भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 9

9.1

ततो मदान्धवनिता कपोलस्थलकौशलम्
सरोजपत्त्रं करजैश् छेत्तुम् आरब्ध गोमुखः ॥

9.2

पत्त्रच्छेद्यं ततस् तस्याः सरितस् तरदम्भसि
सजीवम् इव संपन्नं चलत्वात् पटुरंहसः ॥

9.3

अनुकूलं प्रसर्पन्तं प्रशंसन्तश् च गोमुखम्
पत्त्रच्छेद्यम् अपश्यामो मुक्तावयवसंकरम् ॥

9.4

अस्त्माभिर् अनुयुक्तश् च कथयेति सविस्तरम्
गोमुखो व्याकरोति स्म पत्त्रच्छेदस्य लक्षणम् ॥

9.5

इहार्यपुत्र विज्ञेयं पत्त्रच्छेद्यं समासतः
त्र्यस्रं च चतुरस्रं च दीर्घं वृत्तं च भेदतः ॥

9.6

त्र्यस्रैः चतुष्पदशैला निष्पद्यन्ते गृहादि च
चतुरस्रैः सशालानि पुराणि पुरुषादि च ॥

9.7

दीर्घे नदनदीमार्ग प्रतानभुजगादयः
वृत्ते भूषणसंयोग शकुन्तमिथुनादयः ॥

9.8

गोमुखे कथयत्य् एवम् आगत्य मरुभूतिकः
अहो नु महद् आश्चर्यम् आर्यपुत्रेत्य् अभाषत ॥

9.9

असौ हरिशिखेनोक्तः सर्वम् एव भवादृशाम्
कूपकच्छपकल्पानाम् आश्चर्यं स्थूलचक्षुषाम् ॥

9.10

पश्य दुःश्रद्दधानेति तम् उक्त्वा मरुभूतिकः
इदम् आश्चर्यम् इत्य् उच्चैः पुलिनं नो व्यदर्शयत् ॥

9.11

ततो हरिशिखेनोक्तं कृत्वा हसितम् उल्बणम्
आश्चर्यं पुलिनं पश्य नमस् तस्मै सचक्षुषे ॥

9.12

निम्नेन सलिलं याति पुलिनं सिकतास्थलम्
आश्चर्यं यदि तन् मूढ द्वेषः कः सलिले तव ॥

9.13

सो ऽब्रवीत् केन पुलिनम् आश्चर्यम् इति भाषितम्
पुलिने यत् तद् आश्चर्यम् अथ वा दृश्यताम् इति ॥

9.14

तेनोक्तं पुलिने सन्ति सिकताः किं तद् अद्भुतम्
नेत्य् उक्ते तेन दृष्ट्वा तु पुलिनं गोमुखो ऽब्रवीत् ॥

9.15

मा मा भद्रमुखं कश्चित् परिभून् मरुभूतिकम्
मया हि पुलिने दृष्टं संनिविष्टं पदद्वयम् ॥

9.16

उक्तं हरिशिखेनापि यद्य् आश्चर्यं पदद्वयम्
अत्याश्चर्यम् इदं पश्य पदकोटीश् चतुर्दश ॥

9.17

तेनोक्तं सानुबन्धासु नाश्चर्यं पदकोटिषु
इदं विच्छिन्नसंतानं तेनाश्चर्यं पदद्वयम् ॥

9.18

तेनोक्तं यदि शेषाणि परामृष्टानि पाणिना
भवेयुर् इति तेनोक्तं ततः स्याद् एव वालुका ॥

9.19

येयं तीरतरोः शाखा पुलिनं यावद् आगता
तया गत्वावतीर्णः स्यात् कश्चिन् नागरको यदि ॥

9.20

एताम् एव समालम्ब्य दूरम् आलम्बपल्लवाम्
निवर्तेतेति तेनोक्ते पर्णाकीर्णा मही भवेत् ॥

9.21

कस्य तर्हीति तेनोक्ते दिव्यस्येत्य् अब्रवीत् स तम्
दिव्यानां कतमस्येति स विद्याधरम् आदिशत् ॥

9.22

न स्पृशन्ति भुवं देवाः स्थूलत्वाद् यक्षरक्षसाम्
दूरं पदानि मज्जन्ति पुलिनेषु विशेषतः ॥

9.23

तपःक्षामशरीरत्वात् सिद्धानाम् ऋषिभिः सह
अव्यक्ताङ्गुलिपार्ष्ण्यादि निक्षेपं जायते पदम् ॥

9.24

अन्येषां च मनुष्याणाम् उपपत्त्या नियुज्यते
अवगाढं भवत्य् अग्रे विपरीतं तु योषितः ॥

9.25

भाराक्रान्तः स चेत्य् उक्ते भुयो हरिशिखो ऽब्रवीत्
शिलापादपशत्रूणां को ऽस्य भारो भवेद् इति ॥

9.26

शिलायाम् अवगाढं स्यात् पर्णकीर्णं च पादपे
शत्रौ न शत्रुं पुलिने रमणीये ऽवतारयेत् ॥

9.27

तस्माद् असिद्धविद्यास्य भारो विद्याधरी यतः
न विद्यासिद्धिम् आप्त्वापि जायन्ते पङ्गुवृत्तयः ॥

9.28

आरोपितं च तेनास्या जघनं दक्षिणं भुजम्
निमग्नं येन तस्येदं दक्षिणं कामिनः पदम् ॥

9.29

पतितैर् उत्तमाङ्गाच् च केशधूपाधिवासितैः
मालतीकुसुमैर् वासम् अवकीर्णं न पश्यसि ॥

9.30

रमणीयतरां चैषां न त्यक्ष्यति स निमग्नाम्
तेनान्यत्रापि दृश्यन्तां पदानि निपुणैर् इति ॥

9.31

ततः पौरैर् मदीयैश् च विचिन्वद्भिर् इतस् ततः
स्त्रीपुंसयोर् अदृश्यन्त पदानि सलिलान्तिके ॥

9.32

सहास्माभिस् तम् उद्देशं गत्वा दृष्ट्वा च गोमुखः
तेन नागरकेनापि भाव्यम् इत्य् एतद् उक्तवान् ॥

9.33

कथं वेत्थेति पृष्टश् च स विहस्येदम् उक्तवान्
ज्ञेयं किम् अत्र दुर्ज्ञानम् अथ वा कथयामि वः ॥

9.34

परचित्तानुवृत्तिश् च स्वचित्तस्य च निग्रहः
येयं नागरकैर् उक्ता सा नागरकता मता ॥

9.35

मन्थरं परिसर्पन्तीं कामिनीम् अनुगच्छति
अयं नागरको यस्माद् अतिक्रम्य न गच्छति ॥

9.36

इदानीम् एव तौ यातौ पदवी दृश्यताम् इयम्
तथा हि चरणाक्रान्ति नतम् अद्यापि शाद्वलम् ॥

9.37

इति ताम् अनुगच्छन्तो नवां चरणपद्धतिम्
सप्तपर्णम् अपश्याम प्रवृत्तभ्रमरोत्सवम् ॥

9.38

तन्मूले यानि वृत्तानि रहो विहरमाणयोः
स्वयम् आचरितानीव गोमुखस् तान्य् अवर्णयत् ॥

9.39

इह सा कुपिता तस्मै तेन चेह प्रसादिता
अयं सकुसुमश् चात्र कॣप्तः पल्लवसंस्तरः ॥

9.40

श्रान्ता चात्रोपविष्टा सा तथा चेदं निरूप्यताम्
आसनं जघनाक्रान्ति जातजर्जरपल्लवम् ॥

9.41

निधाय जघने हस्तौ विनमय्य गुरुत्रिकम्
इयं विजृम्भमाणाया मग्नाग्रचरणा मही ॥

9.42

एवं निरूपयन्तश् च सप्तपर्णतलाद् वयम्
निर्यान्तीम् अन्वगच्छाम तयोश् चरणपद्धतिम् ॥

9.43

अथागम्यम् अपश्याम चन्द्रसूर्यानलानिलैः
माधवीगहनं वेश्म कामिनाम् अनिवारितम् ॥

9.44

वारुणीपानसंजात मदभृङ्गविलुप्तया
पुष्पवत्या परिष्वक्तं श्यामया तन् निरन्तरम् ॥

9.45

दृष्ट्वा च गोमुखेनोक्तम् अत्रैवास्ते स कामुकः
प्रच्छन्नं रमणीयं च न हीदं त्यागम् अर्हति ॥

9.46

न चापि दर्शनं युक्तम् आसीनस्य यथासुखम्
तस्मान् मुहूर्तम् अन्यत्र क्वचिद् विश्रम्यताम् इति ॥

9.47

नीलशीतलमूलस्य दूर्वया वटशाखिनः
छायया च पलाशानाम् अतिष्ठाम तले ततः ॥

9.48

गोमुखस् तु तद् आलोक्य लतागृहकम् उन्मुखः
नास्त्य् असाव् अत्र कामीति सशिरःकम्पम् उक्तवान् ॥

9.49

ततो हरिशिखेनोक्तं पूर्वम् अस्तीति भाषसे
इदानीम् अपि नास्तीति सर्वथोन्मत्तको भवान् ॥

9.50

तेनोक्तम् इदम् अत्रस्तं निष्क्रान्तं माधवीगृहात्
शिखण्डिमिथुनं कस्मान् मूकम् अन्ध न पश्यसि ॥

9.51

यदि कश्चिद् भवेद् अत्र त्रस्तम् एतत् ततस् ततः
मुक्तार्तकेकम् उड्डीय वृक्षदुर्गं विशेद् इति ॥

9.52

ततः प्रस्थापयामि स्म विचेतुं परिवारकान्
चलयन्तश् तु हस्तांस् ते शून्यम् आख्यंल् लतागृहम् ॥

9.53

स्वयं तत्राप्य् अपश्याम रचितं प्रस्तरं महत्
प्रकीर्णपल्लवन्यासं किशोरलुठितैर् इव ॥

9.54

तरुशाखावसक्तं च हारनूपुरमेखलम्
अन्यत्रान्यत्र च क्षौमम् अम्भोरुहदलारुणम् ॥

9.55

पतितार्कनिकाशं च विद्याधरधनं क्वचित्
वर्मरत्नं स्फुरद्रत्न प्रभाकुञ्चितलोचनम् ॥

9.56

सर्वं तद् ग्राहयामि स्म पुरुषैर् भूषणादिकम्
तस्मै निर्यातयिष्यामि दृष्टायेत्य् अथ गोमुखः ॥

9.57

अब्रवीद् वैरिणा नूनं स नीतः सह कान्तया
ताभ्यां हि परतन्त्राभ्यां भूषणादीदम् उज्झितम् ॥

9.58

दीर्घायुष्कं च तं वित्त स्निग्धास् तस्य शिरोरुहाः
लग्नाः पादपशाखायाम् अद्यापि हि सुगन्धयः ॥

9.59

एवं निरूपयन्तश् च समन्ताद् दत्तदृष्टयः
नातिदूरम् अतिक्रम्य क्वचित् तुङ्गतरौ वने ॥

9.60

बद्धं स्कन्धे कदम्बस्य पञ्चभिर् लोहशङ्कुभिः
विद्याधरम् अपश्याम लेपविद्याधराचलम् ॥

9.61

अथावतार्यताम् एष स्कन्धाद् इत्य् अभिधाय तान्
अपसृत्य ततश् छायाम् आश्रयामि स्म शाखिनः ॥

9.62

गोमुखस् त्व् अब्रवीन् नैते केनचिल् लोहशङ्कवः
शक्याः क्रष्टुम् उपयेन सर्वैर् अपि सुरैर् इति ॥

9.63

अथाहम् अब्रुवं स्मृत्वा राजाजल्पन् मया श्रुतम्
एता ओषधयः पञ्च सदास्थाः किल वर्मणि ॥

9.64

विशल्यकरणी काचित् काचिन् मांसविवर्धनी
व्रणसंरोहिणी काचित् काचिद् वर्णप्रसादनी ॥

9.65

मृतसंजीवनी चासां पञ्चमी परमौषधिः
यदि वर्मणि ताः सन्ति ताभिः संजीव्यताम् इति ॥

9.66

मुहूर्ताद् इव चागत्य विस्मितो गोमुखो ऽब्रवीत्
प्रसादाद् अर्यपुत्रस्य जीवितः स नभश्चरः ॥

9.67

ता महौषधयो दृष्टा निहितास् तस्य वर्मणि
शल्यप्रोते च हरिणे प्रयुक्ताः क्रमशस् ततः ॥

9.68

तत्र दृष्टप्रभावाभिः स विद्याधरसुन्दरः
अकृताङ्गः कृतः सद्यः समाश्वस्येति भाषते ॥

9.69

जीवितः केन बद्धो ऽहम् इत्य् अथाहं तम् उक्तवान्
अस्माकम् अर्यपुत्रेण प्रकारैस् चतुरैर् इति ॥

9.70

तेनोक्तं किं च युष्माकम् अर्यपुत्रो ऽपि विद्यते
आमेति च मया प्रोक्ते तेनोक्तं न स मानुषः ॥

9.71

अस्माकम् अर्यपुत्रो ऽपि देवो विद्याधरो ऽपि वा
प्रसीदन्तु तम् आख्यात प्रसादं चक्षुषाम् इति ॥

9.72

मयोक्तम् अर्यपुत्रेण वयम् आज्ञापिता यथा
जीवयित्वाभ्यनुज्ञेयो मा स्म पश्यत् स माम् इति ॥

9.73

कृतोपकारस् त्वां द्रष्टुं नायम् इच्छति लज्जया
पुनःसंदर्शनायातस् तात प्रस्थीयताम् इति ॥

9.74

अथ विस्रस्तहस्तेन दत्त्वा जानुनिपातनम्
विनिश्वस्य च तेनोक्तं दैन्यगद्गदया गिरा ॥

9.75

इदानीम् अस्मि सुमृतः प्राणदानोपकारिणम्
स्वामिनं यन् न पश्यामि भविष्यचक्रवर्तिनम् ॥

9.76

प्रदाय यदि मे प्राणान् पश्चात् तापेन खेद्यते
एवं मुञ्चामि भूयस् तान् न चेत् पश्यतु माम् इति ॥

9.77

मया दत्ते ऽभ्यनुज्ञाने पश्यत्व् एवं करोत्व् इति
गां स्पृशञ् जानुशिरसा स माम् इदम् अभाषत ॥

9.78

विद्याधरो ऽमृतगतिः कौशिकस्य मुनेः सुतः
सर्वविद्याधरेशेन प्रणमन् दृश्यताम् इति ॥

9.79

एहीह च मयाहूय स्पृष्टः पृष्ठे निरामयः
सुहृद्दृष्ट्या च दृष्टः सन् प्रहृष्टः समुपाविशत् ॥

9.80

ततो हरिशिखेनोक्तम् उक्तं वृषसुतेन यत्
सत्यं तत् प्रियसंभाषो महानागरको ह्य् अयम् ॥

9.81

इदं श्रुत्वामितगतिर् इदम् अस्मान् अभाषत
नेदं नागरकत्वं मे श्रूयतां च कथा यथा ॥

9.82

अस्ति प्रालेयशैलस्य मनोनयनहारिणि
शिखरे कौशिको नाम मुनिस् तुल्याश्मकाञ्चनः ॥

9.83

तं च बिन्दुमती नाम त्यक्तनन्दनकानना
आराधितवती यत्नात् सुदीर्घं कालम् अप्सराः ॥

9.84

एकदा कौशिकेनोक्ता वरं ब्रूहीति साब्रवीत्
यदि मे भगवान् प्रीतः ततो ऽपत्यं ददात्व् इति ॥

9.85

तेन चोत्पादितं तस्याम् अपत्ययुगलं क्रमात्
अहं च पुत्रः पुत्री च मत्स्वसा मत्सनामिका ॥

9.86

सो ऽहं संवर्धितस् तेन नास्ति तद् यन् न शिक्षितम्
धारयामि च तद्विद्यास् तेन विद्याधरो ऽभवम् ॥

9.87

एकदा पितरं दृष्ट्वा रुदन्तम् अहम् अब्रुवम्
मादृशं पुत्रम् उत्पाद्य किं रोदिति भवान् इति ॥

9.88

तेनोक्तं चक्रवर्तित्वं न ते पश्यामि पुत्रक
अङ्गाद् अङ्गान् मदीयात् तु वृथा जातो भवान् इति ॥

9.89

मयोक्तं मम यः स्वामी स मह्यं कथ्यताम् इति
तेनोक्तं चक्रचर्ती यः स चाप्य् अन्विष्यताम् इति ॥

9.90

मयोक्तं चक्रवर्तित्वं यैश् चिह्नैर् अवगम्यते
दृष्ट्वा तानि धिया मह्यम् आचष्टां भगवान् इति ॥

9.91

तेनोक्तं शत्रुणा बद्धं यस् त्वां शङ्कुभिर् आयसैः
जीवयिष्यति जानीयात् स्वामिनं तं भवान् इति ॥

9.92

मम त्व् अङ्गारको नाम व्यालकश् चाभवत् सुहृत्
सौदर्यो गमयामि स्म ताभ्यां कालं सुखं सह ॥

9.93

अथ वायुपथो नाम राजा तेन सहागमम्
काश्यपस्थलकं नाम पुरं मानसलोभनम् ॥

9.94

तत्रैकदा विचरता मयोपवनचरिणी
दृष्टा कन्यापरिवारा कन्यका कुसुमालिका ॥

9.95

प्रशस्यवर्णसंस्थाना सा मे बुद्धौ स्थिरा स्थिता
प्रशस्तिर् इव विन्यस्ता भित्तौ विन्ध्यशिलाभृतः ॥

9.96

ताम् आदाय तया सार्धं सुहृद्भ्यां च मनोहराः
रतये संचरामि स्म सरिद्गिरितरुस्थलीः ॥

9.97

अङ्गारकम् अथापश्यं पश्यन्तं कुसुमालिकाम्
रागाद् अपत्रपात्रासं वक्रग्रीवानिरीक्षितम् ॥

9.98

लक्षितो ऽहम् अनेनेति लक्षयित्वा सहानुजः
अनामन्त्र्यैव मां नीचो नीचैर् उत्थाय यातवान् ॥

9.99

अहं तु जातवैलक्ष्यात् संरक्ताच् च ततस् त्रसन्
न जानामि क्व यामीति चकितः सह कान्तया ॥

9.100

अद्य चेमां समासाद्य रमणीयां नगापगाम्
अवतीर्णो ऽस्मि पुलिने कोमलामलवालुके ॥

9.101

सुरतानुभवे योग्यं दृष्ट्वा तच् च सुसंवृतम्
लतागृहम् अहं प्राप्तः फुल्लश्यामालतावृतम् ॥

9.102

यच् च शेषम् अशेषं तत् कथितं गोमुखेन वः
तस्माद् आप्तोपदेशो ऽयं न नागरकता मम ॥

9.103

को हि विद्याधरैर् बद्धम् अविद्याधरसैन्यपः
मोचयेन् मादृशं तस्मात् तथेदम् ऋषिभाषितम् ॥

9.104

सेवन्ते सेवकाः सेव्यान् प्रज्ञाप्राणधनादिभिः
येन तेनात्मरक्षार्थं मद्विद्या गृह्यताम् इति ॥

9.105

सद्यः कृतोपकारेण मया मन्दादरेण च
न गृहीताब्रुवं चैनम् अनुगच्छ प्रियाम् इति ॥

9.106

अब्रवीच् च दिनाद् अस्मात् परेणाहम् अहर्निशम्
अप्रमत्तो भविष्यामि भवतो देहरक्षणे ॥

9.107

स्मर्तव्यः संकटे चाहम् इत्य् उक्त्वा नः प्रणम्य च
वेगेनाकाशम् उत्पत्य प्रागाद् अङ्गारकं प्रति ॥

9.108

आदित्यशर्मवचनं वचनं च यक्ष्या यानं प्रदक्षिणम् इषोश् च मरुन्मृगाणाम्
प्रह्लादिनामितगतेः कथितेन जातम् उत्खातसंशयकलङ्कतया विशुद्धम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc