भाषा

ENहिગુ
ग्रंथ पाठ

बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 2.1

2.1.1

ब्र्हुप्भ्_1,6.3 अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रे ऽन्तर्भाव उच्यते ।
कथम्? सर्वेषं कर्मविशेषाणामात्मा शरीरं सामान्यमात्मा, आत्मनः कर्म आत्मेत्युच्यते ।
ऽआत्मना हि शरीरेण कर्म करोतिऽइत्युक्तम् ।
शरीरे च सर्वं कर्माभिव्यज्यत् ।
अतः तात्स्थ्यात्तच्छब्दं कर्मकर्मसामान्यमात्रं सर्वेषामुक्थमित्यादि पूर्ववत् ।
तदेतद्यथोक्तं नाम रूपं कर्म त्रयमितरेतराश्रयम्, इतरेतराभिव्यक्तिकारणम्, इतरेतरप्रलयं संहतं त्रिदण्डविष्टम्भवत् सदेकम् ।
केनात्मनैकत्वम्? इत्युच्यते - अयमात्मायं पिण्डः कार्यकरणात्मसङ्घातः तथान्नत्रये व्याख्यातःऽएतन्मयो वा अयमात्माऽइत्यादिना;एतावद्धीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति, आत्मा उ एको ऽयं कार्यकरणसङ्घातः सन्नध्यात्माधिभूताधिदैवभावेन व्यवस्थितमेतदेव त्रयं नाम रूपं कर्मेति ।
तदेतद्वक्ष्यमाणम् ।
अमृतं सत्येनच्छन्नमित्येतस्य वाक्यस्यार्थमाह - प्राणो वा अमृतं करणात्मको ऽन्तरुपष्टम्भक आत्मभूतो ऽभूतो ऽविनाशी;नामरूपे सत्यं कार्यात्मके शरीरावस्थे;क्रियात्मकस्तु प्राणस्तयोरुपष्टम्भको बाह्य् बाह्य् आभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नो ऽप्रकाशीकृतः ।
एतदेवसंसारसतत्वमविद्याविषयं प्रदर्शितम् ।
अत
ऊर्ध्वं विद्याविषय आत्माधिगन्तव्य इथि चतुर्थं आरभ्यते ॥3 ॥ ॥
इति प्रथमाध्याये षष्ठमुक्थब्राह्मणम् ॥6॥
=======================================================================
अध्यय 2
आत्मेत्येवोपासीत तदन्वेषणे च सर्वमन्विष्टं स्यात्तदेव चाऽत्मतत्त्वं सर्वस्मात्प्रेयस्त्वादन्वेष्टव्यम् ।
आत्मानमेवावेदहं ब्रह्मास्मीत्यात्मतत्त्वमेकं विद्याविषयः ।
यस्तु भेददृष्टिविषयः सो ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेदेत्यविद्याविषयः ।
"एकधैवानुद्रष्टव्यम्" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"इत्येवमादिभिः प्रविभत्कौ विद्याविषयौ सर्वोपनिषत्सु ।
तत्र चाविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातः-आ तृतीयाध्यायपरिसमाप्तेः ।
स च व्याख्यातो ऽविद्याविषयः सर्व एव द्विप्रकारः- अन्तः प्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशको ऽमृतः ।
बाह्यश्च कार्यलक्षणो ऽप्रकाशक उपजनापायधर्मकस्तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः तेनामृतशब्दवाच्यः प्राणश्छन्न इति चोपसंह्रतम् ।
स एव च प्राणो बाह्याधारमेदेष्वनेकधा विस्तृतः; प्राण एको देव इत्युच्यते ।
तस्यैव बाह्यः पिण्ड एकः साधारणः---विराड् वैश्वानर आत्मा पुरुषविधः प्रजापतिः को हिरण्यगर्भ इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः ।
एकं चानेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत्कर्तृ भोक्तृ चेत्यविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते ; तद्विपरीतात्मदृगजातशत्रुः श्रोता; एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोर्ऽथः श्रोतुश्चित्तस्य वशमेति; विपर्यये हि तर्कशास्त्रवत् केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यादत्यन्तसूक्ष्मत्वाद्वस्तुनः ।
तथा च काठके-"श्रवणायापि बहुभिर्यो न लभ्यः"इत्यादिवाक्यैः सु संस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यागम्यत्वं च सप्रपञ्चं दर्शितम् ।
"आचार्यवान्पुरुषो वेद""आचार्याद्धैव विद्या"इति चच्छान्दोग्ये ।
"उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः"इति च गीतासु ।
इहापि च शाकल्ययाज्ञवल्क्यसंवादेन अतिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति-तस्माश्चिलष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्युसमर्पणार्थ आरम्भः ।
आचारविध्युपदेशार्थश्च--एवमाचारवतोर्वत्त्कृश्रोक्रोराख्यायिकानुगतेर्ऽथो ऽवगम्यते ।
केवलतर्कबुद्विनिषेधार्था चाख्यायिका--"नैषा तर्केण मतिरापनेया""न तर्कशास्त्रदग्धाय"इति श्रुतिस्मृतिभ्याम् ।
श्रद्वा च ब्रह्मविज्ञाने परमं साधनमित्याख्याय्कार्थः ।
तथा हि गार्ग्याजातशत्रवोरतीव श्रद्वालुताद्दृश्यते आख्यायिकायाम्;"श्रद्वांल्लभते ज्ञानम्"इति च स्मृतिः ।
स्तर्त् ब्र्हुप् 2,1.1
दृप्तबालाकिर् हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यं -- ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः -- सहस्रम् एतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति

2.1.2

ब्र्हुप्भ्_2,1.1
तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मविद् दृप्तबालाकिः दृपते गर्वितो ऽसभ्यग्ब्रह्मवित्तवादेव् बलाकाया अपत्यं बालाकिर्दृप्तश्चासौ बालाकिश्चेति दृप्तबालार्किः, हशब्द एतिह्यार्थ आख्यायिकायाम्, अनूचानः अनुवचसमर्थो वत्त्कावाग्गमी;गार्ग्यो गोन्नतः, आस बभूव क्वचित्कालविशेषे ।
स होवाचाजातशत्रुमजातशत्रुनामानं काश्यं काशिराजमभिगम्य-ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि ।
स एवमुक्तो ऽजातशत्रुरुवाच-सहस्रं गवां दद्भ एतस्यां वाचि- यां मां प्रत्यवोचो ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः ।
साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने? ब्रह्म ते ब्रवाणीतीयमेव तु वाग् निमित्तमपेक्ष्यते? इत्युच्यते;यतः श्रुतिरेव राज्ञो ऽभिप्रायमाह-जनको दाता जनकः श्रोतेति चैतस्मिन्वाक्यद्वये पदद्वयमभ्यस्यते जनको जनक इति ।
वैशब्दः प्रसिद्धावद्योतनार्थः;जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प3तिजिघृक्षवश्च जनाधावन्त्यभिगच्छन्ति ।
तस्मात्तत्सर्वं मय्यपि सम्भावितवानसीति ॥1॥
एवं राजानं शुश्रूषुमभिमुखीभूतम्-
स्तर्त् ब्र्हुप् 2,1.2
स होवाच गार्ग्यः -- य एवासाव् आदित्ये पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर् -- मा मैतस्मिन्संवदिष्ठाः ।
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति

2.1.3

ब्र्हुप्भ्_2,1.2
स होवाच गार्ग्यः-य एव असौ आदित्ये चक्षुषि चैको ऽभिमानी चक्षुर्द्वारेणेह हृदि प्रविष्टः ऽअहं भोक्ता कर्ता चऽइत्यवस्थितः, एतमेवाहं ब्रह्म पश्यामि, अस्मिन्कार्यकरणसङ्घाते उपासे ।
तस्मात्तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीभ्युपाःस्वेति ।
स एवमुक्तः प्रत्युवाच अजातशत्रुः ऽमा माऽइति हस्तेन विनिवारयन्-एतस्मिन्ब्रह्मणि विज्ञेये मा संवदिष्ठाः;मा मेत्याबाधनार्थं द्विर्वचनम् ।
एवं समाने विज्ञानविषये आवयोरस्मानविज्ञानवत इव दर्शयता बाधिताः स्याम, अतो मा संवदिष्ठाः-मा संवादं कार्षीरस्मिन्ब्रह्मणि ।
अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव ।
अथ चेन्मन्यसे-जानीषे त्वं ब्रह्ममात्रं न तु तद्विशेषणोपासनफलानीति-तन्न मन्तव्यम्, यतः सर्वमेतदहं जाने यद्ब्रवीषि ।
कथम्? अतिष्ठाः-अतीत्य भूतानि तिष्ठातीत्यतिष्ठाः ।
सर्वेषां च भूतानां मूर्धा शिरो राजेति वै-राजा दीप्तिगुमोपेतत्वात्, एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेत्यहमेतमुपास इति ।
फलमप्येवं विशिष्टोपासकस्य-स य एतमेवमुपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ।
यथागुणोपासनमेव हि फलम्;"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥2॥
संवादेनादित्यब्रह्मणि प्रत्याख्याते ऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः ।
स्तर्त् ब्र्हुप् 2,1.3
स होवाच गार्ग्यः -- य एवासौ चन्द्रे पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः ।
बृहन् पाण्दरवासाः सोमो राजेति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते ऽहर्-अहर् सुतः प्रसुतो भवति ।
नास्यान्नं क्षीयते

2.1.4

ब्र्हुप्भ्_2,1.3
य एवासौ चन्द्रे मनसि चैकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम् ।
बृहन् महान् पाण्डरं शुक्लं वासो यस्य सो ऽयं पाण्डरवासाः, अप्शरीरत्वाच्चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतो ऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्यैतमेवाहं ब्रह्मोपासे ।
यथोक्तगुणं य उपास्ते तस्याहरहः सुतः सोमो ऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे, उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः ।
अन्नं चास्य न क्षीयते ऽन्नात्मकोपासकस्य ॥3॥
स्तर्त् ब्र्हुप् 2,1.4
स होवाच गार्ग्यः -- य एवासौ विद्युति पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
तेजस्वीति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते तेजस्वी ह भवति ।
तेजस्विनी हास्य प्रजा भवति

2.1.5

ब्र्हुप्भ्_2,1.4
तथा विद्युति त्वचि हृदये चैका देवता ।
तेजस्वीति विशेषणम्, तस्यास्तत्फलम्-तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ।
विद्युतां बहुत्वस्याङ्गीकरणादात्मनि प्रजायां च फलबाहुल्यम् ॥4॥
स्तर्त् ब्र्हुप् 2,1.5
स होवाच गार्ग्यः -- य एवायम् आकाशे पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
पूर्णम् अप्रवर्तीति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते पूर्यते प्रजया पशुभिर् नास्यास्माल् लोकात् प्रजोद्वर्तते

2.1.6

ब्र्हुप्भ्_2,1.5
तथा आकाशे हृद्याकाशे हृदये चैका देवता ।
पूर्णमप्रवर्ति चेति विशेषणद्वयम् ।
पूर्णत्वविशेषणफलमिदम्-पूर्यते प्रजया पशुभिः;अप्रवर्तिविशेषणफलम्-नास्यास्माल्लोकात्प्रजोद्वर्तत इति,
प्रजासन्तानाविच्छित्तिः ॥5॥
स्तर्त् ब्र्हुप् 2,1.6
स होवाच गार्ग्यः -- य एवायं वायौ पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः ।
इन्द्रो वैकुण्ठो ऽपराजिता सेनेति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते जिष्णुर् हापराजिष्णुर् भवत्य् अन्यतस्त्यजायी

2.1.7

ब्र्हुप्भ्_2,1.6
तथा वायौ प्राणे हृदि चैका देवता ।
तस्या विशेषणम्-इन्द्रः परमेश्वरः, वैकुण्ठो ऽप्रसह्यः, न परैर्जितपूर्वा पराजिता सेना-मरुतां गणत्वप्रसिद्धेः ।
उपासनफलमपि-जिष्णुर्ह जयनशीलो ऽपराजिष्णुर्न च परैर्जितस्वभावो भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति ॥6॥
स्तर्त् ब्र्हुप् 2,1.7
स होवाच गार्ग्यः -- य एवायम् अग्नौ पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः ।
विषासहिर् इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते विषासहिर् ह भवति ।
विषासहिर् हास्य प्रजा भवति

2.1.8

ब्र्हुप्भ्_2,1.7
अग्नौ वाचिहृदि चैका देवता ।
तस्या विशेषणम्-विषासहिर्मर्षयिता परेषाम् ।
अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥7॥
स्तर्त् ब्र्हुप् 2,1.8
स होवाच गार्ग्यः -- य एवायम् अप्सु पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः ।
प्रतिरूप इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते प्रतिरूपं हैवैनम् उपगच्छति नाप्रतिरूपम् ।
अथो प्रतिरुपो ऽस्माज् जायते

2.1.9

ब्र्हुप्भ्_2,1.8
अप्सु रेतसि हृदि चैका देवता ।
तस्या विशेषणम्-प्रतिरूपो ऽनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः ।
फलम्-प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव एनमुपगच्छति प्राप्नोति, न विपरीतम्, अन्यच्च-अस्मात्तथाविध एवोपजायते ॥8॥
स्तर्त् ब्र्हुप् 2,1.9
स होवाच गार्ग्यः -- य एवायम् आदर्शे पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
रोचिष्णुर् इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते रोचिष्णुर् ह भवति ।
रोचिष्णुर् हास्य प्रजा भवति ।
अथो यैः संनिगच्छति ।
सर्वांस् तान् अतिरोचते

2.1.10

ब्र्हुप्भ्_2,1.9
आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ हार्दे च सत्त्वशुद्धिस्वाभाव्ये चैका देवता, तस्या विशेषणम्-रोचिष्णुर्दीप्तिस्वभावः, फलं च तदेव ।
रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥9॥
स्तर्त् ब्र्हुप् 2,1.10
स होवाच गार्ग्यः -- य एवायं यन्तं पश्चाच् छब्बो ऽनूदेत्य् एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
असुर् इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते सर्वं हैवास्मिंल् लोक आयुर् एति ।
नैनं पुरा कालात् प्राणो जहाति

2.1.11

ब्र्हुप्भ्_2,1.10
यन्तं गच्छन्तं य एवायं शब्दः पश्चात्पृष्ठतो ऽनीदेत्यध्यात्मं च जीवनहेतुः प्राणः, तमेकीकृत्याह;असुः प्राणो जीवनहेतुरिति गुणस्तस्य;फलम्-सर्वमायुरस्मिंल्लोक एतीति-यथोपात्तं कर्मणा आयुः;कर्मफलपरिच्छिन्नकालात्पुरा पूर्वं रोगादिभिः पीड्यमानमप्येनं प्राणो न जहाति ॥10॥
स्तर्त् ब्र्हुप् 2,1.11
स होवाच गार्ग्यः -- य एवायं दिक्षु पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
द्वितीयो ऽनपग इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते द्वितीयवान् ह भवति ।
नास्माद् गणश् छिद्यते

2.1.12

ब्र्हुप्भ्_2,1.11
दिक्षु कर्णयोर्हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ ।
गुणस्तस्य द्वितीयवत्त्वमनपगत्वमवियुक्तता चान्योन्यं दिशामश्विनोश्चैवन्धर्मित्वात् ।
तदेव च फलमुपासकस्य-गणाविच्छेदो द्वितीयवत्त्वं च ॥11॥
स्तर्त् ब्र्हुप् 2,1.12
स होवाच गार्ग्यः -- य एवायं छायामयः पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन्संवदिष्ठाः ।
मृत्युर् इति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्ते सर्वं हैवास्मिंल् लोक आयुर् एति ।
नैनं पुरा कालान् मृत्युर् आगच्छति

2.1.13

ब्र्हुप्भ्_2,1.12
छायायां बाह्ये तमस्यध्यात्मं च आवरणात्मके ऽज्ञाने हृदि चैका देवता ।
तस्या विशेषणं मृत्युः ।
फलं सर्वं पूर्ववत्, मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥12॥
स्तर्त् ब्र्हुप् 2,1.13
स होवाच गार्ग्यः -- य एवायम् आत्मनि पुरुष एतम् एवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः -- मा मैतस्मिन् संवदिष्ठाः ।
आत्मन्वीति वा अहम् एतम् उपास इति ।
स य एतम् एवम् उपास्त आत्मन्वी ह भवति ।
आत्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीम् आस गार्ग्यः

2.1.14

ब्र्हुप्भ्_2,1.13
आत्मनि प्रजापतौ बुद्धौ च हृदि चैका देवता ।
तस्या आत्मन्वी-आत्मवानीति विशेषणम् ।
फलम्-आत्मन्वी ह भवत्यात्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति ।
बुद्धिबहुलत्वात्प्रजायां सम्पादनमिति विशेषः ।
स्वयं परिज्ञातत्वेनैवं क्रमेण प्रत्याख्या तेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानो ऽप्रतिभासमानोत्तरस्तूष्णीमवाक्छिरा आस ॥13॥
स्तर्त् ब्र्हुप् 2,1.14
तं तथाभूतमालक्ष्य गार्ग्यम्-
स होवाचाजातशत्रुः -- एतावन् नू3 इति ।
एतावद् धीति ।
नैतावता विदितं भवतीति ।
स होवाच गार्ग्यः -- उप त्वायानीति

2.1.15

ब्र्हुप्भ्_2,1.14
स होवाचाजातशत्रुः-एतावन्नू3इति ।
किमेतावद्ब्रह्म निर्ज्ञातम्, आहोस्विदधिकमप्यस्तीति? इतर आहैतावद्धीति ।
नैतावता विदितेन ब्रह्म विदितं भवतीत्याहाजातशत्रुः, किमर्थं गर्वितो ऽसि ब्रह्म ते ब्रवाणीति ।
किमेतावद्विदितं विदितमेव न भवति? इत्युच्यते-न, फलवद्विज्ञ3नश्रवणात् ।
न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यम् अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते-"अतिष्ठाः सर्वेषां भूतानाम्"इत्यादीनि ।
तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि ।
अर्थवादत्वे एतदसमञ्जसम् ।
कथं तर्हि नैतावता विदितं भवतीति? नैष दोषः, अधिकृतापेक्षत्वात् ।
ब्रह्मोपादेशार्थं हि शुश्रूषवे ऽजातशत्रवे ऽमुख्यब्रह्मविद्गार्ग्यः प्रवृत्तः, स युक्त एव मुख्यब्रह्मविदाजातशत्रुणामुख्य ब्रह्मविद्गार्ग्यो वक्तुम्- यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तस्त्वं तन्न जानीष इति ।
यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदैतावतेति न ब्रूयात्, न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात्, न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात् ।
तस्माद्भवन्त्येतावन्त्यविद्याविषये ब्रह्माणि ।
एतावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य, युक्तमेव वक्तुम्-नैतावताविदितंभवतीति ।
अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं चैषां तृतीये ऽध्याये प्रदर्शितम् ।
तस्मात्"नैतावता विदितं भवति"इति ब्रुवता अधिकं भ्रह्म ज्ञातव्यमस्तीति दर्शितं भवति ।
तच्चानुपसन्नाय न वक्तव्यम् इत्याचारविधिज्ञो गार्ग्यः स्वयमेवाह-उप त्वा यानीति-उपगच्छानीति त्वाम्, यथान्यः शिष्यो गुरुम् ॥14॥
स्तर्त् ब्र्हुप् 2,1.15
स होवाचाजातशत्रुः -- प्रतिलोमं चैतद् यद् ब्राह्मणः क्षत्रियम् उपेयाद् ब्रह्म मे वक्ष्यतीति ।
व्य् एव त्वा ज्ञपयिष्यामीति ।
तं पाणाव् आदायोत्तस्थौ ।
तौ ह पुरुषं सुप्तम् आजग्मतुः ।
तम् एतैर् नामभिर् आमन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्न् इति ।
स नोत्तस्थौ ।
तं पाणिनापेषं बोधयां चकार ।
स होत्तस्थौ

2.1.16

ब्र्हुप्भ्_2,1.15
स होवाचाजातशत्रुः प्रतिलोमं विपरीतं चैतत् ।
किं तत्? यद्ब्रह्मण उत्तमवर्ण आचार्यत्वे ऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावमुपेयात्-उपगच्छेच्छिष्यवृत्त्या ब्रह्म मे वक्ष्यतीति ।
एतदाचारविधिशास्रेषु निषिद्धम्;तस्मात्तिष्ठत्वमाचार्य एव सन् ।
विज्ञपयिष्याम्येव त्वामहं यस्मिन्विदिते ब्रह्म विदितं भवति यत्तन्मुख्यं ब्रह्म वेद्यम् ।
तं गार्ग्यं सलज्जमालक्ष्य विश्रम्भजननाय पाणौ हस्त आदाय गृहीत्वोत्तस्थावुत्थितवान् ।
तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचिदाजग्मतुरागतौ ।
तं च पुरुषं सुप्तं पाप्य एतैर्नामभिः"बृहन् पाण्डरवासः सोम राजन्"इत्येतैरामन्त्रयाञ्चक्रे ।
एवमामन्त्र्यमाणो ऽपि स सुप्तो नोत्तस्थौ, तमप्रतिबुध्यमानं पाणिना आपेषमापिष्यापिष्य बोधयाञ्चकार प्रतिबोधितवान्; तेन स होत्तस्थौ ।
तस्माद्यो गार्ग्येणाभिप्रेतः नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ।
कथं पुनरिदमवगम्यते सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैर्गार्ग्याभिमतस्य ब्रह्मणो ऽब्रह्मत्वं ज्ञापितमिति?
जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म संनिहितः करणेषु यथा, तथाजातशत्र्वभिप्रेतो ऽपि तत्स्वामी भृत्येष्विव राजा संनिहित एव ।
किं तु भृत्यस्वामिनोर्गार्ग्याजातशत्र्वभिप्रेतयोर्यद्विवेकावधारण कारणं तत्सङ्कीर्णत्वादनवधारितविशेषम् ।
यद्द्रष्टुत्वमेव भोक्तुर्न दृश्यत्वम्, यच्चाभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम्, तच्चोभयमिह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम् ।
ननु सुप्ते ऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते नाभोक्तेति नैव निर्णयः स्यादिति ।
न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्यः यो हि सत्येनच्छन्नः प्राण आत्मामृतो वागादिष्वनस्तमितो निम्लोचत्सु, यस्यापः शरीरं पाण्डरवासाः, यश्चासपत्नत्वाद् बृहन्, यश्च सोमो राजा षोडशकालः, स स्वव्यापारारूढो यथानिर्ज्ञात एवानस्तमितस्वभाव आस्ते ।
नचान्यस्य कस्यचिद्व्यापारस्तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ।
तस्मात्स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम्, न च प्रत्यबुध्यत ।
तस्मात्पारिशेष्याद्गार्ग्याभिप्रेतस्याभोक्तृत्वं ब्रह्मणः ।
भोक्तृस्वभावश्चेद् भुञ्जीतैव स्वं विषयं प्राप्तम् ।
न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन्वह्निस्तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ।
न चेद्दहति प्रकाशयति वा प्राप्तं स्वं विषयम्, नासौ वह्निर्दग्धा प्रकाशयिता वेति निश्चीयते ।
तथासौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेद् गार्ग्याभिप्रेतः प्राणो बृहन् पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत, यथा प्राप्तं तृणोलपादि वह्निर्दहेत्प्रकाशयेच्च अव्यभिचारेण तद्वत् ।
तस्मात्प्राप्तानां शब्दादीनामप्रतिबोधादभोक्तृस्वभाव इति निश्चीयते ।
न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ।
अतः सिद्धं प्राणस्याभोक्तृत्वम् ।
सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणादप्रतिबोध इति चेत्? स्यादेतत्-यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाघ्रहणान्मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानो विशेषतो न प्रतिपद्यते, तथेमानि बृहन्नित्येवमादीनि मम नामानीत्यगृहीतसम्बन्धत्वात्प्राणो न गृह्णाति सम्बोधनार्थं शब्दम्, न त्वविज्ञातृत्वादेवेति चेत्?
न;देवताभ्युपगमे ऽघ्रहणानुपपत्तेः ।
यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तथा संव्यवहाराय विशेषनाम्ना सम्बन्धो ऽवश्यं ग्रहीतव्यः, अन्यथा आह्वानादिविषये संव्यवहारो ऽनुपपन्नं स्यात् ।
व्यतिरिक्तपक्षे ऽप्यप्रतिपत्तेर युक्तमिति चेत्? यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात्प्रतिपत्तिर्युक्ता ।
न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः
प्रतिपद्यमानो दृश्यते ।
तस्मादकारणमभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत्?
न;तद्वतस्तावन्मात्राभिमानानुपपत्तेः ।
यस्य प्राणव्यतिरिक्तो भोक्ता स प्राणदेवतामात्रे ऽभिमानो यथा हस्ते ।
तस्मात्प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैवाप्रतिपत्तिः;न तु प्राणस्यासाधारणनामसंयोगे, देवतात्मत्वानभिमानाच्चात्मनः ।
स्वनामप्रयोगे ऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत्? सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ।
तथा भोक्तापि सन्प्राणो न प्रतिपद्यत इति चेत्?
न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ।
सुषुप्तत्वात्प्राणग्रस्ततयोपरतकण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ।
न तु तदसुप्तस्य प्राणस्य भोक्तृत्व उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् ।
अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत्- सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि;तान्यपोह्य
अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम्, लौकिकन्यायापोहात् ।
तस्माद्भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत्? न, देवताप्रत्याख्यानार्थत्वात् ।
केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्याध्यात्मिकस्य प्राणस्याभोकतृत्वे सिद्धे यच्चन्द्रदेवताविषयैर्नामभिः सम्बोधनम्, तच्चन्द्रदेवता प्राणो ऽस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ।
न हि तल्लौकिकनाम्ना सम्बोधनेशक्यं कर्तुम् ।
प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेर्भोक्तृत्वाशङ्कानुपपत्तिः ।
देवतान्तराभावाच्च ।
नन्वतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत्?
न, तस्य प्राण एवैकत्वाभ्युपगमात्सर्वश्रुतिष्वरनाभिनिदर्शनेन ।
"सत्येनच्छन्नम् प्राणो वा अमृतम्"इति च प्राणबाह्यस्यान्यस्यानभ्युपगमाद्भोक्तुः"एष उ ह्येव सर्वे देवाः" "कतम एको देव इति प्राणः"इति च सर्वदेवानां प्राण एवैकत्वोपपादनाच्च ।
तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छदिप्रतिसन्धानानुपपत्तेः;न ह्यन्यदृष्टमन्यः स्मरति जानातीच्छति प्रतिसन्दधाति वा ।
तस्मान्न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते ।
ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति? न;आपेषणे विशेषदर्शनात् ।
यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात्सङ्घातमात्राविशेषात्सदा आपिष्टस्यानापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ।
सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधमोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ।
न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेर्विशेषो युक्तः ।
तथा शब्दादिपटुमान्द्यादिकृतश्च ।
अस्ति चायं विशेषः-यस्मात्स्पर्शमात्रेणाप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषमापिष्यापिष्य बोधयाञ्चकाराजातशत्रुः ।

तस्माद्य आपेषणेन प्रतिबुबुधे ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेनापादयन्, सो ऽन्यो ऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् ।
संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ।
गृहस्य स्तम्भादिवच्छरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम ।
अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ।
तस्माद् गृहादिवत्स्वावयवसमुदायजातीयव्यतिरिक्तार्थंसंहन्यतैत्येवमगच्छाम ।
स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचय-विनाशनामा-कृतिकार्य-धर्म- निरपेक्षलब्ध - सत्तादितद्विषय-द्रष्टृ-श्रोतृ-मन्तृविज्ञात्रर्थत्वं दृष्ट्वा मन्यामहे, तत्सङ्घातस्य च - तथा प्राणाद्यव यवानां तत्सङ्घातस्य च स्वात्म -जन्मोपचया -पचय -विनाशनामाकृति -कार्यधर्म -निरपेक्षलब्धसत्तादितद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति ।
देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत्-प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनाच्चेतनावत्त्वमभ्युपगतम् ।
चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत्?
न;निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् ।
क्रियाकारकफलात्मकता ह्यात्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ।
तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ।
स निरुपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषयोपनिषदारम्भः"ब्रह्म ते ब्रवाणि" "नैतावता विदितं भवति"इति चोपक्रम्य"एतावदरेखल्वमृतत्वम्"इति चोपसंहारात् ।
न चातो ऽन्यदन्तराले विवक्षितमुक्तं वास्ति ।
तस्मादनवसरः समत्वाद् गुणभावानुपगम इति चोद्यस्य ।
विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ।
निरूपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि ।
"स एष नेति नेति"इत्युपसंहारात् ।
तस्मादादित्यादिब्रह्मभ्य एतेभ्यो ऽविज्ञानमयेभ्यो विलक्षणो ऽन्यो ऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥15॥
स्तर्त् ब्र्हुप् 2,1.16
स होवाचाजातशत्रुः -- यत्रैष एतत् सुप्तो ऽभूद् य एष विज्ञानमयः पुरुषः क्वैष तदाभूत् कुत एतद् आगाद् इति ।
तद् उ ह न मेने गार्ग्यः

2.1.17

ब्र्हुप्भ्_2,1.16
स एवमजातशत्रुर्व्यतिरिक्तात्मस्तित्वं प्रतिपाद्य गार्ग्यमुवाचयत्र यस्मिन्काले एष विज्ञानमयः पुरुष एतत्स्वपनं सुप्तो ऽभूत्प्रक्पाणिपेषप्रतिबोधात्; विज्ञानं विज्ञायते ऽनेनेत्यन्तः करणं बुद्धिरुच्यते, तन्मयस्तत्प्रायो विज्ञानमयः ।
किं पुनस्तत्प्रायत्वम्? तस्मिन्नुपलभ्यत्वं तेन चोपलभ्यत्वमुपलब्धृत्वं च; कथं पुनर्मयटो ऽनेकार्थत्वे प्रायार्थतैवावगम्यते? "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः"इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात्, परविज्ञानविकारत्वस्याप्रसिद्धत्वात्,"य एष विज्ञानमयः"इति च प्रसिद्धवदनुवादाद् अवयवोपमार्थयोश्चात्रासम्भवात् पारिशेष्यात्प्रायार्थतैव ।
तस्मात्सङ्गल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत् ।
पुरुषः पुरि शयनात् ।
क्वैष तदाभूदिति प्रश्नः स्वभावविज्ञापयिषया-प्राक्प्रतिबोधात्क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम्;न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते;न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते;तस्मादकर्मप्रयुक्तत्वात्तथास्वाभाव्यमेवात्मनो ऽवगम्यते-यस्मिन्स्वाभाव्ये ऽभूत्, यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति- एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धिव्युत्पादनाय ।
क्वैष तदाभूत्? कुत एतदागात्? इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत्, तथापि गार्ग्येण न पृष्टमिति नोदास्ते अजातशत्रुः, बोधयितव्य एवेति प्रवर्तते ।
ज्ञपयिष्याम्येवेति प्रतिज्ञातत्वात् ।
एवमसौ व्युत्पाद्यमानो ऽपि गार्ग्यो यत्रैष आत्माभूत्प्राक्प्रतिबोधाद् यतश्चैतदागमनमागात् तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा गार्ग्यो ह न मेने न ज्ञातवान् ॥16॥
स्तर्त् ब्र्हुप् 2,1.17
स होवाचाजातशत्रुः -- यत्रैष एतत् सुप्तो ऽभूद् य एष विज्ञानमयः पुरुषस् तद् एषां प्राणानां विज्ञानेन विज्नानम् आदाय य एषो ऽन्तर् हृदय आकाशस् तस्मिञ् छेते ।
तानि यदा गृह्णाति ।
अथ हैतत् पुरुषः स्वपिति नाम ।
तद् गृहीत एव प्राणो भवति ।
गृहीता वाग् ।
गृहीतं चक्षुर् ।
गृहीतं श्रोत्रम् ।
गृहीतं मनः

2.1.18

ब्र्हुप्भ्_2,1.17
स होवाचाजातशत्रुर्विवक्षितार्थसमर्पणाय-यत्रैष एतत्सुप्तो ऽभूद्य एष विज्ञानमयः पुरुषः एतत्सुप्तो ऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्? कुत एतदागात्? इति यदपृच्छाम, तच्छृणूच्यमानम्-यत्रैष एतत् सुप्तो ऽभूत्तत्तदातस्मिन्काले एषां वागादीनां प्राणानां विज्ञानेनान्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन आदाय विज्ञानं वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य एषो ऽन्तर्मध्ये हृदये हृदयस्याकाशः, य आकाशशब्देन पर एव स्व आत्मोच्यते, तस्मिन्स्वे आत्मन्याकाशे शेते स्वाभाविके ऽसांसारिके ।
न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात्-"सता सोम्य तदा सम्पन्नो भवति"इति ।
लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः
यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति, तदासौ स्वात्मनि वर्तत इति कथमवगम्यते? नामप्रसिद्ध्या ।
कासौ नामप्रसिद्धिः? इत्याह-तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णात्यादत्ते अथ तदा हैतत्पुरुषः स्वपिति
नाम-एतन्नामास्य पुरुषस्य तदा प्रसिद्धं भवति ।
गौणमेवास्य नाम भवति ।
स्वमेवात्मानमपीत्यपिगच्छतीति स्वपितीत्युच्यते ।
सत्यं स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याह-तत्त्त्र स्वापकाले गृहीत एव प्राणो भवति ।
प्राण इति घ्राणेन्द्रियम्, वागादिप्रकरणात्;वागादिसम्बन्धे हि सति सदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते ।
वागादयश्चोपसंहृता एव तदा तेन ।
कथम्? गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ।
तस्मादुपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात्स्वात्मस्थ एवात्माभवतीत्यवगम्यते ॥17॥
ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगे ऽपि संसारधर्मित्वमस्य दृश्यते ।
यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते त;तस्माच्छोकमोहधर्मवानेवायम् ।
नास्य शोकमोहादायः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्याध्यारोपिता इति ।
न मृषात्वात् ।
स्तर्त् ब्र्हुप् 2,1.18
स यत्रैतत् स्वप्न्यया चरति ते हास्य लोकाः ।
तद् उतेव महाराजो भवत्य् उतेव महाब्राह्मणः ।
उतेवोच्चावचं निगच्छति ।
स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवम् एवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते

2.1.19

ब्र्हुप्भ्_2,1.18
स प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते तदा ते हास्य लोकाः कर्मफलानि ।
के ते? तत्तत्रोतापि महाराज इव भवति ।
सो ऽयं महाराजत्वमिवास्य लोकः, न महाराजत्वमेव जागरित इव ।
तथा महाब्राह्मण इव, उताप्युच्चावचमुच्चं च देवत्वाद्यवचं च तिर्यक्त्वादि, उच्चमिवावचमिव च निगच्छति ।
मृषैव महाराजत्वादयो ऽस्य लोकाः, इवशब्दप्रयोगाद्व्यभिचारदर्शनाच्च ।
तस्मान्न बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने सम्बध्यत एव ।
ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्ने ऽपि ते ऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न त्वविद्याध्यारोपिता इति ।
ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं चाविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम् ।
तत्कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इवोज्जीविष्यन्प्रादुर्भविष्यति? सत्यम्, विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम्-शुक्तिकायामिव रजतत्वदर्शनम्-इत्येतत्सिद्ध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः;इत्यसन्नपि दृष्टान्तो जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ।
सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणो ऽपुनरुक्तिभवति ।
न तावत्स्वप्ने ऽनुभूतमहाराजत्वादयो लोका आत्मभूताः;आत्मनो ऽन्यस्य जाग्रत्प्रतिविम्बभूतस्य लोकस्य दर्शनात् ।
महाराज एव तावद्व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन्नुपसंहृतकरणः पुनरुपगतप्रकृतिं मबाराजमिवात्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ।
न च तस्य मबाराजस्य पर्यङ्के शयनाद् द्वितीयो ऽन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धो ऽस्ति, यमसौ सुप्तः पश्यति ।
न चोपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ।
न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवो ऽस्ति, देहस्थस्यैव हि स्वप्नदर्शनम् ।
ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति-न बहिः स्वप्नान्पश्यतीत्येतदाह-स महाराजो जानपदाञ्जनपदे भवान्राजोपकरणभूतान्भृत्यानन्यांश्च गृहीत्वोपादाय स्व आत्मीय एव जयादिनोपार्जिते जनपदे यथाकामं यो यः कामो ऽस्य यथाकाममिच्छातो यथा परिवर्तेतेत्यर्थः;एवमेवैष विज्ञानमयः, एतदिति क्रियाविशेषणम्,
प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य स्वे शरीरे स्व एव देहे न बहिः यथाकामं परिवर्तते;कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः ।
तस्मात्स्वप्ने मृषाध्यारोपिता एवात्मभूतत्वेन लोका अविद्यमाना एव सन्तः, तथा जागरिते ऽपि, इति प्रत्येतव्यम् ।
तस्माद्विशुद्धो ऽक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम् ।
यस्माद् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्ने ऽपि, तस्मादन्यो ऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥18॥
स्तर्त् ब्र्हुप् 2,1.19
दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धतावगता आत्मनः ।
तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम् ।
द्रष्टुर्दृश्यसम्बन्धश्चास्य स्वाभाविक इत्यशुद्धता शङ्क्यते;अतस्तद्विशुद्ध्यर्थमाह-
अथ यदा सुषुप्तो भवति ।
यदा न कस्य चन वेद ।
हिता नाम नाद्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततम् अभिप्रतिष्ठन्ते ।
ताभिः प्रत्यवसृप्य पुरीतति शेते ।
स यथा कुमारो अद्द्. वा महाराजो वा महाब्राह्मणो वातिघ्नीम् आनन्दस्य गत्वा शयीत ।
एवम् एवैष एतच् छेते

2.1.20

ब्र्हुप्भ्_2,1.19
अथ यदा सुषुप्तो भवति-यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ।
अथ पुनर्यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्येन प्रसीदति ।
कदा सुषुप्तो भवति? यदा यस्मिन्काले न कस्यन न किञ्चनेत्यर्थः, वेद विजानाति;कस्यचन वा शब्दादेः सम्बन्धि वस्त्वन्तरं किञ्चन न वेदेत्यध्याहार्यम्;पूर्वं तु न्याय्यम्, सुप्ते तु विशेषविज्ञानाभावस्य विवक्षितत्वात् ।
एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम् ।
केन पुनः क्रमेण सुषुप्तो भवति? इत्युच्यते-हिता नाम हिता इत्येवंनाम्न्यो नाड्यः शिरा देहस्यान्नरसविपरिणामभूताः, ताश्च द्वासप्ततिः सहस्राणि, द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि ता द्वासप्ततिः सहस्राणि, हृदयात्-हृदयं नाम मांसपिण्डः-तस्मान्मांसपिण्डात्पुण्डरीकाकारात्, पुरीततं हृदयपरिवेष्टनमाचक्षते,
तदुपलक्षितं शरीरमिह पुरीततमभिप्रतिष्ठन्त इति शरीरं कृत्स्नं व्याप्नुवत्यो ऽश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः ।
तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम्, तत्रस्थबुद्धितन्त्राणि चेतराणि बाह्यानि करणानि ।
तेन बुद्धिः कर्मवशाच्छ्रोत्रादीनि ताभिर्नाडीभिर्मत्स्यजालवत्कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति, प्रसार्यचाधितिष्ठति जागरितकाले ।
तां विज्ञानमयो ऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति ।
सङ्कोचनकाले च तस्या अनुसङ्कुचित;सो ऽस्य विज्ञानमयस्य स्वापः;जाग्रद्विकासानुभवो भोगः;बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी ।
तस्मात्तस्या बुद्धेर्जाग्रद्विषयायास्ताभिर्नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति, तप्तमिव लोहपिण्डमविशेषेण संव्याप्याग्निवच्छरीरं संव्याप्य वर्तत इत्यर्थः ।
स्वाभाविक एव स्वात्मनि वर्तमानो ऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात्पुरीतति शेत इत्युच्यते ।
न हि सुषिप्तिकाले शरीरसम्बन्धो ऽस्ति ।
"तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य"इति हि वक्ष्यति ।
सर्वसंसारदुःखवियुक्ता इयमवस्थेत्यत्र दृष्टान्तः-स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वात्यन्तवश्यप्रकृतिर्यथोक्तकृत्, महाब्राह्मणो वा अत्यन्तपरिपक्वविद्याविनयसम्पन्नः, अतिघ्नीम्-अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्यावस्था सुखावस्था तां प्राप्य गत्वा, शयीतावतिष्ठेत ।
एषां च कुमारादीनां स्वभावस्थानां सुकं निरतिश्यं प्रसिद्धं लोके, विक्रियमाणानां हि तेषां दुःखं न स्वभावतः;तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते प्रसिद्धत्वात् ।
न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वाद्विशेषाभावाच्च ।
विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात्;तस्मान्न तेषां स्वापो दृष्टान्तः ।
एवमेव यथायं दृष्टान्तः, एष विज्ञानमय एतच्छयनं शेते इति, एतच्छब्दः क्रियाविशेषणार्थः ।
एवमयं स्वाभाविके स्वे आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति ॥19॥
स्तर्त् ब्र्हुप् 2,1.20
क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् ।
अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिरसंसारित्वं चोक्तम् ।
कुत एतदागात्? इत्यस्य प्रश्नस्यापाकरणार्थ आरम्भः ।
ननु यस्मिन्ग्रामे नगरे वा यो भवति सो ऽन्यत्र गच्छंस्तत एव ग्रामान्नगराद्वा गच्छति नान्यतः ।
तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः ।
यत्राभूत्तत एवागनमं प्रसिद्धं स्यान्नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव ।
किं श्रुतिरुपालभ्यते भवता? न ।
किं तर्हि? द्वितीयस्य प्रश्नस्यार्थान्तरं श्रोतुमिच्छाम्यत आनर्थक्यं चोदयामि ।
एवं तर्हि कुत इत्यपादानार्थता न गृह्यते;अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे ।
अस्तु तर्हि निमित्तार्थः प्रश्नः-कुत एतदागात्-किन्निमित्तमिहागमनम्? इति ।
न निमित्तार्थतापि, प्रतिवचनवैरूप्यात् ।
आत्मनश्च सर्वस्य जगतो ऽग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते ।
न हि विस्फुलिङ्गानां विद्रवणे ऽग्निर्निमित्तमपादानमेव तु सः ।
तथा परमात्मा विज्ञानमयस्यात्मनो ऽपादानत्वेन श्रूयते"अस्मादात्मनः"इत्येतस्मिन्वाक्ये ।
तस्मात्प्रतिवचनवैलोम्यात्कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम् ।
नन्वपादानपक्षे ऽपि पुनरुक्ततादोषः स्थित एव ।
नैष दोषः, प्रश्नाभ्याम् आत्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात् ।
इह हि विद्याविद्याविषयावुपन्यस्तौ ।
"आत्मेत्येवोपासीत" "आत्मानमेवावेत्" "आत्मानमेव लोकमुपासीत"इति विद्याविषयः ।
तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति ।
तत्राविद्याविषये वक्तव्यं सर्वमुक्तम् ।
विद्याविषयस्त्वात्मा केवल उपन्यस्तो न निर्णीतः ।
तन्निर्णयाय च ऽब्रह्म ते ब्रवाणिऽइति प्रक्रान्तं ऽज्ञपयिष्यामिऽइति च ।
अतस्तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः ।
तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यमत्यन्तविशुद्धमद्वैतमित्येतद्विवक्षितम् ।
अतस्तदनुरूपौ प्रश्नावुत्थाप्येते श्रुत्या ऽक्वैष तदाभूत्ऽ ऽकुत एतदागात्ऽइति ।
तत्र यत्र भवति तदधिकरणं यद्भवति तदधिकर्तव्यम्, यतोश्चाधिकरणाधिकर्तव्ययोर्भेदो दृष्टो लोके ।
तथा यत आगच्छति तदपादानं य आगच्छति स कर्ता तस्मादन्यो दृष्टः ।
तथा आत्मा क्वाप्यभूदन्यस्मिन्नन्यः कुतश्चिदागादन्यस्मादन्यः केनचिद्भिन्नेन साधनान्तरेणेत्येवं लोकवत्प्राप्ता बुद्धिः ।
सा प्रतिवचनेन निवर्तयितव्येति ।
नायमात्मा अन्यो ऽन्यत्राभूदन्यो वा
अन्यस्मादागतः साधनान्तरं वा आत्मन्यस्ति ।
किं तर्हि? स्वात्मन्येवाभूत् ऽस्वम् (आत्मानम्) अपीतो भवतिऽ ऽसता सोम्य तदा सम्पन्नो भवतिऽ ऽप्राज्ञेनात्मना सम्परिष्वक्तःऽ ।
ऽपर आत्मनि सम्प्रतिष्ठतेऽइत्यादिश्रुतिभ्यः ।
अत एव नान्यो ऽन्यस्मादागच्छति ।
तच्छ्रुत्यैव प्रदर्श्यते ऽअस्मादात्मनःऽइति ।
आत्मव्यतिरेकेण वस्त्वन्तराभावात् ।
नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् ।
न, प्राणादेस्तत एव निष्पत्तेः ।
तत्कथम्? इत्युच्यते, तत्र दृष्टान्तः-
स यथोर्णवाभिस् तन्तुनोच्चरेद् यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्य् एवम् एवास्माद् आत्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।
तस्योपनिषत् सत्यस्य सत्यम् इति ।
प्राणा वै सत्यं तेषाम् एष सत्यम्

मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc