भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 8

8.1

तत्रापश्यं पुरद्वारान् निर्यान्तीं जनताम् अहम्
चित्रालंकारसंस्कारां वाचं कविमुखाद् इव ॥

8.2

तुरंगरथमातङ्ग करेणुशिबिकादिभिः
कुटुम्बिपरिवारो ऽपि यत्रागच्छद् अमण्डनः ॥

8.3

इति संपश्यमानो ऽहम् अपश्यं हस्तिनीगतम्
निष्क्रामन्तं रुमण्वन्तम् आर्यवेषसहायकम् ॥

8.4

अध्यासितवशायूथम् अम्बाद्वयपुरःसरम्
कञ्चुक्यादिपरीवारम् अन्तःपुरम् अतः परम् ॥

8.5

सार्धं मकरयष्ट्या च चञ्चद्रक्तपताकया
गणिकागणम् आकृष्ट प्रमत्तजनमानसम् ॥

8.6

अथ मां गोमुखो ऽवोचद् अर्यपुत्र किम् आस्यते
अयं वः समयो गन्तुम् इत्य् अथाहम् अवातरम् ॥

8.7

संचारिमेरुकूटाभम् आरुह्य ससुहृद् रथम्
नदन्नन्दिमृदङ्गादि तूर्यः प्रचलम् अध्वगम् ॥

8.8

तुरंगहेषितैस् तारैर् मन्द्रैश् च गजगर्जितैः
शिखण्डिघनसंघात निर्घोषए इव जृम्भितम् ॥

8.9

जनसंघट्टनिष्पिष्ट तुलाकोटिकमेखलम्
राजमार्गम् अतिक्रम्य राजद्वारम् अयासिषम् ॥

8.10

सुयामुनस्थस् तत्रस्थम् अनुज्ञाभिनयेन माम्
गच्छ गच्छेति भूपलः क्षिप्तपाणिर् अचोदयत् ॥

8.11

अहं तु तं नमस्कृत्य हर्षम् अस्याभिवर्धयन्
प्रातिष्ठे बन्दिसंघात प्रयुक्तजयघोषणः ॥

8.12

प्राग्द्वारेण च निर्याय जनसंपद्दिदृक्षया
राजमार्गम् अधिष्ठाय मन्दिरं गन्तुम् आरभे ॥

8.13

अथाष्टाभिः शशाङ्काभैः कुङ्कुमस्थासकाङ्कितैः
हेमभाण्डैः प्रवहणं युक्तम् उक्षकुमारकैः ॥

8.14

धवलाम्बरसंवीतं सज्योत्स्नम् इव मन्दिरम्
गृहीतमन्दसंचारं पश्यामि स्म समीपगम् ॥

8.15

तत्र प्रवहणाच्छाद छन्नार्धम् अहम् आननम्
अपश्यं मेघरुद्धार्धम् इव प्रालेयदीपितम् ॥

8.16

ललाटतटविन्यस्त मृदुताम्राङ्गुलिद्वयम्
निबद्धम् अञ्जलिं चारु सरोजमुकुलाकृतिम् ॥

8.17

कामोपचारविज्ञान शून्यो यस्माद् अहं ततः
न जानामि स्म केनापि तं बद्धं वन्दनाञ्जलिम् ॥

8.18

अथ मां गोमुखो ऽवोचत् स्रस्तेन मुकुटेन वः
ललाटम् आवृतं तेन तत् समाधीयताम् इति ॥

8.19

अथामृष्टे ललाटान्ते मया दक्षिणपाणिना
याने कन्याभिर् उन्मुक्तस् तस्मिन् कलकलः पटुः ॥

8.20

अन्यतश् च मुखं कृत्वा पार्श्वस्पन्दनसूचितम्
गोमुखेन स्मितं सद्य उपक्षिप्तं कथान्तरम् ॥

8.21

क्रीडास्थानानि पश्यन्तः कारितानि रुमण्वता
समासीदाम कालिन्दीं तरज्जननिरन्तराम् ॥

8.22

यत् तत् प्रवहणं पूर्वं दृष्टं दृष्टं च तन् मया
उत्तार्यमाणं यमुनां सादरेण रुमण्वता ॥

8.23

उत्साहितनिषादेन सिद्धयात्रेति वादिना
नावः संचरता नावं तेनैवोत्तारिता वयम् ॥

8.24

सुखं विहितसंभारे नदीतटनिवेशिते
स्थित्वा क्रीडागृहे रात्रिम् उत्थिताः प्रस्थितास् ततः ॥

8.25

नातिदूरम् अतिक्रम्य कृच्छ्राल् लब्धान्तराः पथि
प्राप्ता नागवनोद्यानं शोभानिन्दितनन्दनम् ॥

8.26

संततानन्तवृत्तान्तां नितान्तहितकौतुकः
यात्रां पश्यन् प्रयामि स्म जनताङ्गुलिदर्शितः ॥

8.27

सेनापतिस् तु मां नीत्वा प्रांशु काञ्चनतोरणम्
कॣप्तनानाविधाक्रीडं यात्रागृहम् अवशयत् ॥

8.28

तत्राहं ससुहृद्वर्गः क्रीडास्नानाशनादिकः
क्रियाः कुर्वन् नयामि स्म नेत्रोन्मेषसमं दिवम् ॥

8.29

अथ प्रदोषे सेनानीर् आगत्यास्मान् अभाषत
श्वः संपादयिता क्रीडा या वः सा कथ्यताम् इति ॥

8.30

मृगयेति मयाख्याते याते सेनापतौ वयम्
अभिनीय निशां प्रातः प्रतिष्ठामहे काननम् ॥

8.31

अन्ये ऽपि मदनुज्ञाताः प्रीताः पौरकुमारकाः
करेणुकरभाश्वादि वाहनाः संघशो ऽव्रजन् ॥

8.32

अथ दुष्परिसंख्यानम् अपश्यं वनरन्ध्रगम्
प्लुष्टस्थाणुवनाकार पुलिन्दबलम् अग्रतः ॥

8.33

ततो निर्याय पीनाङ्गो निखर्वस् ताम्रलोचनः
सेनापतिः सिंहशत्रुः सेनापतिम् अवन्दत ॥

8.34

तेनोक्तं भ्रातृजाया मे कीदृशी चिन्त्यमेखला
तौ वा शाम्बरसारङ्गौ पुत्रौ कुशलिनाव् इति ॥

8.35

सिंहशत्रुर् अवोचत् तं शिवं नः सकले कुले
यद् अर्थं वयम् आहूतास् तत् समाज्ञाप्यताम् इति ॥

8.36

रुमण्वान् अब्रवीद् एष कुमारः ससुहृत् तव
न्यासस् तेन ससैन्येन प्रयत्नात् पाल्यताम् इति ॥

8.37

नैलहारिद्रकौसुम्भ वासोराशिम् अदापयत्
तैलकुम्भसहस्रं च रुमण्वान् सिंहशत्रवे ॥

8.38

सुसंविहितरक्षं माम् अनुज्ञाप्य रुमण्वति
निवृत्ते गोमुखेनोक्तम् अहो तातेन शोभितम् ॥

8.39

विज्ञातास्मदभिप्रायो न निवर्तेत यद् वयम्
कुमारवटकेवेयं भवेद् दारुणयन्त्रणा ॥

8.40

ततो द्वारादिमृगया प्रकारैर् बहुभिर् मृगान्
निघ्नन्तो घातयन्तश् च न तृप्तिम् अलभामहि ॥

8.41

अथ नाथम् अरण्यान्या द्विषन्तं वाजिकुञ्जरान्
यमाय प्रहिणोति स्म महिषं मरुभूतिकः ॥

8.42

रत्नबुद्बुदचित्राङ्गास् ततो ऽदृश्यन्त संघशः
चरन्तः संचरन्तश् च तत्र वातमजा मृगाः ॥

8.43

तान् हन्तुं दर्शितोत्साहाश् चिरं हरिशिखादयः
भग्नोत्साहा न्यवर्तन्त वीरेभ्य इव भीरवः ॥

8.44

तैस् तु सेनापतिः पृष्टो न दृष्टाः कैश्चिद् ईदृशाः
मृगा यदि च जानासि ततो नः कथ्यताम् इति ॥

8.45

तेनोक्तम् अहम् अप्य् एतान् न जानामि पिता तु मे
प्रस्तावे क्वचिद् आचष्ट यां वार्त्तां कथयामि ताम् ॥

8.46

उत्पद्यते यदा लोके चक्रवर्ती तदा किल
एवंरूपजवाकारा दृश्यन्ते मृगजातयः ॥

8.47

न चेश्वरशरेणापि त्रिपुरेन्धनदाहिना
समासादयितुं शक्याः कुत एवान्यसायकैः ॥

8.48

एतान् प्रदक्षिणीकृत्य येन क्षिप्तः शरः किल
तूणम् आयाति तस्यैव वित्त तं चक्रवर्तिनम् ॥

8.49

तान् अहं बद्धसंरम्भः प्रस्थितश् च विहिंसितुम्
ते च मां दूरम् आकृष्य दिवं हंसा इवास्थिताः ॥

8.50

अथावतीर्य तुरंगाद् गृहीतप्रबलश्रमः
रमणीयसरस्तीर तरुच्छायाम् उपाश्रयम् ॥

8.51

चिरान् मृगयमाणा मां तुरंगपदवर्त्मना
सेनानुबद्धवर्त्मानः प्राप्ता हरिशिखादयः ॥

8.52

ततः कुर्वन् परीहासं माम् अभाषत गोमुखः
कियन्तो वातहरिणा युष्माभिर् निहता इति ॥

8.53

मयोक्तं न मयैको ऽपि हतः क्षिप्तस् तु यः शरः
प्रदक्षिणीकृत्य स तान् एष तूणं ममागतः ॥

8.54

अथ तेनोक्तम् एतस्य शरराजस्य पूजनम्
यश् चक्रवर्तिचिह्नानां स्फुटानाम् अग्रणीर् इति ॥

8.55

सिंहशत्रुर् अथ तामिषुं मुदा गोमुखादिभिर् अपूजयत् सह
सिद्धसार्थवधजातसंमदो दत्तकाङ्क्षितवराम् इवाम्बिकाम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc