बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.5
ब्र्हुप्भ्_2,4.14
कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते ।
शृणु ।
यत्र यस्मिन्नविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि खिल्यभावे हि यस्मादद्द्वैतमिव पारमार्थतो ऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मन उपलक्ष्यते ।
ननु द्वैतेनोपमीयमानत्वाद्द्वैतस्य पारमार्थिकत्वमिति ।
न ।
ऽवाचाऽरम्भणं विकारो नामधेयमिऽति श्रुत्यन्तरा ऽदेकमेवाऽद्वितीयमात्मैवेदं सर्वामिति च ।
तत्तत्र यस्माद्द्वैतमिव तस्मादेवेतरो ऽसौ परमात्मनः खिल्यभूत आत्मापरमार्थश्चन्द्रोदेरिवोदकचन्द्रादिप्रतिबिम्ब इतरो घ्रातेतरेण ध्राणेनेतरं घ्रातव्यं जिघ्रति ।
इतर इतरमिति कारकप्रदर्शनार्थं जिघ्रतीति क्रियाफलयोरभिधानम् ।
यथा छिन्त्तीति यथोद्यम्योद्यम्य निपातनं छेदस्य च द्वैधीभाव उभयं छिनत्तीत्येकेनैव शब्देनाभिधीयते क्रियावसानत्वात्क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात् ।
इतरो घ्राणेतरेण घ्राणेनेतरं घ्रतव्यं जिघ्रति तथा सर्वं पूर्ववद्विजानाति ।
इयमविद्यावदवस्था ।
यत्र तु ब्रह्मविद्ययाविद्या नाशमुपगमिता तत्राऽत्मव्यतिरेकेणान्यस्याभावः ।
यत्र वा अस्य ब्रह्मविदः सर्वं नामरूपाद्यात्मन्येव प्रविलापितमात्मैव संवृत्तं यत्रैवमात्मैवाभूत्तत्र केन करणेन कं ध्रातव्यं को जिघ्रेत्तथा पश्योद्विजानीयात् ।
सर्वत्र हि कारकसाध्या क्रिया ।
अतः कारकाभावे ऽनुपपत्तिः क्रियायाः क्रियाभावे च फलाभावः ।
तस्मादविद्यायामेव सत्यां क्रियाकारकफलव्यवहारो न ब्रह्मविदः ।
आत्मत्वादेव सर्वस्य नाऽत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति ।
नचानात्मा सन्सर्वमात्मैव भवति कस्यचित् ।
तस्मादविद्ययैवानात्त्मत्वं परिकल्पितं न तु परमार्थत आत्मव्यतिरेकेणास्ति किञ्चित् ।
तस्मात्परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः ।
अतो विरोधाद्ब्रह्मविदः क्रियाणां तत्साधनानां चान्त्यन्तमेव निवृत्तिः ।
केन किमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम् ।
केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः ।
केनत्चित्कञ्चित्काश्चित्कथं चिन्न जिव्रेदेवेत्यर्थः ।
यत्राप्यविद्यावस्थायामन्यो ऽन्यं पश्यति तत्रापि येनेदं सर्वं विजानाति तं केन विजानीयाद्येन विजानाति तस्य करणस्य
विज्ञेये विनियुक्तत्वात् ।
ज्ञातुश्व ज्ञेय एव हि जिज्ञासा नाऽत्मनि ।
न चाग्नेरिवाऽत्माऽत्मनो विषयो न चाविषये ज्ञातुर्ज्ञानमुपपद्यते ।
तस्माद्येनेदं विजानाति तं विज्ञातारं केन करणेन को वान्यो विजानीयात् ।
यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलो ऽद्वयो वर्तते तं विज्ञातारमरे केन विजानीयादिति ॥4॥
इति बृहदारण्यकोपनिषद्भाष्ये द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥4॥
स्तर्त् ब्र्हुप् 2,5.1
यत्केवलं कर्मनिरपेक्षममृतवसाधनं तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम् ।
तच्चाऽत्मज्ञानं सवंसन्यासाङ्गविशिष्टम् ।
आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ।
आत्मा च प्रियः सर्वस्मात् ।
तस्मादात्मा द्रष्टव्यः स च श्रोतव्यो मन्तव्यो निदिध्यास्तव्य इति च दर्शनप्रकारा उक्ताः ।
तत्र श्रोतव्य आचार्यागमाभ्याम् ।
मन्तव्यस्तर्कतः ।
तत्र च तर्क उक्त आत्मैवेदं सर्वमिति प्रतिज्ञातस्य हेतुवचनमात्मैकसामान्यत्वमात्मैकोद्भवत्वमात्मैकप्रलयत्वं च ।
तत्रायं हेतुरसिद्ध इत्याशङ्क्यत आत्मैकसामान्योद्भवप्रलयाख्यस्तदाशङ्कानिवृत्यर्थमेतद्ब्राह्मणमारभ्यते ।
यस्मात्परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि ।
यच्च लोके परस्परकार्योपकारकभूतं तदेककारणपूर्वकमेकसामान्यात्मकमेकप्रलयं च दृष्टम् ।
तस्मादिदमपि पृथिव्यादिलक्षणं जगत्परस्परोपकार्योपकारकत्वात्तथाभूतं भवितुमर्हति ।
एष ह्यर्थो ऽस्मिन्ब्राह्मणेप्रकाश्यते ।
अथवाऽत्मैवेदं सर्वमिति प्रतिज्ञातस्याऽत्मोत्पत्तिस्थितिलयत्वं क्रियते ।
तथा हि नैयायिकैरुक्तं हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति ।
अन्यैर्व्याख्यातमा दुन्दुभिदृष्टान्ताच्छ्रोतव्यार्थमागमवचनं प्राङ्भधुव्रह्मणान्मन्तव्यार्थमुपपत्तिप्रदर्शनेन मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति ।
सर्वथापि तु यथाऽगमेनावधारितं तर्कतस्तथैव मन्तव्यम् ।
यथा तर्कतो मतस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथङ्निदिध्यासनविधिरनर्थक एव ।
तस्मात्पृथक्प्रकरणविभागो ऽनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति ।
सर्वथापि त्वध्यायद्वयस्यार्थो ऽस्मिन्ब्राह्मण उपसंह्रियते ।
इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश् चायम् अस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यस् चायम् अध्यात्मं शारीरस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.1
इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनां मधु कार्यं मध्विव मधु यथैको मध्वपूपो ऽनेकैर्मधुकरैर्निर्वर्तित एवमियं पृथिवी सर्वभूतनिर्वर्तिता ।
तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्या मधु कार्यम् ।
किञ्च यश्वायं पुरुषो ऽस्यां पृथिव्यां तेजोमयश्विन्मात्रप्रकाशमयो ऽमृतमयो ऽमरणधर्मा पुरुषो यश्चायमध्यात्मं शारीरः शरीरे भवः पूर्ववत्तेजोमयो ऽमृतमयः पुरुषः ।
स च लिङ्गाभिमानी ।
स च सर्वेषां भूतानामुपकारकरणत्वेन मधु ।
सर्वाणि च भूतान्यस्य मधु ।
चशब्दसामर्थ्यात् ।
एवमेतच्चतुष्टयं तावदेकं सर्वभूतकार्यं सर्वाणि च भूतान्यस्य कार्यम् अतो ऽस्यैककारणपूर्वकता ।
यस्मादेकस्मात्कारणादेतज्जातं तदेवैकं परमार्थतो ब्रह्मेतरत्कार्यं वाचाऽरम्भणं विकारो नामधेयमात्रमित्येषमधुपर्यायाणां सर्वेषामर्थः संक्षेपतः ।
अयमेव स यो ऽयं प्रतिज्ञात इदं सर्वं यदयमात्मेति ।
इदममृतं यन्मैत्रेय्या अमृतत्वसाधनमुक्तमात्मविज्ञानमिदं तदमृतम् ।
इदं ब्रह्म यद्ब्रह्मा ते ब्रवाणि ज्ञपयिष्यामीत्यध्यायादौ प्रकृतं यद्विषया च विद्या ब्रह्मविद्येत्युच्यत इदं सर्वं यस्माद्ब्रह्मणो विज्ञानात्सर्वं भवति ॥1॥
स्तर्त् ब्र्हुप् 2,5.2
इमा आपः सर्वेषां भूतानां मधु ।
आसाम् अपां सर्वाणि भूतानि मधु ।
यश् चायम् आस्व् अप्सु तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं रैतसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.2
तथाऽपः ।
अध्यात्मं रेतस्यपां विशेषतो ऽवस्थानम् ॥2॥
स्तर्त् ब्र्हुप् 2,5.3
अयम् अग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन्न् अग्नौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं वाङ्मयस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.3
तथाग्निः वाच्यग्नेर्विशेषतो ऽवस्थानम् ॥3॥
स्तर्त् ब्र्हुप् 2,5.4
अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन् वायौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं प्राणस् तेजोमयो ऽमृतमयः पुरुषो यम् एव स यो ऽयम् आत्मा ।
इदं अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.4
तथा वायुः ।
अध्यात्मं प्राणो भूतानां शरीरारम्भकत्वेनोपकारान्मधुत्वं तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ।
तथा चोक्तं"तस्यैव वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः"इति ॥4॥
स्तर्त् ब्र्हुप् 2,5.5
अयम् आदित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन्न् आदित्ये तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं चाक्षुषस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.5
तथाऽदित्यो मधु ।
चाक्षुषो ऽध्यात्मम् ॥5॥
स्तर्त् ब्र्हुप् 2,5.6
इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश् चायम् आसु दिक्षु तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं श्रौत्रः प्रातिश्रुत्कस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.6
तथा दिशो मधु ।
दिशां यद्यपि श्रोत्रमध्यात्मं शब्दप्रतिश्रवणवेलायां तु विशेषतः संनिहितो भवतीत्यध्यात्मं प्रातिश्रुत्कः प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥6॥
स्तर्त् ब्र्हुप् 2,5.7
अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन् चन्द्रे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं मानसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मेदम् अमृतम् ।
इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.7
तथा चन्द्रः ।
अध्यात्मं मानसः ॥7॥
स्तर्त् ब्र्हुप् 2,5.8
इयं विद्युत् सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश् चायम् अस्यां विद्युति तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं तैजसस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.8
तथा विद्युत् ।
त्वक्तेजसि भवस्तैजसो ऽध्यात्मम् ॥8॥
स्तर्त् ब्र्हुप् 2,5.9
अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन्स्तनयित्नौ तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं शाब्दः सौवरस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.9
तथा स्तनयित्नः ।
शब्दे भवः शाब्दो ऽध्यात्मं यद्यपि तथापि स्वरे विशेषतो भवतीति सौवरो ऽध्यात्मम् ॥9॥
स्तर्त् ब्र्हुप् 2,5.10
अयम् आकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन्न् आकाशे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं हृद्य् आकाशस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.10
तथाऽकाशः ।
अध्यात्मं ह्यद्याकाशः ॥10॥
स्तर्त् ब्र्हुप् 2,5.11
अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन् धर्मे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं धार्मस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.11
अयं धर्मो ऽयमित्यप्रत्यक्षो ऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते ऽयं धर्म इति प्रत्यक्षवत् ।
धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः क्षत्रादीनामपि नियन्ता जगतो वैचित्र्यकृत्पृथिव्यादीनां परिणामहेतुत्वात्प्राणिभिरनुष्ठीयमानरूपश्च ।
तेन चायं धर्म इति प्रत्यक्षेण व्यपदेशः ।
सत्यधर्मयोश्चाभेदेन निर्देशः कृतः शास्राचारलक्षणयोरिद्द(? ) तु भेदेन व्यपदेश एकत्वे सत्यपि ।
दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात् ।
यस्त्वदृष्टो ऽपूर्वाख्यो धर्मः स सामान्यविशेषात्मनादृष्टेन रूपेण कार्यमारभते सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति विशेषरूपेण चाध्यात्मं कार्यकरणसंघातस्य ।
तत्र पृथिव्यादीनां प्रयोक्तरि यश्चायमस्मिन्धर्मे तेजोमयस्तथाध्यात्मं कार्यकरणसंघातकर्तरि धर्मे भवो धार्मः ॥11॥
स्तर्त् ब्र्हुप् 2,5.12
इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन् सत्ये तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं सात्यस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.12
तथा दृष्टेनानुष्ठीयमानेनाऽचाररूपेण सत्याख्यो भवति स एव धर्मः सो ऽपि द्विप्रकार एव सामान्यविशेषात्मरूपेण ।
सामान्यरूपः पृथिव्यादिसमवेतो विशेषरूपः कार्यकरणसंघातसमवेत ।
तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये तथाध्यात्मं कार्यकरणसंघातस मवेते सत्ये भवः सत्यः ।
सत्येन वायुरावातीति श्रुत्यन्तरात् ॥12॥
स्तर्त् ब्र्हुप् 2,5.13
इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन् मानुषे तेजोमयो ऽमृतमयः पुरुषो यश् चायम् अध्यात्मं मानुषस् तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
ब्र्हुप्भ्_2,5.13
धर्मसत्याभ्यां प्रयुक्तो ऽयं कार्यकरणसंघातविशेषः स येन जातिविशेषेष संयुक्तो भवति ।
स जातिविशेषो मानुषादिः ।
तत्र मानुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ।
अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु ।
तत्र मानुषादिजातिरपि बाह्याऽध्यात्मिकी चेत्युभयथा निर्देशभाग्भवति ॥13॥
स्तर्त् ब्र्हुप् 2,5.14
अयम् आत्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश् चायम् अस्मिन्न् आत्मनि तेजोमयो ऽमृतमयः पुरुषो यश् चायम् आत्मा तेजोमयो ऽमृतमयः पुरुषो ऽयम् एव स यो ऽयम् आत्मा ।
इदम् अमृतम् इदं ब्रह्मेदं सर्वम्
॥
ब्र्हुप्भ्_2,5.14
यस्तु कार्यकरणसंघातो मानुषादिजातिविशिष्टः सो ऽयमात्मा सर्वेषां भूतानां मधु ।
नन्वयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव ।
न ।
पार्थिवांशस्यैव तत्र ग्रहणात् ।
इदं तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूतादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसंघातः सो ऽयमात्मेत्युच्यते ।
तस्मिन्नस्मिन्नात्मनि तेजोमयो ऽमृतमयः पुरुषो ऽयमूर्तरसः सर्वात्मको निर्दिश्यते ।
एकदेशेन तु पृथिव्यादिषु निर्दिष्टो ऽत्राध्यात्मविशेषाभावात्स न निर्दिश्यते ।
यस्तु परिशिष्टो विज्ञानमयो यदर्थो ऽयं देहलिङ्गसंघात आत्मा स यश्चायमात्मेत्युच्यते ॥14॥
स्तर्त् ब्र्हुप् 2,5.15
स वा अयम् आत्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद् यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवम् एवास्मिन्न् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः
ब्र्हुप्भ्_2,5.15
यस्मिन्नात्मनि परिशिष्टो विज्ञानमयो ऽमात्मा ।
तस्मिन्नविद्याकृतकार्यकरणसङ्घातोपधिविशिष्टे ब्रह्मविद्याया परमार्थात्मनि प्रवेशिते, स एवमुत्त्को ऽनन्तरो ऽबाह्यः कृतस्त्रः प्रज्ञानघनभूतः सर्वेषां भूतानामयमात्मा सर्वैरूपास्यः सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रो न कुमारमात्यवत्, किं तर्हि? सर्वेषां भूतानां राजा ।
राजत्वविशेषणमधिपतिरिति;भवति कश्चिद्राजोचितष्टत्तिमाश्रित्य राजा, न त्वधिपतिः, अतो विशिनष्ट्यधिपतिरिति ।
एवं सर्वभूतात्मा विद्वान् ब्रह्मविन्मुत्त्को भवति ।
यदुत्त्कम् ऽब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्ऽइतीदं तद् व्याख्यातम् ।
एवमात्मानभेव सर्वात्मत्वेन आचार्यगमाभ्यां श्रुत्वा, मत्वा तर्कतो विज्ञाय साक्षादेवं यथा मधुब्राह्मणे दर्शितं तथा, तस्माद्ब्रह्मविज्ञानादेवंलक्षणात् पूर्वमपिब्रहेमैव सदविद्यया अब्रह्मासीत्, सर्वभेव च सदसर्वमासीत् तान्त्वविद्यामस्माद्विज्ञनात्तिरस्कृत्य ब्रह्मविद्ब्रह्मैव सन् ब्रह्माभवत् सर्वः स सर्वमभवत् ।
परिसमाप्तः शास्त्रार्थो यदर्थः प्रस्तुतः ।
तस्मिन्नेतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत् समर्पितमित्येतस्मिन्नर्थे दृष्टान्त उपादीयते-तद्यथा रथनाभौ च रथेनेमौ चाराः सर्वे समर्पिता इति प्रसिद्वोर्ऽथः, एवमेवास्मिन्नात्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बर्यन्तानि, सर्वे देवा अग्न्यादयः, सर्वे लोका
भूरादयः, सर्वे प्रणा वागादयः, सर्व एत आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनो ऽविद्याकल्पिताः, सर्वं जगदस्मिन् समर्पितम् ।
यदुत्त्कं ब्रह्मविद्वामदेवः प्रतिपेदे-ऽअहं मनुरभवं सूर्यश्चऽइति, स एष सर्वात्मभावो व्याख्यातः ।
स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति ।
निरुपाधिर्निरुपाख्यः अनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघनो ऽजाजरो ऽमृतोभयो ऽचलो नेति नेत्यस्थूलो ऽनणुरित्येवंविशेषणो भवति ।
तमेतमर्थमजानन्तस्तार्किकाः केचित् पण्डितंमन्याश्चागमविदः शास्त्रार्थ विरुद्वं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति ।
तमेतमर्थमेतौ मनेत्रावनुवदतः--"अनेजदेकं मनसो जवीयः" "तदेजति तन्नैजति"इति ।
तथा च तैत्तिरीयके--"यस्मात्परं नापारमस्ति किञ्चत्""एतत्साम गायन्नास्ते" "अहमन्नमहमन्नमहमन्नम्"इत्यादि ।
तथा च च्छान्दोग्ये"जक्षत् क्रीडन्रममाणः" "सयदि पितृलोककामः" "सर्वगन्धः सर्वरसः"इत्यादि ।
आयर्वणे च"सर्वज्ञः सर्ववित्""दूरात सुदूरे तदिहान्तिके च ।
"कठवल्लीष्वपि"अणोरणीयान् महतो महीयान्" "कस्तं मदामदं देवम्" "तद्वावतो ऽन्यानत्येति तिष्ठत्"इति च ।
तथा गीतासु"अहं क्रतुरहं यज्ञः" "पिताहमस्य जगतः" "नादत्ते कस्यचित् पापम्" "समं सर्वेषु भूतेषु" "अविमत्त्कं विभत्त्केपु" "ग्रसिष्णु प्रभविष्णु च"इत्येवमाद्यागमार्थ विरुद्वमिव
प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यादर्थनिर्णयाय विकल्पयन्तः, अस्त्यात्मा नास्त्यात्मा कर्ताकर्ता मुत्त्को बद्वः क्षणिको विज्ञानमात्रं शून्यं चेत्येवं विकल्पयन्तो न पारमधिगच्छन्त्यविद्यायाः, विरुद्वर्र्मदर्शित्वात् सर्वत्र ।
तस्मात्तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त एवाविद्यायाः पारमधिगच्छन्ति ।
त एव वास्मान्मोहसमुद्रादगाधादुत्तरिष्यन्ति, नेतरे स्ववुद्विकौशलानुसारिणः ॥15 ॥
स्तर्त् ब्र्हुप् 2,5.16
परिसमाप्ता ब्रह्मविद्यामृतत्वसाधनाभूता, यां मैत्रेयी पृष्टवती भर्तारम् ऽयदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहिऽइति ।
एतस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकायाः सङ्क्षेपतोर्ऽथप्रकाशनार्थावेतौ मन्त्रौ भवतः ।
एवं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वात् अमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्ग मुपनीतं भवति--यथादित्य उद्यञ्छलार्वरं तमो ऽपनयतीति तद्वत् ।
अपि चैवं स्तुता ब्रह्मविद्याया इन्द्ररक्षिता सा दुष्प्राप्या देवैरपि;.स्मादश्चिभ्यामपिदेवभिपग्भ्यामिन्द्ररक्षिता विद्या महतायासेन प्राप्ता ।
ब्राह्मणस्य शिरश्छित्त्वाश्वयं शिरः प्रतिसन्धाय तस्मिन्निन्द्रेणच्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय तेन ब्राह्मणस्य स्वशिरसैवोत्त्काशेषा ब्रह्मविद्या श्रुता ।
तस्मात्ततः परतरं किञ्चित् पुरुषार्थसाधनं न भूतं न भावि वा, कुत एव वर्तमानम्, इति नातः परास्तुतिरस्ति ।
अपि चैवं स्तूयते ब्रह्मविद्यासर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्वम् ।
तच्च कर्म वित्तसाध्यम्,
तेनाशापिनास्त्यमृतत्वस्य ।
तदिदममृतत्वं केवलयात्मविद्यया कर्मनिरपेक्षया प्राप्यते;यस्मात् कर्मप्रकरणे वक्तुं प्राप्तपि केवलप्रकरणे, कर्मप्रकरणादुत्तीर्त कर्मणा विरुद्वत्वात् केवलसंन्याससहिता अभिहिता अमृतत्वसाधनाय ।
तस्मान्नातः परं पुरुषार्थसाधनमस्ति ।
अपि चैवं स्तुता ब्रह्मविद्या सर्वो हि लोको द्वन्द्वारामः"स वै नैव रेमे तस्मादेकाकी न रमते"इति श्रुतेः ।
याज्ञवल्क्यो लोकसाधारणो ऽपि सन्नात्मज्ञानबलद्भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव ।
अपि चैवं स्तुता ब्रह्मविद्या यस्माद्याज्ञवल्क्येनसंसारमार्गद् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रोत्यर्थमेंवामिहिता,"प्रियं भापस एह्याःस्व"इति लिङ्गात् ।
तत्रेयं स्तुत्यर्थाख्यायिकेत्यवोचाम ।
का पुनः सा आख्यायिका? इत्युच्यते---
इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच ।
तद् एतद् ऋषिः पश्यन्न् अवोचत् -- तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् ।
दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाचेति
ब्र्हुप्भ्_2,5.16
इदमित्यनन्तरनिर्दिष्टं व्यपदिशति, बुद्वौ सन्निहितत्वात् ।
वैशब्दः स्मरणार्थः ।
तदित्याख्यायिकानिर्वृत्तंप्रकरणान्तराभिहितं परोक्षं वैशब्देन स्मारयन्निह व्यपदिशति ।
यत्तत् प्रवर्ग्यप्रकरणे मूचितम्, नाविष्कृतं मधु, तदिदं मध्विहानन्तरं निर्दिष्टम्-ऽइयं पृथिवीऽइत्यादिना ।
कथं तत्र प्रकरणान्ते सूचितम्-दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ।
तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति ।
स होवाचेन्द्रेण वा उत्त्को ऽस्मयेतच्चेदन्यस्मा अनुव्रूयास्तत एव ते शिरश्छिन्द्यामिति ।
तस्माद्वै बिभेमि, यद्वै मे स शिरो न छिन्द्यात् तद्वामुपनेष्य इति ।
तौ होचतुरावां त्वा तस्मात् त्रास्यावहे इति कथं मा त्रास्येथे? इति ।
यदा नावुपनेष्यसे;अथ ते शिरश्छित्त्वा अन्यत्राह्रत्योपनिधास्यावः;अथाश्वस्य शिर आह्रत्य तत्ते प्रतिधास्यावः;तेन नावनुवक्ष्यसि ।
यदा नावनुवक्ष्यसि, अथ ते तदिन्द्रः शिरश्छेत्स्यति;अथ ते स्वं शिर आह्रत्य तत्ते प्रतिधास्याव इति ।
तथेति तौ होपनिन्ये ।
तौ यदोपनिन्ये, अथास्य शिरच्छित्त्वान्यत्रोपनिदधुतुः;अथाश्वस्य शिर आह्रत्य तद्वास्य प्रतिदधतुः ।
तेन हाभ्यामनुवाच ।
स यदा आभ्यामनुवाचाथास्य तदिन्द्रः शिरश्चिच्छेद ।
अथास्य स्वं शिर आह्रत्य तद्वास्य प्रतिदधतुरिति ।
यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु तावदेव तत्राभिहितम्, न तु कक्ष्यमात्माज्ञानाख्यम् ।
तत्र या आख्यायिकाभिहिता सेह स्तुत्यर्था प्रदर्श्यते ।
इदं वै तन्मधु दध्यङ्ङाथर्वणो ऽनेन प्रपञ्चेनाश्विभ्यामुवाच ।
तदेतदृपिः-तदेतत् कर्म, शृपिर्मन्त्रः, पश्यन्नुपलभमानः, अवोचत्-उत्त्कवान् ।
कथम्? तद्दंस इति व्यवहितेन सम्बन्धः ।
दंस इति कर्मणो नामधेयम् ।
तच्च दंसः किविशिष्टम्? उग्रं क्रूरम् ।
वां युवयोः ।
हे नरा नराकारावश्विनौ ।
तच्च कर्म किन्निमितम्? सनये लाभाय !लामलुब्धो हि लोके ऽपि क्रूरं कर्माचरति, तथैवैतावुपलभ्येते यथा सोके ।
तदाविः प्रकाशं कृणोमि करोमि यद्रहसि भवद्भयां कृतम्, किमिव? इत्युच्यते--तन्यतुः पर्जन्यः, न इव ।
नकारस्तूपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिपेधार्थः;यथाश्वं न ।
अश्वमिवेति यद्वत् ।
तन्यतुरिव वृर्ष्टि यथा पर्जन्यो वृर्ष्टि प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वदहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः ।
नन्वश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्यातां निन्दावचनौ हीमौ ।
नैप दोषः;स्तुतिरेवैषा, न निन्दावचनौ ।
यस्मादीदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोर्न लोम च मीयत इति ।
न चान्यत्किञ्चिद्वीयत एवेति ।
स्तुतावेतौ भवतः ।
निन्दां प्रशंसां हि लौकिकाः स्मरन्ति ।
तथा प्रशंसारूपा च निन्दा लोके प्रसिद्वा ।
दध्यङ्नाम आथर्वणः ।
हेत्यनर्थको निपातः ।
यन्मधुकक्ष्यमात्मज्ञानलक्षणमाथवणो वां युकाभ्यामश्वस्य शीर्ष्णा शिरसा प्रयत् ईम् उवाच यत् प्रोवाच मधु ।
ईमित्यनर्थको निपातः ॥16॥
स्तर्त् ब्र्हुप् 2,5.17
इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच ।
तद् एतद् ऋषिः पश्यन्न् अवोचत् -- आथर्वणायाश्विनौ दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् ।
स वां मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम् इति
ब्र्हुप्भ्_2,5.17
इदं वै तन्मध्वित्यादि पूर्ववन्मन्त्रान्तरदर्शनार्थम् ।
तथान्यो मन्त्रस्तामेव आख्यायिकामनुसरतिस्म ।
आथर्वणो दध्यङ्नाम, आथर्वणो ऽन्यो विद्यत इत्यतो विशिनष्टि दध्यङ्नामाथर्वणः ।
तस्मै दधीच आथर्वणाय हे ऽश्विनाविति मन्त्रदृशो वचनम्, अश्व्यम श्वस्य स्वभूतं शिरः, ब्राह्मणस्य शिरसिच्छिन्ने ऽश्वस्य शिरश्छित्त्वेदृशमतिक्रूरं कर्म कृत्वा अश्वयं शिरो ब्राह्मणं प्रति एरयतं गमितवन्तौ युवाम् ।
स चाथर्वणो वां युवाभ्यां तन्मधु प्रवोचद् यत् पूर्वं प्रतिज्ञातं वक्ष्यामीति ।
स किमर्थमेवं जीवितसन्देहमारुह्य प्रवोचत्? इत्युच्यते ।
शृतायन् यत पूर्वं प्रतिज्ञातं सत्यं तत् परिपालयितुमिच्छन् ।
जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येस्य लिङ्गमेतत् ।
कि तन्मधु प्रवोचत्? इत्युच्यते-त्वाष्ट्रम्, त्वष्टा आदित्यस्तस्य सम्बन्धि, यज्ञस्य शिरश्छिन्नं त्वष्टाभवत्,
तत्प्रतिसन्धानार्थ प्रवर्ग्य कर्म ।
तत्र प्रवर्ग्यकर्माङ्गभूतं यद् विज्ञानं तत्त्वाष्ट्रं मधु-यज्ञस्य शिरश्छेदनप्रतिसन्धानादिविषयं दर्शनं तत्त्वाष्ट्रं यन्मधु हे दस्त्रो, दस्त्राविति परबलानामुपक्षपयितारौ शत्रूणां वा
हिंसितारौ, अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धियुवाभ्यामवोचत्, अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद् विज्ञानं मधु मधुब्राह्मणेनोत्त्कमध्यायद्वयप्रकाशितम्, तच्च वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥17॥
स्तर्त् ब्र्हुप् 2,5.18
इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच ।
तद् एतद् ऋषिः पश्यन्न् अवोचत् -- पुरश् चक्रे द्विपदः पुरश् चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशद् इति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम्
ब्र्हुप्भ्_2,5.18
इदं वै तन्मध्विति पूर्ववत् ।
उत्त्कौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ ।
द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः ।
ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थौत्तराभ्यामृग्भ्यां प्रकाशयितव्यः, इत्यतः प्रवर्तते ।
यत् कक्ष्यं च मधुत्त्कवानाथर्वणो युवाभ्यामित्युत्त्कम् ।
किं पुनस्दन्मधु? इत्युच्यते-
पुरश्चक्रे पुरः पुराणि शरीराणि यत इयमच्याकृतव्याकरणप्रक्रिया स परमेश्वरो नामरूपे अव्याक्रते व्याकुर्वाणः प्रथमं भूरादीं ल्लोकान् सृष्ट्वा चक्रे कृतवान द्विपदो द्विपादपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि ।
तवा पुरः शरीराणि चक्रे चतुष्पदश्चतुष्पादुपलक्षितानि पशुशरीराणि ।
पुरः पुरस्तान् स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणिपुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिः-स वा अयं पुरुषः सर्वासुयूर्षु सर्वशरीरेषु पुरिशयः, पुरिशेत इति पुरिशयः सन् पुरुष इत्युच्यते ।
नैनेनानेन किञचन किञ्चिदप्यनावृतमनाच्छदितम् ।
तथा नैनेन किञ्चनासंवृतमन्तरननुप्रवेशितं बाह्यभूतेनान्तर्भूतेन च न अनावृतम् ।
एवं स एव नामख्यात्मना अन्तर्वहिर्भावेन कार्यकरणरूपेण व्यवस्थितः ।
पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्टैत्यर्थः ॥18॥
स्तर्त् ब्र्हुप् 2,5.19
इदं वै तन् मधु दध्यङ्ङ् आथर्वणो ऽश्विभ्याम् उवाच ।
तद् एतद् ऋषिः पश्यन्न् अवोचत् -- रूपंरूपं प्रतिरूपो बभूव तद् अस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दशेति ।
अयं वै हरयो ऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तद् एतद् ब्रह्मापूर्वम् अनपरम् अनन्तरम् अबाह्यम् ।
अयम् आत्मा ब्रह्म सर्वानुभूः ।
इत्य् अनुशासनम्
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0