान्तरं चाभिव्यज्यत इति सैर्वक्तव्यो ऽभिव्यक्तिशब्दार्थः ।
यदि तावत्लौकिकिक्येवोपलब्धिविषयव्याप्तिरभिव्यक्तिशब्दार्थः ।
ततो वक्तव्यं किं विद्यमानमभिव्यज्यते ऽविद्यमानमिति वा ।
विद्यमानं चेद्यस्य मुक्तस्य तदभिव्यज्यते तस्याऽत्मभूतमेव तदित्युपलब्धिव्यवधानानुपपत्तेर्नित्याभिव्यक्तत्वान्मुक्तस्याभिव्यज्यत इति विशेषवचनमर्थकम् ।
अथ कदाचिदेवाभिव्यज्यत उपलब्धिव्यवधानादनात्मभूतं तदित्यन्यतो ऽभिव्यक्तिप्रसङ्गः ।
तथा चाभिव्यक्तिसाधनापेक्षया ।
उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिप्रसङ्गः ।
तथा चाभिव्यक्तिसाधनापेक्षता ।
उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिरनभिव्यक्तिर्वा ।
नत्वन्तरालकल्पनाया प्रमाणमस्ति ।
न च समानाश्रयणामेकस्याऽत्मभूतानां धर्माणामितरेतरविषयविषयित्वं संभवति ।
विज्ञानसुखयोष्च प्रागभिव्यक्तेः संसारित्वमभिव्यक्त्युत्तरकालं च मुक्तत्वंस्य सो ऽन्यः परस्मान्नित्याभिव्यक्तज्ञानस्वरूपादत्यन्तवैलक्षण्याच्छैत्यमिवौष्ण्यात् ।
परमात्मभेदकल्पनायाञ्च वैदिकः कृतान्तः परित्यक्तः स्यात् ।
मोक्षस्येदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेन्न ।
न, अविद्याभ्रमापोहाप्थत्वात् ।
न हि वस्तुतो मुक्तामुक्तत्वाविशेषो ऽस्ति ।
आत्मनो नित्याकरूपत्वात् ।
किन्तु तद्विषयाविद्यापोह्यते शास्त्रोपदेशजनितविज्ञानेन ।
प्राक्तदुपदेशप्राप्तेस्तदर्थश्च प्रयत्न उपपद्यत एव ।
अविद्यावतो ऽविद्यानिवृत्यनिवृत्तिकृतो वेशेष आत्मनः स्यादिति चेत् ।
अविद्याकल्पनाविषयत्वाभ्युपगमाद्रज्जूषरशुक्तकागगनानां सर्वोदकरजतमलिनत्वादिवददोष इत्यवोचाम ।
तिमिरातिमितरदृष्टिवदविद्याकर्तृत्वाकतृत्वाकृत आत्मनो विशेषः स्यादिति चेत् ।
न ।
ध्यातीव लेलायतीवेति स्वतो ऽविद्याकर्तृत्वस्व प्रतिषिद्धत्वा ।
अनेकव्यापारसन्निपातजनितत्वाच्चाविद्याभ्रमस्य ।
विषत्वोपपत्तेष्च ।
यस्य चाविद्याभ्रमो घटादिवद्विविक्तो गृह्यते स नाविद्याभ्रमवान् ।
अहं न जाने मुग्धे ऽस्मीति प्रत्यतदर्शनादविद्याभ्रमवत्वमेवेति चेन्न ।
तस्यापि विवेकग्रहणात् ।
न हि यो यस्य विवेकेन ग्रहीता स तस्मिन्भ्रान्त इत्युच्यते ।
तस्य च विवेकग्रहणं तस्मिन्नेव च भ्रम इति विप्रतिषिद्धम् ।
न जाने मुग्धो ऽस्मीति दृश्यत इति ब्रवीषि तद्दर्शिनश्चाज्ञानं मुग्धरूपता दृश्यत इति च तद्दर्शनस्य विषयो भवति कर्मतामापद्यत इति तत्कथं कर्मभूतं सत्कर्तृस्वरूपदृशिविशेषणज्ञानमुग्धते स्याताम् ।
अथ दृशिविशेषणत्वं तयोः कथं कर्म स्यातां दृशिना व्याप्येते ।
कर्म हि कर्तृक्रियया व्याप्यमानं भवति ।
अन्यच्च व्याप्यमन्यद्व्यापकं न तेनैव तद्व्याप्यते ।
वद कथमेवं सत्यज्ञानमुग्धते दृशिविशेषणे स्याताम् ।
न चाज्ञानाविवेकदर्श्यज्ञानमात्मनः कर्मभूतमुपलभमान उपलब्धृधर्मत्वेन गृह्माति शरीरे कार्श्यरूपदादवत्तथा ।
सुखदुःखेच्छाप्रयत्नादीन्सर्वो लोको गृह्णातीति चेत् ।
तथापि ग्रहीतुर्लोकस्य विवक्ततैवाभ्युपगता स्यात् ।
न जाने ऽहं त्वदुक्तं मुग्ध एवेति चेत् ।
भवत्वज्ञो मुग्धो यस्त्वेवन्दर्शू तं ज्ञममुग्धं प्रतिजानीमहे वयम् ।
तथा व्योसेनोक्तम् ।
इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति ।
"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तम्"इत्यादि शतश उक्तम् ।
तस्मान्नाऽत्मनः स्वतो बद्धमुक्तज्ञानकृतो विशेषो ऽस्ति ।
सर्वदा समैकरसस्वाभाव्याभ्युपगमात् ।
ये त्वतो ऽन्यथाऽत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रिं चार्थवादमापादयन्ति त उत्सहन्ते खे ऽपि शाकुनं पदं द्रष्टुं खं वा मुष्टिनाऽक्रष्टुं चर्मवद्वेष्टितुम् ।
वयं तु तत्कर्तुमशक्ताः सर्वादा समैकरमसद्वैतमविक्रियमजमजरममरममृतमभयमात्मतत्त्वं ब्रह्मैव स्म इत्येष सर्ववेदान्तनिश्चितोर्ऽथ इत्येवं प्रतिपद्यामहे ।
तस्माद्ब्रह्माप्येतीत्युपचारमात्रमेतद्विपीरतग्रहवद्देहसंततेर्वि च्छेदमात्रं विज्ञानफलमपेक्ष्य ॥4,4.6॥
स्तर्त् ब्र्हुप् 4,4.7
तद् एष श्लोको भवति --
यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुत इति ।
तद् यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत ।
एवम् एवेदं शरीरं शेते ।
अथायम् अशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एव ।
सो ऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः
ब्र्हुप्भ्_4,4.7 स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः ।
संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता ।
यैश्चोपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति तानि चोक्तानि ।
तेषां साक्षात्प्रयोजकौ धर्माधर्वाविति पूर्वपक्षं कृत्वा काम एवेत्यवधारितम् ।
यथा च ब्रह्मणेनायमर्थो ऽयवधारित एवं मन्त्रेणापीति बन्धं बन्धकारणं चोक्त्वोपसंहृतं प्रकरणं"इति न कामयमान"इति ।
अथाकायमान इत्यारभ्य सुषुप्तदृष्टनातस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः ।
मोक्षकारणं चाऽत्मकामतया यदाप्तकामत्वमुक्तं तच्च सामर्थायदनात्मज्ञानमन्तरेणाऽत्मकामयतयाऽप्तकामत्वमिति सामर्थ्याद्ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् ।
अतो यद्यपि कामो मूलमित्युक्तं तथापि मोक्षकारणविपर्ययेण बन्धकारणमविद्येत्येदप्युक्तमेव भवति ।
अत्रापि मोक्षो मोक्षसाधनं च ब्राह्मणेनोक्तम् ।
तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः- तत्तस्मिन्नेवार्थ एष श्लोको मन्त्रो भवति ।
यदा यस्मिन्काले सर्वे समस्ताः कामास्तृष्णाप्रभेदाः प्रमुच्यन्ते ।
आत्मकाम्य ब्रह्मविदः समूलतो विशीर्यन्ते ।
ये प्रसिद्धा लोक इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणा अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिता आश्रिताः ।
अथ तदा मर्त्यो मरणधर्मा सन्कामवियोगात्समूलतो ऽमृतो भवति ।
अत्रास्मिन्नेव शरीरे वर्तमानो ब्रह्म समश्नुते ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः ।
अतो मोक्षो न देशान्तरगमनाद्यपेक्षते ।
तस्माद्विदुषो नोत्क्रामन्ति प्राणा यावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ।
नाममात्रं ह्यवशिष्यत इत्युक्तम् ।
कथं पुनः समनवीतेषु प्राणेषु देहे च स्वकारणे प्रलीने विद्वान्मुक्तो ऽत्रैवसर्वात्मा सन्वर्तमानः पुनः पूर्ववद्देहित्वं संसारित्वलक्षणं न प्रतिपद्यत इति ।
अत्रोच्यते-तत्तत्रायं दृष्टान्तो यथा लोके ऽहिः सर्पस्तस्य निर्ल्वयनी निर्मेकः साहिनिर्ल्वयनी वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः ।
मृता प्रत्यस्ता प्रक्षिप्तानात्मभावेन सर्पेण परित्यक्ता शयीत वर्ते ।
एवमेव यथायं दृष्टान्त इदं शरीरं सर्पस्थानीयेन मुक्तेनानात्मभावेन परित्यक्तं मृतमिव शेते ।
अथेतरः सर्पस्थानीयो मुक्तः सर्मातमभूतः सर्पवत्तत्रैव वर्तमानो ऽप्यशरीर एव न पूर्वव्तुपनः सशरीरो भवति ।
कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं शरीरो मर्त्यश्च ।
तद्वियोगादथेदानीमशरीरो ऽत एव चामृतः ।
प्राणः प्राणितीति प्राणः ।
प्राणस्य प्राणमिति हि वक्ष्यमाणे श्लोके ।
"प्राणबन्धनं हि सोम्य मनः"इति च श्रुत्यन्तरे ।
प्रकरणवाक्यसमार्थाच्च पर एवाऽत्मात्र प्राणशब्दवाच्यः ।
ब्रह्मैव परमात्मैव ।
किं पुनस्तत्तेज एव विज्ञानं ज्योतिर्येनाऽत्मज्योतिषा जगदवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत्सदविब्रंशद्वर्तते ।
यः कामप्रश्नो विमोक्षार्थो याज्ञवल्क्येन वरो दत्तो जनकाय सहेतुको बन्धमोक्षार्थलक्षणो दृष्टान्तिकभूतः स एष निर्णीतः सविस्तरो जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ।
संसारविमोक्षोपाय उक्तः प्राणिभ्यः ।
इदानीं श्रुतिः स्वयमेवाऽह विद्यानिष्क्रियार्थं जनकेनैवमुक्तमिति ।
कथं? सो ऽहमोवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रियार्थं सहस्रं ददामीति हैव किलोवाचोक्तवाञ्जनको वैदेहः ।
अत्र कस्म्दाविमोक्षपदार्थे निर्णीते विदेहराज्यमात्मानमेव च न निवेदयत्येकदेशोक्ताविव सहस्रमेव ददाति तत्र को ऽभिप्राय इति ।
अत्र केचिद्वर्णयन्ति-अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्तं पुनर्मन्त्रैः शुश्रूषति ।
अतो न सर्वमेव निवेदयति ।
श्रुत्वाभिप्रेतं याज्ञवल्क्यात्पुनरन्ते निवेदयिष्यामीति हि मन्यते ।
यदि चात्रैव सर्व निवेदयामि निवृत्ताभिलाषो ऽयं श्रवणादिति मत्वा श्लोकान्नवक्ष्यतीति च भयात्सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति ।
सर्वमप्येतदसत् ।
पुरुषस्येव प्रमाणभूतायाः श्रुतेर्व्याजानुपपत्तेः ।
अर्थशेषोपपत्तेश्च ।
विमोक्षपदार्थ उक्ते ऽप्यात्मज्ञानसाधन आत्मज्ञानशेषभूतः सर्वेषणापरित्यागः संन्यासाख्यो वक्तव्योर्ऽथशेषो विद्यते ।
तस्माच्छ्लोकमात्रशुश्रूषाकल्पनानृज्वो ।
अगतिका हि गतिः पुवरुक्तार्थकल्पना ।
सा चायुक्ता सत्यां गतौ ।
न च तत्स्तुतिमात्रमित्यवोचाम ।
नन्वेवं सत्यत ऊर्ध्वं विमोक्षायैवेति वक्तव्यम् ।
नैष दौषः आत्मज्ञानवदप्रयोजकः संन्यासः पक्षे प्रतिपत्तिकर्मवदिति हि मन्यते ।
"संन्यासेन तनुं त्यजेत्"इति स्मृतेः ।
साधुत्वापक्षे ऽपि नात ऊर्ध्वं विमोक्षायैवेति प्रश्नमर्हति मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥4,4.7॥
स्तर्त् ब्र्हुप् 4,4.8
तद् एते श्लोका भवन्ति --
अणुः पन्था विततः पुराणो मां स्पृष्टो ऽनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकम् इत ऊर्ध्वं विमुक्ताः
ब्र्हुप्भ्_4,4.8 आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्रह्मणोक्ते विस्तरप्रतिपादका एते श्लोका भवनाति ।
अणुः सूक्ष्मः पन्था दुर्विज्ञेयत्वाद्विततो विस्तीर्णो विस्पष्टतरणहेतुत्वाद्वा वितर इति पाठान्तरान्मोक्षसाधनो ज्ञानमार्गः पुराणश्चिरन्तनो नित्यश्रुतिप्रकाशितत्वान्न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवदर्वाक्कालिको मा स्पृष्टो मया लब्ध इत्यर्थः ।
यो हि येन लभ्यते स तं स्पृशतीव संबध्यते तेनायः ब्रह्मविद्यालक्षणो मोक्षमार्गो मया लब्धत्वान्मा स्पृष्ट इत्युच्यते ।
न केवलं मया लब्धः किन्त्वनुवित्तो मयैव ।
अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः ।
भुजेरिव तृप्त्यवसानता ।
पूर्वं तु ज्ञानप्राप्तिसंबन्धमात्रमेवेति विशेषः ।
किमसावेन मन्त्रदृगेको ब्रह्मविद्याफलं प्राप्तो नान्यः प्राप्तवान्येनानुवित्तो मयावेत्यवधारयति ।
नैष दोषः ।
अस्याः फलमात्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात् ।
एवं हि कृतार्थात्माभिमानकरमात्मप्रत्ययसाक्षिकमात्मज्ञानं किमतः परमन्यत्स्यादिति ब्रह्मविद्या स्तौति ।
न तु पुरन्यो ब्रह्मवित्तत्फलं न प्राप्नोतीति ।
"तद्यो यो देवानाम्"इति सर्वार्थश्रुतेः ।
तदेवाऽह-तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तो ऽन्ये ऽपि ब्रह्मविद इत्यर्थः ।
अपियन्त्पिगच्छन्ति ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम् स्वर्गलोकशब्दविष्टपवाच्यमपि सन्निह प्रकरणान्मोक्षाभिधायकः ।
इतो ऽस्माच्छरीरपातादूर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥4,4.8॥
स्तर्त् ब्र्हुप् 4,4.9
तस्मिञ् शुक्लम् उत नीलम् आहुः पिङ्गलं हरितं लोहितं च ।
एष पन्था ब्रह्मणा हानुवित्तस् तेनैति ब्रह्मवित् पुण्यकृत् तैजसश् च
ब्र्हुप्भ्_4,4.9 तस्मिन्मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ।
कथम् ।
तस्मिञ्शुक्लं शुद्धं विमलमाहुः केचिन्मुमुक्षवो नीलमन्ये पिङ्गलमन्ये हरितं लोहितं च यथादर्शनम् ।
नाढ्यस्त्वेताः सुषुम्नाद्याः श्लेष्मादिरसंसंपूर्णाः शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् ।
आदित्यं वा मोक्षमार्गमेवंविधं मन्यन्ते ।
"एष शुक्ल एष नीलः"इत्यादिश्रुत्यन्तारात् ।
दर्शनमार्गस्य शुक्लादिवर्णासंभवात् ।
सर्वथापि तु प्रकृताद्ब्रह्मविद्यामार्गादन्य एते शुक्लादयः ।
ननु शुक्लः शुद्धो ऽध्वतैयमार्गः ।
नः नीलपूतादिशब्दैर्वर्णवाचकैः सहानुद्रवणात् ।
याञ्शुक्लादीन्योगिनो मोक्षपथानाहुर्न ते मोक्षमार्गाः संसारविषया वे हि ते ।
चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्य इति शरीदेशान्निःसरणसंबन्धात् ।
ब्रह्मादिलोकप्रापकाहि ते ।
तस्मादयमेव मोक्षमार्गो य आत्कामत्वेनाऽप्तकामतया सर्वकामक्षे गमनानुपपत्तौ प्रदीपनिर्वाणवच्चक्षुरादीनां कार्यकरणानामत्रैव समवनय इत्येष ज्ञानमार्गः पन्था ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैशणेननानुवित्तः ।
तेन ब्रह्मविद्यामार्गेण ब्रह्मविदन्यो ऽप्येति ।
कीदृशो ब्रह्मवित्तेनैतीत्युच्यते-पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तुपुत्राद्येषणः परात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तस्तैजमसश्चाऽत्मभूत इहैवेत्यर्थः ।
ईदृशो ब्रह्मवित्तेन मार्गेणैति ।
न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणं विरोधादित्यवोचाम ।
"अपुण्यपुण्योपरमे यं पुनर्भवनिर्भाः ।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥
इति च स्मृतेः ।
त्यज धर्ममध्रमं च"इत्यादिपुण्यापुण्यत्यागोपदेशात् ।
"निराशिषमनारम्भं निर्नमस्कारमस्तुतुम् ।
अक्षोणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः" ॥
"नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्तोपरमः क्रियाभ्यः" ॥
इत्यादिस्मृतिभ्यश्च ।
उपदेक्ष्यति चेहापि तु"एष नित्यो महिमा ब्रह्मणस्य न वर्धते कर्मणा नो कनीयान्"इति कर्मप्रयोजनाभावे हेतुमुक्तवा"तस्मादेवविच्छान्तो दान्त"इत्यादिना सर्वक्रियोपरमम् ।
तस्माद्यथाव्याख्यातमेव पुण्यकृत्वम् ।
अथवा यो ब्रह्मवित्तेनैति स पुण्यकृतैजसश्चेति ब्रह्मवित्सुतिरेषा ।
पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके ताभ्यामतो ब्रह्मवित्सतूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥4,4.9॥
स्तर्त् ब्र्हुप् 4,4.10
अन्धं तमः प्रविशन्ति ये ऽविद्याम् उपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः
ब्र्हुप्भ्_4,4.10 अन्धमदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते ।
के ।
ये ऽविद्यां विद्यातो ऽन्यां साध्यसाधनलक्षणमुपासते कर्मानुवर्तन्त इत्यर्थः ।
ततस्तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति ।
के ।
य उ विद्यायामविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायां रता अभिरताः विधिप्रतिषेधपर एव वेदो नान्यो ऽस्तीत्युपनिषदर्थानपेक्षिण इत्यर्थः ॥4,4.10॥
स्तर्त् ब्र्हुप् 4,4.11
अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस् ते प्रेत्याभिगच्छत्य् अविद्वांसो ऽबुधा जनाः
ब्र्हुप्भ्_4,4.11 यदि ते ऽदर्शनलक्षणं तमः प्रविसन्ति को दोष इत्युच्यते-अनन्दा अनानन्दा असुखा नाम ते लोकास्तेनान्धेनादर्शनलक्षणेन तमसाऽवृता व्याप्तास्ते तस्याज्ञानतमसो गोचरास्तांस्ते प्रेत्य मृत्वाभिगच्छन्त्यभियान्ति ।
के ।
ये ऽविद्वांसः ।
किं सामान्येनाविद्वत्तामात्रेण नेत्युच्यते-अबुधः ।
बुधेरवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् ।
आत्मावगमवर्जिता इत्यर्थः ।
जनाः प्रकृता एव ।
जननधर्मिणो वेत्येतत् ॥4,4.11॥
स्तर्त् ब्र्हुप् 4,4.12
आत्मानं चेद् विजानीयाद् अयम् अस्मीति पुरुषः ।
किम् इच्छन् कस्य कामाय शरीरम् अनु संज्वरेत्
ब्र्हुप्भ्_4,4.12 आत्मानं स्वं परं रूपं सर्वप्राणिमनीषितज्ञं हृत्स्थमशनायादिधर्मातीतं चोद्यदि विजानीयात्सहस्रेषु कश्चित् ।
चेदित्यात्मविद्याया दुर्लभत्वं दर्शयति ।
कथमयं पर आत्मा सर्वप्राणिप्रत्ययसाक्षी यो नेति नेतीत्याद्युक्तो यस्मान्नान्यो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावो ऽस्मि भवामीति पूरुषः पुरुषः ।
स किमिच्छंस्तत्सवरूपव्यतिरिक्तमन्यदस्तु फलभूतं किमिच्छन्कस्य वान्यस्याऽत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ।
न हि तस्याऽत्मन एष्टव्यं फलम् ।
न चात्मनो ऽन्योस्ति यस्य कामायेच्छति सर्वस्यात्मभूतत्वात् ।
अतः किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेद्भ्रंशेत् ।
शरीरोपाधिकृतदुःखमनुदुःखी स्यात् ।
शरीरतापमनुतप्येत ।
अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्तवन्तरेप्सोः ममेदं स्यात्पुत्रस्येदं भार्याया इदमित्येवमीहमानः पुनः पुनर्जननमरणप्रबन्धरूढः ।
शरीररोगमनु रुज्यते सर्वात्मदर्शिनस्तु तदसंभव इत्येतदाह ॥4,4.12॥
स्तर्त् ब्र्हुप् 4,4.13
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः ।
स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव
ब्र्हुप्भ्_4,4.13 किञ्च यस्य ब्राह्मणस्यानुवित्तो ऽनुलब्धः प्रतिबुद्धःसाक्षात्कृतः कथम्? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगत आत्मा अस्मिन्संदह्ये संदेहे ऽनेकानर्थसंकटोपचये गहने विषमे ऽनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे प्रविष्टः स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ।
स विश्वकृद्विश्वस्य कर्ता ।
कथं विश्वकृत्तवं तस्य? किं विश्वकृदिति नामेत्याशङ्क्याऽह - स हि यस्मात्सर्वस्य कर्ता न नाममात्रं न केवलं विश्वकृत्परप्रयुक्तः सन् ।
किं तर्हि तस्य लोकः सर्वः ।
किमन्या लोको ऽन्यो ऽसावित्युच्यते - स उ लोक एव ।
लोकशब्देनाऽत्मोच्यते ।
तस्य सर्व आत्मा स च सर्वस्या ।
ञऽत्मेत्यर्थः ।
य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतयानुवित्त आत्मानर्थसंकटे गहने प्रविष्टः स न संसारी किन्तु पर एव ।
यस्माद्विश्वस्य कर्ता सर्वस्याऽत्मा तस्य च सर्व आत्मा ।
एक एवाद्वितीयः पर एवास्मीत्यनुसंधातव्य इति श्लोकार्थः ॥4,4.13॥
स्तर्त् ब्र्हुप् 4,4.14
इहैव सन्तो ऽथ विद्मस् तद् वयं न चेद् अवेदिर् महती विनष्टिः ।
ये तद् विदुर् अमृतास् ते भवन्त्य् अथेतरे दुःखम् एवापियन्ति
ब्र्हुप्भ्_4,4.14 किञ्चेहैवालेकार्थसंकुले सन्तो भवन्तोज्ञानदीर्घनिद्रामोहिताः सन्तः कथञ्चिदिव ब्रह्मतत्त्वमात्मत्वेनाथ विद्मो विजानीमः ।
तदेतद्ब्रह्म प्रकृतमहो वयं कृतार्था इत्यभिप्रायः ।
यदेतद्ब्रह्म विजानीमस्तन्न चेद्विदितवन्तो वयं वेदनं वेदो वेदो ऽस्यास्तीति वेदी वेद्येव वेदिर्न वेदिरवेदिः ।
ततो ऽहमवेदिः स्याम् ।
यद्यवेदिः स्यां को दोषः स्यान्महत्यनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिर्विनशनम् ।
अहो वयमस्मान्महतो विनशनान्निर्मुक्ता यदद्वयं ब्रह्म विदितवन्त इत्यर्थः ।
यथा च वयं ब्रह्म विदित्वास्माद्विनशनाद्विप्रमुक्ता एवंये तद्विदुरमृतास्ते भवन्ति ये पुनर्नैव ब्रह्म विदुस्त इतरे ब्रह्मविद्भ्यो ऽन्ये ऽब्रह्मविद इत्यर्थः ।
दुःखमेव जन्ममरणादिलक्षणमेवापियन्ति प्रतिपद्यन्ते न कदाचिदप्यविदुषां ततो विनिवृत्तिरित्यर्थः ।
दुःखमेव हि त आत्मत्वेनोपगच्छन्ति ॥4,4.14॥
स्तर्त् ब्र्हुप् 4,4.15
यदैतम् अनुपश्यत्य् अत्मानं देवम् अङ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते
ब्र्हुप्भ्_4,4.15 यदा पुनरेतमात्मानं कथञ्चित्परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रयादः सन्ननु पश्चात्पश्यति साक्षात्करोति स्वमात्मानं देवं द्योतनवन्तं दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपमञ्जसा साक्षादीशानं सावामिनं भूतभव्यस्य कालत्रयस्येत्येतत् ।
न ततस्तस्मादीशानाद्देवादात्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति ।
सर्वो हि लेक ईश्वराद्गुप्तमिच्छति भेदेर्शी ।
अयं त्वेकत्वदर्शी न बिभेति कुतश्चन ।
अतो न तदा विजुगुप्सते ।
यदेशानं देवमञ्जसाऽत्मत्वेन पश्यति न तदा निन्दति वा किञ्चित् ।
सर्वमात्मानं हि पश्यति स एवंपश्यन्कमसौ निन्द्यात् ॥4,4.15॥
स्तर्त् ब्र्हुप् 4,4.16
यस्माद् अर्वाक् संवत्सरो ऽहोभिः परिवर्तते ।
तद् देवा ज्योतिषां ज्योतिर् आयुर् होपासते ऽमृतम्
ब्र्हुप्भ्_4,4.16 किञ्च यस्मादीशानादर्वाग्यस्मादन्यविषय एवेत्यर्थः ।
संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता यमपरिच्छिन्दन्नर्वागेव वर्तते ऽहोभिः स्वावयवैरहोरात्रैरित्यर्थः ।
तज्ज्योतिषां ज्योतिरादित्यादिज्योतिषामप्यवभासकत्वादायुरित्युपासने तस्मादायुष्मन्तस्ते ।
तस्मादायुष्कामेनाऽयुर्गुणेनोपास्यं ब्रह्मेत्यर्थः ॥4,4.16॥
स्तर्त् ब्र्हुप् 4,4.17
यस्मिन् पञ्च पञ्चजना आकाशश् च प्रतिष्ठितः ।
तम् एव मन्य आत्मानं विद्वान् ब्रह्मामृतो ऽमृतम्
ब्र्हुप्भ्_4,4.17 किञ्च यस्मिन्यत्र ब्रह्मणि पञ्च पञ्चजना गन्धर्वादयः पञ्चैव संख्याता गन्धर्वाः पितरो देवा असुरा रक्षांसि निषादपञ्चमा वा वर्णा आकाशश्चाव्याकृताख्यो यस्मिन्सूत्रमिमोतं च प्रोतं च ।
यस्मिन्प्रतिष्ठित एतस्मिन्नु खल्वक्षरे गार्ग्याकाश इत्युक्तं तमेवाऽत्मानममृतं ब्रह्म मन्ये ऽहं न चाहमात्मानं ततो ऽन्यत्वेन जाने ।
किं तर्ह्यमृतो ऽहं ब्रह्म विद्वान्सन्नज्ञानमात्रेण तु मर्त्यो ऽहमासं तदपगमाद्विद्वानहममृत एव ॥4,4.17॥
स्तर्त् ब्र्हुप् 4,4.18
प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् मनसो ये मनो विदुः ।
ते निचिक्युर् ब्रह्म पुराणम् अग्र्यम्
ब्र्हुप्भ्_4,4.18 किञ्च तेन हि चैतन्यात्मज्योतिषावभास्यमानः प्राण आत्मभूतेन प्राणीति तेन प्राणस्यापि प्राणः स तं प्राणस्य प्राणम् ।
तथा चक्षुषो ऽपि चक्षुरुत श्रौत्रस्यापि श्रोत्रम् ।
ब्रह्ममशक्त्योधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यं स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि ।
मनसो ऽपि मन इति ये विदुश्चक्षुरदाव्यापारानुमितास्तिवं प्रत्यागात्मानं न विषयभूतं ये विदुस्ते निचिक्युर्निश्चयेन ज्ञातवन्तो ब्रह्म पुराणं चिरन्तनमग्र्यमग्रे भवम् ।
"तद्यदात्मविदो विदुः"इति ह्याथर्वणे ॥4,4.18॥
स्तर्त् ब्र्हुप् 4,4.19
मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन ।
मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति
ब्र्हुप्भ्_4,4.19 तद्ब्रह्मदर्शने साधनमुच्यते मनसैव परमार्थज्ञानसंसकृतेनाऽचार्योवदेशापूर्वकं चानुद्रष्टव्यम् ।
तत्र च दर्शनविषये ब्रह्मणि नेह नानास्ति किञ्चन किञ्चिदपु ।
असति नानात्वे नानात्वमध्यारोपयत्यविद्यया ।
स मृत्योर्मरणान् मृत्युं मरणमाप्नोति ।
को ऽसौ ।
य इह नानेव पश्यति ।
अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥4,4.19॥
स्तर्त् ब्र्हुप् 4,4.20
एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् ।
विरजः पर आकाशाद् अज आत्मा महान् ध्रुवः
ब्र्हुप्भ्_4,4.20 यस्मादेवं तस्मादेधैवैकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेणाऽकाशवन्निरन्तरेणानुद्रष्टव्यम् ।
यस्मादेतद्ब्रह्माप्रमेयम् ।
सर्वैकत्वात् ।
अन्येन ह्यन्यत्प्रमीयत इदं त्वेकमेवातो ऽप्रमेयम् ध्रुवं नित्यं कूटस्थमविचालीत्यर्थः ।
ननु विरुद्धमिदमुच्यते ऽप्रमेयं ज्ञायत इति च ।
ज्ञायत इति प्रमाणैर्मीयत ।
इत्यर्थो ऽप्रमेयमिति च तत्प्रतिषेधः ।
नैष दोषः ।
अन्यदवस्तुवदनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ।
यथाऽन्यानि वस्तून्यागमनिरपेक्षैः प्रमाणैर्विषयीक्रियन्ते न तथैतदात्मतत्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते ।
सर्वस्याऽमत्वे केन कं पश्येद्विजीनायदिति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैवाऽगमो ऽपि विज्ञापयति न त्वभिधानाभिधेलक्षणवाक्यधर्माङ्गीकरणेन ।
तस्मान्नाऽगमनापि स्वर्गमेर्वादिवत्तत्प्रतिपाद्यते ।
प्रतिपादयित्रात्मभूतं हि तत् ।
प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् ।
भेदे हि सति तद्भवति ।
ज्ञानं च तस्मिन्परात्भावनिवृत्तिरेव ।
न तस्मिन्साक्षादात्मभावः कर्तव्ये विद्यमान्वादात्मभवस्य ।
नित्यो ह्यात्मभावः सर्वस्यातद्विषय इव प्रत्यवभसते ।
तस्मादतद्विषयावभासनिवृत्तव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ।
अन्यात्भावनिवृत्तावात्मभावः स्वात्मनि स्वाभाविको यः स केवलो भवतीत्यात्मा ज्ञायत इत्युच्यते ।
स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युच्चयते ।
स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युभयमप्यविरुद्धमेव ।
विरजो विगतरजो रजो नाम धर्माधर्मादिमलं तद्रहित इत्येतत् ।
परः परो व्यतिरिक्तः सूक्ष्मो व्यापी वाऽकाशादप्यव्याकृताख्यात् ।
अजो न जायते जन्मप्रतिषेधादुत्तरे ऽपि भावविकाराः प्रतिषिद्धाः ।
सर्वेषां जन्मादित्वात् ।
आत्मा महान्परिमाणतो महतत्रः सर्वस्मात् ।
ध्रुवो ऽविनाशी ॥4,4.20॥
स्तर्त् ब्र्हुप् 4,4.21
तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद् बहूञ् छब्दान् वाचो विग्लापनं हि तद् इति
ब्र्हुप्भ्_4,4.21 तमीदृशमात्मानमेव धीरो धामान्विज्ञायोपदेशतः शास्त्रतश्च प्रज्ञां शास्त्राचार्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीं कुर्वीत ब्राह्मणः ।
एवं प्रज्ञाकरणसाधनानि संन्यासशमदमोपरमतितिक्षासमाधानानि कुर्यीदित्यर्थः ।
नानुध्यायान्नानुचिन्तयेद्बहून्प्रभूताञ्छब्दान् ।
तत्र बहुत्वप्रतिषेधात्केवलात्मकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते"ओमित्येवं ध्यायथ आत्मानम् अन्या वाचो विमिञ्चथ"इति चाऽथर्वणे ।
वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरं हि यस्मात्तद्बहुशब्दाभिध्यानमिति ॥4,4.21॥
स्तर्त् ब्र्हुप् 4,4.22
स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु ।
य एषो ऽन्तर् हृदय आकाशस् तस्मिञ् छेते ।
सर्वस्य वशी ।
सर्वस्येशानः ।
सर्वस्याधिपतिः ।
स न साधुना कर्मणा भूयान् ।
नो एवासाधुना कनीयान् ।
एष सर्वेश्वरः ।
एष भूताधिपतिः ।
एष भूतपालः ।
एष सेतुर् विधरण एषां लोकानाम् असंभेदाय ।
तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ।
एतम् एव विदित्वा मुनिर् भवति ।
एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति
ब्र्हुप्भ्_4,4.22 सहेतुकौ बन्धमोक्षावभिहितौ मन्त्रब्राह्मणभ्यां श्लोकैश्च पुनर्मोक्षस्वरूपं विस्तरेण प्रतिपादितमेवमेतस्मिन्नात्मविषये सर्वो वेदो यथोपयुक्तो भवति तत्तथा वक्तव्यमिति तदर्थेयं कण्डिकाऽरभ्यते ।
तच्च तथास्मिन्प्रपाठके ऽभिहितं सप्रयोजनमनूद्यात्रैवोपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्येत्येवमर्थं उक्तार्थानुवादः स वा एष इत्यादिः ।
स इत्युक्तपरामर्शार्थः ।
को ऽसावुक्तः परामृश्यते तं प्रति निर्दिशति य एष विज्ञानमय इति ।
अतीन्तरवाक्योक्तसंप्रत्ययो मा भूदिति य एषः ।
कतम एष इत्युच्यते-विज्ञानमयः प्राणेष्विति ।
उत्तरवाक्योल्लिङ्गनं संशयनिवृत्यर्थम् ।
उक्तं हि पूर्वं जनकप्रश्नारम्भे कतं आत्मेति यो ऽयं विज्ञानमयः प्राणेष्वित्यादि ।
एतदुक्तं भवति यो ऽयं विज्ञानमयः प्राणेष्वित्यादिना वाक्येन प्रतिपादितः स्वयञ्ज्योतिरात्मा स एष कामकर्माविद्यानामनात्मधर्मत्वप्रतिदापादनद्वारेण मोक्षितः परमात्मभावमापादितः पर एवायं नान्य इत्येष स साक्षान्महानज आत्मेत्युक्तः ।
यो ऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव ।
य एषो ऽन्तर्हृदये हृदयेपुण्डरीकमध्ये हृदयपुण्डरीकमध्ये य एष आकाशः पर एवाऽत्मा निरुपाधिको विज्ञानमयस्य स्वस्वभास्तस्मिन्स्वस्वभावे परमात्मन्याकाशाख्ये सेते ।
चतुर्थं एतद्व्याख्यातं क्वैष तदाभूदित्यस्य प्रतिवचनत्वेन ।
स च सर्वस्य ब्रह्मेन्द्रादेर्वशी ।
सर्वो ह्यस्य वशे वर्तते ।
उक्तं चैतस्य वा अक्षरस्य प्रशासन इति ।
न केवलं वशी सर्वस्येशान ईशिता च ब्र्हमेन्द्रप्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतं यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति तद्वन्मा भूदित्याह सर्वस्याधिपतिरधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः ।
न राजपुत्रवदमात्यादिभृत्यतन्त्रः ।
त्रयमप्येतद्वशित्वादिहेतुहेतुमद्रूपम् ।
यस्मात्सर्वस्याधिपतिस्ततो ऽसौ सर्वस्येशानः ।
यो हि यमधिष्टाय पालयति स तं प्रतीष्ट एवेति प्रसिद्धम् ।
यस्माच्च सर्वस्येशानस्तस्मात्सर्वस्य वशीति ।
किचान्यत्स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति न वर्धते पूर्वावस्थातः केनचिद्धर्मेण ।
नो एव शास्त्रप्रिषिद्धेनासाधुना कर्मणा कनीयानल्पतरो भवति पूर्वावस्थातो न हीयत इत्यर्थः ।
किञ्च सर्वो ह्यधिष्ठानपालनादि कुर्वन्परानुग्रहपीडाकृतेन धर्माधर्माख्योन युज्यते ऽस्यैव तु कथं तदभाव इति ।
उच्यते-यस्मादेष सर्वेश्वरः सन्कर्मणो ऽपीशितुं भवत्येव शीलमस्य तस्मान्न कर्मणा संबन्ध्यते ।
किञ्चाष भूताधिपतिर्ब्रह्मादिस्तम्भपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् ।
एष भूतानां तेषामेव पालयिता रक्षिता ।
एष सेतुः ।
किंविशिष्ट इत्याह- विधरणो वर्णाश्रमादिव्यवस्थाया विधारयिता ।
तदाहैषां भूरादीना ब्रह्मलोकान्तानां लोकानामसंभेदायासंभिन्नमर्यादायै ।
परमेश्वरेण सेतुवदविधार्यमाणा लोकाः संभिन्नमर्यादाः स्युः ।
अतो लोकानामसंभेदाय सेतुभूतो ऽयं परमेश्वरो यः स्वयञ्ज्योरात्मैव ।
एवंवित्सर्वस्य वशीत्यादि ब्रह्मविद्यायाः फलमेतन्निर्द्दिष्मटम् ।
किज्येतिरियंपुरुष इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायामेवंफलायां काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन वनियुज्यते ।
तत्कथमित्युच्यते-तमेतमेवभूतमौपनिषदं पुरुषं वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन विविदिषन्ति वेदितुमिच्छन्ति ।
के ।
ब्राह्मणाः ।
ब्राह्मणग्रहणमुपलक्षणार्थम् ।
अविशिष्टो ह्यधिकारस्त्रयाणां वर्णानाम् ।
अथवा कर्मकाण्डेन मन्त्रहब्राह्मणेन वेदानुवचनेन विविजिषन्ति ।
कथं विविदिषन्तीत्युच्यते-यज्ञेनेत्यादि ।
य पुनर्मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदषन्तीति व्याचक्षते तेषामारण्यकमात्रमेव वेदानुवचनं स्यात् ।
न हि कर्मकाणेन पर आत्मा प्रकाश्यते ।
तो त्वैपनिषदमिति विशेषश्रुतेः ।
वेदानुवचनेनेति चाविशेषितत्वात्समस्तग्राहिदं वचनम् ।
न च तदेकदेशोत्सर्हे युक्तः ।
ननु त्वत्पक्षे ऽप्युपनिषद्वर्जमित्येकदेशत्वं स्यात् ।
नाऽद्यव्याख्याने ऽविरोधादस्मत्पक्षे नैष दोषो भवति ।
यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते तदोपनिषदपु गृहीतैवेति वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति ।
यज्ञादिसहपाठाच्च ।
यज्ञादीनि कर्माण्येवानुक्रमिष्यन्वेदानुवचनशब्दं प्रयुङ्क्ते ।
तस्मात्क्रमैव वेदानुवचनशब्देनोच्यत इति गम्यते ।
कर्म हि नित्यस्वाध्यायः ।
कथं पुनर्नित्यस्वाध्यायादिभिः कर्मभिरात्मानं विविदषन्ति ।
नैव हि तान्यात्मानं प्रकाशनयन्त यथोपनिषदः ।
नैष दोधः-कर्मणां विशुद्धिहेतुत्वात् ।
कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्त्यात्मानमुपनिषत्प्रकाशितमप्रतिबन्धेन वेदितुम् ।
तथा ह्याथर्वणे-"विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः"इति स्मृतिश्च-"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः"इत्यादिः ।
कथं पुनर्नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते"स ह वा आत्मयाजी यो वेदेदं मे ऽनेनाङ्गं संस्क्रियत इदं मे ऽनेनाङ्गमुपधीयते"इत्यादिश्रुतेः ।
सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येवाऽचक्षते ऽष्टाचत्वारिंशत्संस्कारा इत्यादिषु ।
गीतासु च-"यज्ञो दैन तपश्चैव पावनानि मनीषिणाम् ।
सर्वे ऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः" ॥
इति ।
यज्ञेनेति द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः ।
संस्कृतस्य च विशुद्धसत्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यत्यतो यज्ञेन विविदिष्टि ।
दानेन दानमपि पापक्षयहेतुत्वाद्धर्मवृद्धिहेतुत्वाच्च ।
तपसा तप इत्यविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणमनाशकेनेति ।
कामानशनमनाशकं न तु भोजननिवृत्तिः भोजननिवृत्तौ म्रियत एव नाऽत्मवेदनम् ।
वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्मोपलक्ष्यते ।
एवं काम्यवर्जितं नित्यं कर्मजातं सर्वमात्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रितपद्यते ।
एवं कर्मकाण्डेनास्यैकवाक्यतावगतिः ।
एवं यथोक्तेन न्यायेनैतमेवाऽत्मानं विदित्वा यथाप्रकाशितं मुनिर्भवति मननान्मुनिर्योगी भवतीत्यर्थ ।
एतमेव विदित्वा मुनिर्भवति नान्यम् ।
नन्वन्यवेदने ऽपि मुनित्वं स्यात्कथमवधार्यत एतमेवेति ।
बाढमन्यवेदने ऽपि मुनिर्भवेत् ।
कित्वन्यवेदने न मुनिरेव स्यात्किं तर्हि कर्म्यपि भवेत्सः ।
एतं त्वौपनिषदं पुरुषं विदित्वा मुनिरेव स्यान्न तु कर्मी ।
अतो ऽसाधारणं मुनित्वं विवक्षितमस्येत्यवधारयत्येतमेवेति ।
एतस्मिन्हि विदिते केन कं पश्येदित्येवं क्रियासम्भवान्मननमेव स्यात् ।
किञ्चैचमेवाऽत्मानं स्वं लोकमिच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रडन्ति प्रकर्षेण व्रजन्ति सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः ।
एतमेव लोकमिच्छन्त इत्यवधारणान्न बाह्यलोकत्रयेप्सूनां पारिव्राज्योधिकार इति गम्यते ।
न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति ।
तस्माद्बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् ।
"पुत्रेणायं लोको जय्यो नान्येन कर्मणा" इत्यादिश्रुतेः ।
अथस्तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय न पारिव्राज्यं प्रतिपत्तुं युक्तम् ।
अतत्साधनत्वात्पारिव्राज्यस्य ।
तस्मादेतमेव लोकमिच्छन्तः प्रव्रजन्तीति युक्तमवधारणम् ।
आत्मलोकप्राप्तिर्ह्यविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव ।
तस्मादात्मानं चेल्लोकमिच्छचि यस्तस्य सर्वक्रियोपरम एवाऽत्मवलोकसाधनं मुख्यमन्तरङ्गम् ।
यथा पुत्रादिरेव बाह्यलोकत्रयस्य ।
पुत्रादिकर्मणः आत्मलोकं प्रत्यसाधनत्वात् ।
असम्भवेन विरुद्धत्वमवोचाम ।
तस्मादात्मानं लोकमिच्छन्तः प्र्व्रजन्त्येव सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः ।
यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहतान्येवमात्मलोकार्थनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव ।
कुतः पुनस्त आत्मलोकार्थनः प्रव्रडन्त्येवेत्युच्यते ।
तत्रार्थवादवाक्यरूपेण होतुं दर्शयतु ।
एतद्ध स्म वै तत् ।
तदेतत्पारिव्राज्ये कारणमुच्यते- ह स्म वै किल पूर्वेतिक्रान्तकालीना विद्वांस आत्मज्ञाः प्रजां कर्मापरब्रह्मविद्या च ।
प्रजोपलभितं हि त्रयमेतद्बाह्यलोकत्रयसाधनं निर्दिश्यते प्रजामिति ।
प्रजां किं? न कामयन्ते पुत्रादिलोकत्रयसाधनं नानुतिष्ठन्तीत्यर्थः ।
नन्वपरब्रह्मदर्शमनुतिष्ठन्त्येव ।
तद्बलाद्धि व्युत्थानम् ।
न, अपवादात् ।
ब्रह्म तं परादाद्यो ऽन्यत्राऽत्मनो ब्रह्म वेद सर्वं तं परादादित्यपरब्रह्मदर्शमप्यपवदत्येव ।
अपरब्रह्मणो ऽपि सर्वमध्यान्तरर्भावात् ।
यत्र नान्यत्पश्यतीति च ।
पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्चापूर्वमनपरमनन्तरमबाह्यमिति ।
तत्केन कं पश्येद्विजीनायीदिति च ।
तस्मान्नाऽत्मदर्शनव्यतिरेकेणान्यद्व्युत्थानकारणमपेक्षते ।
कः पुनस्तेषामभिप्राय इत्युच्यते किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन ।
प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता ।
स च बाह्यलोको नास्त्यस्माकमात्मव्यतिरिक्तः ।
सर्वं ह्यस्माकमात्मभूतमेव सर्वस्य च वयमात्मभूताः ।
आत्मा च नाऽत्मत्वादेव न केनचित्साधनेनोत्पाद्य आप्यो विकार्यः संस्कार्यो वा यदप्यात्मयाजिनः संस्कारार्थं कर्मेति तदपि कार्यकरणात्मदर्शनविषयमेव ।
इदं मे ऽनेनाङ्गं संस्क्रियत इत्यङ्गाङ्गित्वादिश्रवणात् ।
न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनो ऽङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति ।
तस्मान्न किञ्चित्प्रडादिसाधनैः करिष्यामः ।
अविदुषां हि तत्प्रदाजिसाधनैः कर्व्यं फलम् ।
न हि मृगतृष्णिकायामुदकपानां तदुदकदर्शी प्रवृत्त इति तत्रोषरमात्रमुदकाभावं पश्येतो ऽपि प्रवृत्तिर्युक्ता ।
एवमस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे ऽविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः ।
तदेतदुच्यते-येषामस्माकं परमार्थदर्शिनां नो ऽयमात्माशनायादिविनिर्मुक्तः साध्वसाधुब्यामविकार्यो ऽयं लोकः फलमभिप्रतम् ।
न चा.ऽस्याऽत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चिदेषितव्यम् ।
साध्यस्य हि साधनान्वेषणा क्रियते ।
असाध्यस्य साधनान्वेषणायां हि जलबुद्ध्या स्थल इव तरणं कृतं स्यात् ।
खे वा शाकुनपदान्वेषणम् ।
तस्मादेतमात्मानं विदित्वा प्र्व्जेयुरेव ब्राह्मणा न कर्माऽरभेरन्नित्यर्थः ।
यस्मात्पूर्वे ब्राह्ना एवं विद्वांसः प्रजामकामयमानाः ।
त एवं साध्यसाधनसंव्यवहारं निन्दन्तो ऽविद्वद्विषयो ऽयमिति कृत्वा किं कृतवन्त इत्युच्यते-ते ह स्म किल पुत्राषणायाश्च विस्तैषणायाश्च लोकाषणायाश्च व्युत्थायाथ भिक्षाचर्यं चनरन्तीत्यादि व्याख्यातम् ।
तस्मादात्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुरित्येषविधिरर्थवादेन संगच्छते ।
हि सार्थवादस्यास्य लोकस्तुत्याभिमुख्यमुपपद्यते ।
प्रव्रजन्तीत्यस्यार्थवादरूपो ह्येतद्ध स्मेत्यादिरुत्तरो ग्रन्थः ।
अर्थवादश्चेन्नार्थवादान्तरमपेक्षेत ।
अपेक्षते त्वेतद्ध स्मेत्याद्यर्थवादं प्रव्रजन्तीत्येतत् ।
यस्मात्पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्जितवन्त अव तस्मादधुनातना अपि प्रव्रजन्ति प्रव्जेयुरित्येवं सम्बध्यमानं न लोकस्तित्यभिमुखं भवितुमर्हति ।
विज्ञानसमानकर्तृकत्वोपदेशादित्यानावोचाम ।
वेदानुवचनादिसहपाठाच्च ।
यथाऽत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव नार्थवादत्वं तथा तैरेव सह पठितस्य पारिव्राज्यस्याऽत्मलोकप्राप्तिसाधनत्वेनार्थवादत्वमयुक्तम् ।
फलविभागोपदेशाच्च ।
एतमेवात्मानं लोकं विदित्वेत्यन्यस्माद्बाह्याल्लोकादात्मानं फलान्तरत्वेन प्रविभजति ।
यथा पुत्रैणैवायं लोको डय्यो नान्येन कर्मणा कर्मणा पितृलोक इति ।
न च प्रव्रजन्तीत्येतत्पार्पतल्लोकस्तुतिपरम् ।
प्रधानवच्चार्थवादापेक्षं सकृच्छ्रुतं स्यात् ।
तस्मादभ्रान्तिरेवैषा लोकस्तितिपरमिति ।
न चानुष्ठेयेन पारिव्राज्येन स्तुतुरुपपद्यते ।
दि पारिव्राज्यमनुष्ठेयमपि सदन्यस्तुत्यर्थं स्याद्दर्शपूर्णमासादीनामप्यनुष्ठायानां स्तुत्यर्थता स्यात् ।
न चान्यत्र कर्तव्यतैतस्माद्विषयार्ज्ञाता यत इह स्तुत्यर्थो भवेत् ।
यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य स इहैव मुख्यो नान्यत्र सम्भवति ।
यदप्यनधिकृतविषये पारिव्राज्यं परिकल्प्यते तत्र वृक्षाद्यारोहणाद्यपु पारिव्राज्यत्कल्प्येत ।
कर्तव्यत्वेनानिर्ज्ञातत्वाविशेषात् ।
तस्मात्स्तुतित्वगन्धो ऽऽप्यत्र न शक्यः कल्पयितुम् ।
यद्ययात्मा लोक इष्यते किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव नाऽभेरन्किं पारिव्राज्येनेति ।
अत्रोच्यते-अस्याऽत्मलोकस्य कर्मभिरसंबन्धात् ।
यमात्मानमिच्छन्तः प्रव्रजेयुः स आत्मा साधनत्वेन फलत्वेन चोत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापु कर्मभिर्न संबध्यते ।
तस्मात्स एष नेति नेत्यात्मागृह्यो न हि गृह्यत इत्यादिलक्षणः ।
यस्मादेवलक्षण आत्मा कर्मफलसाधनासंबन्धी सर्वसंसारधर्मविलक्षणो ऽशनायाद्यतीतो ऽस्थूलादिधर्मवानजो ऽजरो ऽमरो ऽमृतो ऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयञ्ज्योतिरेक एवाद्वयो ऽपूर्वो ऽनपरो ऽनन्तरो ऽबाह्य इत्यतदागमतस्तर्कतश्च स्थापितं विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे ऽस्मिंस्तस्मादेवंलक्षण आत्मनि विदित आत्मत्वेन नैव कर्मारम्भ उपपद्यते ।
तस्मादात्मा निर्विशेषः ।
न हि चक्षुष्मान्पथि प्रवृत्तो ऽहिनि कूपे कण्के वा पतति ।
कृत्स्नस्य च कर्मफलस्य विद्याफले ऽन्तर्भावात् ।
न चायत्नप्राप्ये वस्तुनि विद्वान्यत्नमातिष्ठति ।
"अङ्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत्" ॥
"सर्वं कर्माखिलं पार्थं ज्ञाने परसमाप्यते" ।
इति गीतामु ।
इहापि चैतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्यान्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् ।
अतो ब्रह्मविदा न कर्मारम्भः ।
यस्मात्सर्वैषणाविनिवृत्तः स एव नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते तस्मादेतमेवविदं नेति नेत्यात्मभूतमु हैवैते वक्ष्यमाणे न तरतो न प्राप्नुत इति युक्तमेवेति वाक्यशेषः ।
के ते इत्युच्यते- अतो ऽस्मान्निमित्ताच्छरीरधारणादिहेतोः पापमपुण्यं कर्माकरं कृतवानस्मि कष्टं खलु मम वृत्तमनेन पापेन कर्मणाहं नरकं प्रतिपत्स्य इति यो ऽयं पश्चात्पापं कर्म कृतवतः परितामपः स एनं नेति नेत्यात्मभूतं न तरति ।
यथातः कल्याणं फलविषयकामान्निमित्ताद्यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि ।
जतो ऽहमस्य फलंसुखमुपभोक्ष्य देहान्तर इत्येषो ऽपि हर्षस्तं न तरति ।
उभे उ हैवैष ब्रह्मविदेते कर्मणी तरति पुण्यपापलक्षणे ।
एवं ब्रह्मविदः संन्यासिन उभे अपि कर्मणो क्षीयते पूर्वजन्मनि कृते ये ते चापूर्वे च नाऽरभ्येते ।
किञ्च नैनं कृताकृते कृतं नित्यानुष्ठानमकृतं तस्यैवाक्रिया ते अपि कृताकृते एनं न तपतः ।
अनात्मज्ञं हि कृतं फलदानेनाकृतं प्रत्यवायोत्पादनेन तपतः ।
अयं तु ब्रह्मविदात्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति"यथेधांसि समिद्वो ऽग्निः" इत्यादिस्मृतेः ।
शरीरारम्भकयोस्तूपभोगेनैव क्षयः ।
अतो ब्रह्मविदकर्मसंबन्धी ॥4,4.22॥
स्तर्त् ब्र्हुप् 4,4.23
तद् एतद् ऋचाभ्युक्तम् --
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।
तस्माद् एवंविच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्यति ।
सर्वम् आत्मानं पश्यति ।
नैनं पाप्मा तरति ।
सर्वं पाप्मानं तरति ।
नैनं पाप्मा तपति ।
सर्वं पाप्मानं तपति ।
विपापो विरजो ऽविचिकित्सो ब्राह्मणो भवति ।
एष ब्रह्मलोकः सम्राट् ।
एनं प्रापितो ऽसीति होवाच याज्ञवल्क्यः ।
सो ऽहं भगवते विदेहान् ददामि माम् चापि सह दास्यायेति
ब्र्हुप्भ्_4,4.23 तदेतद्वस्तु ब्राङ्मणेनोक्तमृचा मन्त्रेणाभ्युक्तं प्रकाशितम् ।
एष नेति नेत्यादिलक्षणो नित्यो महिमा ।
अन्ये तु महिमानः कर्मकृता इत्यनित्याः ।
अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यो ब्रह्मविदो ब्राह्मणस्य त्यक्तसर्वेषणस्य ।
कुतो ऽस्य नित्यत्वमिति हेतुमाह- कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्विलक्षणां विक्रियां न प्राप्नेति ।
अशुभेन कर्मणा नो कनीयान्नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ।
उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इत्येताभ्यां प्रतिषिध्यन्ते ।
अतो ऽविक्रियत्वान्नित्य एष महिमा ।
तस्मात्तस्यैव महिम्नः स्याद्भवेत्पदवित्पदस्य वेत्ता पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदं तस्य पदस्य वेदिता ।
किं तत्पदवेदनेन स्यादित्युच्यते-तं विदित्वा महिमानं न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेनोभयमपि पापकमेव विदुषः ।
तस्मादेवमकर्मसंबन्ध्येष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणस्तस्मादेवंविच्छान्तो बाह्येन्द्रियव्यापारत उपशान्तस्तथा दान्तो ऽन्तः करणतृष्णातो निवृत्त उपरतः सर्वैषणाविनिर्मुक्तः संन्यासी तितिक्षुर्द्वन्द्वसहिष्णुः समाहित इन्द्रियान्तः करणाचलनरूपाद्व्यावृत्यैकाग्र्यरूपेण समाहितो भूत्वा ।
तदेतदुक्तं पुरस्ताद्बाल्यं च पाण्डित्यं च निर्विद्येति ।
आत्मन्येव स्वे कार्यकरणसंघात आत्मानं प्रत्यक्चेतयितारं पश्यति ।
तत्र किं तावन्मान्नं परिच्छिनं नेत्युच्यतेसर्वं समस्तमात्मानमेव पश्यति नान्यदात्मव्यतिरिक्तं वालाग्रमान्नमप्यस्तीत्येवं पश्यति ।
मननान्मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानन्नयं हित्वा ।
एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणस्तरति न प्राप्नेति ।
अयं तु ब्रह्मवित्सर्वं पाप्मानं तरत्यात्मभावेनैव व्याप्नोत्यतिक्रामति ।
नैनं पाप्मा कृताकृतलक्षणस्तपतीष्टफलप्रत्यवायोत्पादनाभ्याम् ।
सर्वं पाप्मानमयं तपति ब्रह्मवित्सर्वत्मदर्शनवह्रिना भस्मीकरोति ।
स एष एवंविद्विपायो विगतधर्माधर्मो बिरजो विगतरजो रजःकामो विगतकामो ऽविचिकित्सश्छिन्नसंशयो ऽहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिर्ब्राह्मणो भवति ।
अयं त्वेवंभूत अतस्यामवस्थायां मुख्यो ब्राह्मणः प्रागेतस्माद्ब्रह्मस्वरूपावस्थानाद्गौणमस्य ब्राह्मण्यम् ।
एष ब्रह्मलोको ब्रह्मैव लोको ब्रह्मलोको मुख्यो निरुपचरितः सर्वात्मभावलक्षणो हे स्मारट् ।
एनं ब्रह्मलोकं परिप्रापितो ऽस्यभयं नेति नेत्यादिलक्षणमिति होवाच याज्ञवल्क्यः ।
एवं ब्रह्मभूतो जनको याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह-सो ऽहं त्वया ब्रह्मभावमापादितः सन्भगवते तुभ्यं विदेहान्देशान्मम राज्य समस्तं ददामि मां च सह कर्तव्यताका ।
परिसमाप्तः परमपुरुषार्थः ।
एतावत्पुरुषेण कर्तव्यमेषा निष्ठैषा परा गतिरेतन्निःश्रेयसमेतत्प्राप्य कृतकृत्यो ब्राह्मणो भवत्येतत्सर्ववेदानुशासनमिति ॥4,4.23॥
स्तर्त् ब्र्हुप् 4,4.24
स वा एष महान् अज आत्मान्नादो वसुदानः ।
विन्दते वसु य एवं वेद
ब्र्हुप्भ्_4,4.24 यो ऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वा एष महानज आत्मान्नादः सर्वभूतस्थः सर्वान्नानामत्ता वसुदानो वसु धनं सर्वप्राणिकर्मफलं तस्य दाता प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ।
तमेकमजमन्नादं वसुदानमात्मानमन्नादवसुदानगुणाभ्यां युक्तं यो वेद स सर्वभूतेष्वात्मभूतो ऽन्नमत्ति विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेन य एवं यथोक्तं वेद ।
अथवा दृष्टफलार्थिभिरप्येवङ्गुण उपास्यः ।
तेनान्नादो वसोश्च लब्धा दृष्टेनैव फलेनान्नातृत्वेन गोश्चादिना चास्य योगो भवतीत्यर्थः ॥4,4.24॥
स्तर्त् ब्र्हुप् 4,4.25
स वा एष महान् अज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्म ।
अभयं वै ब्रह्म ।
अभयं हि वै ब्रह्म भवति य एवं वेद
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0