बृहत्कथाश्लोकसंग्रह · अध्याय 10
अथ संपादितं तत्र यात्रास्थेन रुमण्वता
अशित्वोदारम् आहारं यात्रायै गन्तुम् आरभे ॥
उक्षवृन्दारकैर् युक्तम् आस्थाय स्यन्दनं सुखम्
हंसैर् इव शशाङ्काभैर् विमानं यादसां पतिः ॥
अखण्डशशिबिम्बाभं गोमुखश् छत्रम् अग्रहीत्
मृष्टहाटकदण्डं च चामरं मरुभूतिकः ॥
रथाग्रावस्थितो रश्मीन् आलम्बत तपन्तकः
आततज्यधनुष्पाणिः पार्श्वं हरिशिखो ऽभवत् ॥
आशितं मृदुघासानां शेषं स्नापितपायितम्
मन्दम् मन्दं च नः सैन्यं स्यन्दनं परितो ऽगमत् ॥
एवंप्राये च वृत्तान्ते चामरं चलयन् मनाक्
दृष्ट्वा हरिशिखं वाक्यम् अवोचन् मरुभूतिकः ॥
चरता मृगयाक्रीडाम् अर्यपुत्रेण पापिकाम्
प्रदाय प्राणिनः प्राणान् धर्मः प्राप्तो महान् इति ॥
तेनोक्तं किम् इहाश्चर्यम् अनुपासितसाधुना
श्रमव्यायामसारेण भाषितं यत् त्वयेदृशम् ॥
भूमिमित्रहिरण्यानां मित्रम् एवातिरिच्यते
तन् मूलत्वाद् इतरयोस् तस्मान् मित्रम् उपार्जितम् ॥
तयोः संजल्पतोर् एवम् अहं गोमुखम् अब्रुवम्
धर्मादीनां प्रधानं यत् तद् आचष्टां भवान् इति ॥
तेनोक्तं धर्ममित्रार्था यतः कामप्रयोजनाः
प्राधान्यं तेन कामस्य कामश् चेच्छासुखात्मकः ॥
पुलिने हि पदं दृष्ट्वा पूर्वम् इच्छा प्रभोर् अभूत्
येनेदम् इह विन्यस्तं तं पश्येयं कथं न्व् इति ॥
तं च दृष्ट्वार्यपुत्रेण सुखम् आसादितं यतः
तन् न मित्रं न धर्मार्थौ किं तु कामो ऽयम् अर्जितः ॥
अन्यो ऽप्य् अस्ति महाकामः स युष्माकं न गोचरः
यूयं हि सर्वकामिभ्यो बाह्या दारुमनुष्यकाः ॥
निर्दिष्टाः कामशास्त्रज्ञैः पुरुषास् तु चतुर्विधाः
उत्तमा मध्यमा हीनाश् चतुर्थास् तु नकेचन ॥
उत्तमो गोमुखस् तेषाम् अर्यपुत्रस् तु मध्यमः
अधमान् कथयिष्यामि भवन्तस् तु नकेचन ॥
ततः क्रोधाद् विहस्येदम् अवोचन् मरुभूतिकः
अहो नागरकत्वं ते निष्पन्नम् अनुजीविनः ॥
अपि बालबलीवर्द सत्यम् एवासि गोमुखः
को नाम मानुषमुखः सन्न् अशुद्धम् उदाहरेत् ॥
उत्तमो गोमुखस् तेषाम् अर्यपुत्रस् तु मध्यमः
प्रभोर् अधिकम् आत्मानम् इत्थं कः कथयेद् इति ॥
तेनोक्तं दृढमूढो ऽसि न किंचिद् अपि बुध्यसे
न हि प्रभुत्वमात्रेण भवत्य् उत्तमकामुकः ॥
यः काम्यते च कामी च स प्रधानम् अहं यथा
अकामी काम्यते यस् तु मध्यो ऽसाव् अर्यपुत्रवत् ॥
यस् तु कामयते कांचिद् अकामां सो ऽधमः स्मृतः
ते नकेचन भण्यन्ते ये न काम्या न कामिनः ॥
इतीदं लक्षणं येषां तान् विजानीत कामिनः
नकेचन भवन्तस् तु येन निर्लक्षणा इति ॥
अथ चामरम् उज्झित्वा स्फुटन्न् इव कुतूहलात्
अपृच्छद् गर्जितमुखं गोमुखं मरुभूतिकः ॥
योषिन् मधुकरी यासाव् उपभोक्तुं व्यवस्यति
स्वामिनो यौवनमधु क्वासौ कथय ताम् इति ॥
तेनोक्तम् अर्यपुत्राय ब्रवीमि यदि पृच्छति
न तुभ्यं स्थलमण्डूक न हि भस्मनि हूयते ॥
अथ बद्धाञ्जलिः प्रह्वो मावोचन् मरुभूतिकः
पृच्छ्यतां स्थिरगर्वो ऽयं प्रसादः क्रियताम् इति ॥
इच्छतापि तम् आलापं लज्जां भावयता मया
अप्रत्याख्यातकथितं कथयेत्य् अनुमोदितम् ॥
अथानन्दाश्रुतिमिरे नेत्रे संमृज्य गोमुखः
संकास्य शुद्धकण्ठश् च रम्याम् अकथयत् कथाम् ॥
अथाहम् अर्यपुत्रेण यौवराज्ये विभूषिते
अभिवादयितुं देव्यौ नरेन्द्रान्तःपुरं गतः ॥
तत्र चित्रं मया दृष्टम् अदृष्टं दिव्यमानुषैः
वर्णक्रमविशुद्ध्या यद् राज्यम् अस्येव भूपतेः ॥
पद्मावत्या च पृष्टो ऽहं किम् अस्मिन् पुत्र गोमुख
पश्यसीति ततो देवि त्रयम् इत्य् अहम् उक्तवान् ॥
किं पुनस् त्रयम् इत्य् उक्ते देव्यै कथितवान् अहम्
ऋद्धिं वः शिल्पिनां शिल्पं बहुरत्नां च गाम् इति ॥
अथ देव्या विहस्योक्तं चेतस्यः खलु गोमुखः
अचेतस्यो हि पुरुषः कथम् एवं वदेद् इति ॥
आसीच् च मम तच् छ्रुत्वा संदेहाध्यासितं मनः
चेतस्यः किं नु गुणवान् आहो स्विद् दोषवान् इति ॥
न च पृष्टा मया देवी ससंदेहे ऽपि चेतसि
मा स्म बुध्यत सा बालम् अचेतस्यं च माम् इति ॥
अपृष्टः को नु कथयेच् चेतस्यम् इति चिन्तयन्
संचरन् मन्दिरं अहं निर्गतो राजवेश्मनः ॥
पश्यामि स्म रथं युक्तं चित्रचामरमण्डनैः
निरन्तरखुरन्यासैः पारसीकैस् तुरंगमैः ॥
रथस्य प्राजिता तस्य पुरुषो मां विनीतवत्
प्रतोदगर्भम् आधाय मूर्धन्य् अञ्जलिम् अब्रवीत् ॥
भर्तृदारक विज्ञाप्यम् अस्मिन् राजकुले वयम्
कुलक्रमागता भृत्या रथवाहनजीविनः ॥
सो ऽहम् आज्ञापितो राज्ञा यथैते पृष्ठवाह्निअः
अचिराद् भवता रथ्याः क्रियन्तां तुरगा इति ॥
मया चैते यथाशक्ति स्कन्धदान्तास् त्वरावता
न तु संभावयाम्य् एतान् कुशलैर् अपरीक्षितान् ॥
तद् एवं रथम् आरुह्य परीक्ष्यन्ताम् अमी त्वया
पदवाक्यप्रमाणार्थ चतुरेण आगमा इव ॥
इदमादि ततः श्रुत्वा क्षणम् आनमिताननः
उपचारो भवेद् एष सत्यम् एवेत्य् अचिन्तयम् ॥
लम्बकर्णम् अथापश्यं विनीतं लम्बशाटकम्
कायस्थं समषीपात्रं लेखनीकर्णपूरकम् ॥
सो ऽब्रवीन् महति क्लेशे पातिताः प्रभुणा वयम्
सर्वथा धिग् इमां क्षुद्रां श्ववृत्तिम् अनुजीविनः ॥
पृथिव्यां सन्ति यावन्तश् चेतस्याः पुरुस्.ओत्तमाः
अचेतस्याश् च कर्तव्यं तेषां लेख्यं मया किल ॥
न चैकम् अपि पश्यामि युक्तं चेतस्यलक्षणैः
अचेतस्यास् तु सकलां क्षोभयन्ति महीम् इति ॥
पुस्तकद्वयहस्तेन तत्र चैकेन भाषितम्
प्रसारिताङ्गुलीकेन माम् उद्दिश्य सकौतुकम् ॥
आगत्यार्याकृतिम् अमुं निर्दाक्षिण्यं न पश्यसि
आजीवार्थचिकित्साकं चिकित्सकम् इवाधनम् ॥
अयं तावद् अचेतस्य पुस्तकादौ निवेश्यताम्
य एवम् अनुनीतो ऽपि रथं नारोढुम् इच्छति ॥
अप्रार्थितो ऽपि यः कश्चिद् आरोहति स लिख्यताम्
चेतस्यपुस्तकस्यादौ नमस्काराद् अनन्तरम् ॥
ततश् चेतस्यतालोभाद् दूरम् उत्प्लुत्य सत्वरः
मा स्मान्यः कश्चिद् आरोहद् इत्य् आरोहम् अहं रथं ॥
तेन वेगवता गच्छन्न् अपश्यं गजम् अग्रतः
सुखायमानं मधुरैर् आलापैर् परिकर्मिणाम् ॥
हस्त्यारोहं रथारोहो विधार्य रथम् उक्तवान्
अन्यतो नय मातङ्गं मा चेतस्यरथं रुधः ॥
तेनोक्तम् अन्यतो यातु चेतस्याध्यासितो रथः
विहन्तुम् अहम् एतस्य नेच्छाम् इच्छामि दन्तिनः ॥
अप्रवृत्तमदस्यास्य मदः सान्त्वैः प्रवर्तते
इच्छायाश् चाविघातेन तेन नः क्षम्यताम् इति ॥
अवोचम् अथ यन्तारं न नाम यदि नेच्छति
आधोरणः पथान्येन रथः प्रस्थाप्यताम् इति ॥
एवं नामेति चोक्त्वा सः परिवर्तितवान् रथम्
चेतस्यावासमध्येन त्वां नयामीति चोक्तवान् ॥
आसीच् च मम दीर्घायुर् अयं भवतु कुञ्जरः
रुन्धता येन मे मार्गं चेतस्या दर्शिता इति ॥
पश्यामि स्म च विस्तीर्ण शिलातलधरातलम्
माल्यभूषणधूपादि प्रायपण्यं वणिक्पथम् ॥
तम् अतिक्रम्य रम्याग्रा हर्म्यमालाः सनिष्कुटाः
सशरीरा इव न्यस्ता वास्तुविद्याकृतां धियः ॥
उत्कटाकारचरिताः समदाः प्रमदाः क्वचित्
तादृशान् एव पुरुषान् सेवमानाः पराङ्मुखान् ॥
पृष्ठतो ऽनुनयन्तं च युवानं युवतिं क्वचित्
तया निर्भर्त्स्यमानं च वाक्यैर् मधुरदारुणैः ॥
अयि बल्लवकापेहि किं मा छुपसि दुर्भगाम्
बहुबल्लवकच्छुप्तां छुप बल्लविकाम् इति ॥
चलयन्तीं क्वचित् कांचिद् विपञ्चीम् अञ्चिताङ्गुलिम्
कांचित् कोणपरामर्श शिञ्जानपरिवादिनीम् ॥
इति संचरमाणो ऽहं रथेन मृदुगामिना
पठन्तीः पट्टिका व्यग्राः पश्यामि स्म कुमारिकाः ॥
कः पुनः स्याद् अयं ग्रन्थ इति श्रोतुं मयेच्छता
दूरात् प्रहितकर्णेन स्फुटम् आकर्णितं यथा ॥
समेत्य पूर्वं न स्वप्यात् सुप्तं च न परित्यजेत्
प्राणापानौ च यत्नेन समं संधारयेद् इति ॥
आसीच् च मम का एता विटशास्त्रम् अधीयते
मन्ये सारथिनोपायैर् अहं वेशं प्रवेशितः ॥
कामदेवालयं चान्यः कुर्वन् को ऽपि प्रदक्षिणम्
अभाषत कृतार्थो ऽहं निद्रां प्राप्स्यामि संप्रति ॥
यो ऽसौ विनयगर्वेण दुःखम् आस्ते स गोमुखः
अवन्ध्यं यौवनं कर्तुम् एष वेशं विगाहते ॥
अवोचम् अथ यन्तारम् अशोभनम् अनुष्ठितम्
अधुना तु रथः क्षिप्रं प्रतीपं नीयताम् इति ॥
तेनोक्तं मा त्रसीर् वेशान् नेदं मातङ्गपक्षणम्
न च दर्शनमात्रेण कश्चिद् भवति दोषवान् ॥
अतीतश् च महान् अध्वा शिष्यते स्तोकम् अन्तरम्
रथः किं पृष्ठतो यातु किं पुरः प्रेर्यताम् इति ॥
मया तु पुर इत्य् उक्ते त्वरितः सारथी रथम्
प्रैरयत् तत्र चापश्यं मन्दिरं मन्दरोन्नतम् ॥
राजावरोधनाकारं द्वास्थाध्यासिततोरणम्
योषिद्वर्षवरप्रायं विनीतजनसंकुलम् ॥
तस्मात् कन्या विनिर्याय हारिहारादिभूषणाः
कान्तिबाधितपद्मिन्यः परिवार्य रथं स्थिताः ॥
तासाम् एकाब्रवित् प्रौढा शिरोविरचिताञ्जलिः
भर्तृदारक विज्ञाप्यम् आगच्छत किलेति माम् ॥
मम त्वासीद् अहो शक्तिर् बत पुण्यस्य कर्मणः
जगतः प्रभुर् अप्य् एषा येन प्रैष्येव भाषते ॥
अचेतनैर् अलं पुण्यैः किलशब्दः प्रलीयताम्
यैः कृता परतन्त्रेयं लक्ष्मीर् येन च सूचिता ॥
किं तु यानि न यानीति संशयाने क्षणं मयि
दैन्यम्लानमुखाम्भोजास् ता निरैक्षन्त पृष्ठतः ॥
अनुयाता च तद्दृष्टिं दृष्टम् उद्घाटितं मया
वातायनं कवाटस्थ मणिजालांशुभासुरम् ॥
तेन शृङ्गारसंचारं तालवृन्तत्रयं चलत्
विभ्रान्तग्राहिणीपाणि करप्रकरपिञ्जरम् ॥
तालवृत्तान्तरालीनं मुखम् उन्नतकण्ठकम्
सरस्तरंगरन्ध्रस्थम् उन्नालम् इव पङ्कजम् ॥
चञ्चत् प्रदेशिनीकं च पाणिम् उच्चैः प्रसारितम्
सुकुमारमरुत्प्राप्तम् इव विद्रुमपल्लवम् ॥
केयम् आहूयतीत्य् एतद् अविचार्यैव यानतः
भुवम् आगतम् आत्मानम् आशु चेतितवान् अहम् ॥
उक्तः सारथिना चास्मि प्रणयं प्रणयीजनः
करोतु सफलं तेन भर्तृपुत्र प्रविश्यताम् ॥
यावतीं च भवान् वेलाम् इहास्ते तावतीम् अहम्
धुर्यान् विश्रमयन्न् आसे जाततीव्रश्रमान् इति ॥
गणिकाभिस् त्व् अहं ताभिर् आरण्यक इव द्विपः
वारीम् इव दृढद्वाराम् आद्यां कक्ष्यां प्रवेशितः ॥
प्रशस्तैर् अन्वितां तत्र प्रदेशैः पुष्करादिभिः
अधीयमानविनयाम् अपश्यं नागकन्यकाम् ॥
द्वितीयायां तु कक्ष्यायां शिल्पिकौशलशंसिनी
कर्णीरथप्रवहणे शिबिकां च शिवाकृतिम् ॥
प्रशस्तलक्षणगणान् रणदाभरणस्रजः
नानादेशांस् तृतीयाणां वाजिनः साधुवाहिनः ॥
चतुर्थ्यां विरुवत्केक चकोरशुकशारिकम्
सरावकुक्कुटव्रातं वयःपञ्जरमण्डलम् ॥
कलाविन्यासकुशलैर् नानाकाराणि शिल्पिभिः
सुवर्णतारताम्राणि कल्पितानि ततः परम् ॥
षष्ठ्यां तु योज्यमानानि गन्धशास्त्रविशारदैः
धूपानुलेपनम्लान वासनानि ततस् ततः ॥
सप्तम्यां रच्यमानानि रङ्गधूपनवासनैः
वासांसि पट्टकौशेय दूकूलप्रभृतीनि तु ॥
अष्टम्यां मणिमुक्तस्य प्रकीर्णबहलत्विषः
संस्कारान् दृष्टवान् अस्मि निशानव्यधनादिकान् ॥
अष्टस्व् अपि च कक्ष्यासु महामात्रादयश् चिरम्
स्वकौशलानि शंसन्तो विघ्नन्ति स्म गतिं मम ॥
आगत्यागत्य ताः कन्याः कान्तरूपविभूषणाः
अब्रुवन् कारणीमूल्याद् भवन्तो मूढबुद्धयः ॥
अयं केनापि कार्येण प्रविशन् भर्तृदारकः
दुर्भगैर् धार्यते कस्मात् स्वशिल्पकथितैर् इति ॥
हेमकुण्डलधारिण्यः पाण्डराम्बरमूर्धजाः
प्रयुक्तरत्नपुष्पार्घम् अवोचन् माम् अथ स्त्रियः ॥
दीर्घायुषा गृहम् इदं चिन्तामणिसधर्मणा
अलंकृतं च गुप्तं च गमितं च पवित्रताम् ॥
ततः संगत्य चेतस्यैश् चेतस्यग्रामणीर् भव
गुणिसङ्गनिमित्ता हि गुणा गुणवताम् इति ॥
सूर्यकान्तशिलाकान्ति निरस्ततिमिरां ततः
कन्यायूथपरीवारः प्राप्तः सोपानपद्धतिम् ॥
तया प्रासादम् आरुह्य वाक्प्रस्पन्दितवर्जिते
प्रसुप्तए इव संसारे चित्रे दृष्टिं न्यवेशयम् ॥
कलाभिर् अथ चित्राभिर् बुद्धिं सर्वविदाम् इव
अप्रमेयगुणाकारां कन्यां कन्याभिर् आवृताम् ॥
अनुमानोपमाशब्दौ सुदूरे ताव् उपासताम्
प्रत्यक्षेणापि तद्रूपं दुर्निरूपं निरूपकैः ॥
चक्षुर् निरीक्ष्य तस्यां हि मूर्छामुषितचेतनः
पाषाणपुरुषाकारः प्रत्यक्षेण किम् ईक्षते ॥
नेश्वरेण च धर्मेण न प्रधानेन नाणुभिः
न च कालस्वभावाद्यैस् तादृशी सुकराकृतिः ॥
अलं तद्रूपकथया तद्गुणाख्यानदीर्घया
करिष्यथ स्वयं तस्या गुणरूपविचारणाम् ॥
तद् अहं तां नमस्कर्तुम् उत्तमाङ्गाहिताञ्जलिः
तद्रूपं विस्मितः पश्यंस् तूष्णीम् आसं मुहूर्तकम् ॥
उन्नमय्य मुखं सापि विकसल्लोचनोत्पलम्
चिरं गोमुख जीवेति मां पूर्वं समभाषत ॥
मम त्व् आसीद् अहो धूर्ता मुग्धाभा चापि खल्व् इयम्
एवं निरभिमाना च ययाहं समयार्थितः ॥
निन्दिता च मयात्मीया बुद्धिर् वाक् च प्रमादिनी
हस्तौ प्रशस्तौ ताभ्यां हि पूर्वम् एव कृताञ्जलिः ॥
सर्वतो हस्तमात्रो ऽहम् अचेतनमुखादिकः
अप्रमत्ता हि जीवन्ति मृता एव प्रमादिनः ॥
इति चिन्तयते मह्यं तया दापितम् आनसम्
निखर्वदन्तचरणं तत्र चाहम् उपाविशम् ॥
सा ह मां क्षणम् आसीनम् अपृच्छद् गोमुखः कुतः
आगच्छतीति कथितं मया राजकुलाद् इति ॥
तयोक्तं कुशली राजा देव्यौ चान्तःपुराणि च
रुमण्वदादयो वापि मन्त्रिणः सपरिग्रहाः ॥
कुमार् इति ततः किंचिद् उल्लाप्यास्फुटरेफकम्
तूष्णींभूता क्षणं दृष्टिं नासाग्रे निश्चलाम् अधात् ॥
पृष्टे हरिशिखादीनां क्रमेण कुशले तया
मया कुशलम् इत्य् उक्तं माम् अपृच्छद् असौ पुनः ॥
जानाम्य् एव यथा बुद्धिः सर्वैः सर्वा सुखेदिता
प्रकर्षो यस्य यस्यां वो विद्यां कथय ताम् इति ॥
मयोक्तम् अर्यपुत्रस्य प्रावीण्यं गजनीतिषु
मानुषैर् अविगह्ये च गान्धर्वज्ञानसागरे ॥
दण्डनीतौ हरिशिखः शास्त्रेषु मरुभूतिकः
रथादियानविद्यासु निष्ठायातस् तपन्तकः ॥
मया तु करभेणेव शमीनाम् अग्रपल्लवाः
गृहीताः सर्वविद्यानाम् एकदेशा मनीषिताः ॥
साब्रवीद् अथ विद्यानाम् आसाम् आसेवनस्य कः
भवताम् उचितः कालः कतमद् वा विनोदनम् ॥
मयोदितं त्रियामान्ते प्रबुद्धाः स्तुतदेवताः
मङ्गलालंकृताः पश्चाद् इतिहासम् अधीमहे ॥
अनुज्ञातास् ततो वैद्यैः सुगन्धिस्नेहधारिणः
अभ्यस्यामः सयानानि नियुद्धान्य् आयुधानि च ॥
ततः स्नात्वा च भुक्त्वा च मुहूर्तं यापितश्रमाः
अर्थशास्त्राणि शंसन्तो महाकाव्यानि चास्महे ॥
निशामुखे ततः सौधे सान्द्रचन्द्रप्रभाजिति
रमामहे सुखं कान्तैर् वेणुतन्त्रीरुतैर् इति ॥
अथ सा नयनान्तेन श्रवणान्तविसारिणा
बालिकाम् अन्तिकासीनां दृष्ट्वापश्यन् मदन्तिकम् ॥
ततः कृच्छ्राद् इवोत्थाय नितम्बभरमन्थरम्
मयासन्ने निविष्टा सा मनाग् अपि न लक्षिता ॥
एवम् अन्यापि गणिका तृणवद् गणिता मया
यदापरा तदायाता रूपिणी रूपदेवता ॥
साब्रवीत् कष्टम् आयातम् इतो गुरु गुरोर् वचः
इतश् चातिथिसत्कारः किम् अत्र क्रियताम् इति ॥
मयोक्तं देवताभ्यो ऽपि गुरवो गुरवो यतः
तस्माद् गुरुर् गुरोर् आज्ञा सैव संपाद्यताम् इति ॥
साब्रवीन् न त्वयोत्कण्ठा कार्या मित्राण्य् अपश्यता
करिष्यति निरुत्कण्ठम् इवं त्वा पद्मदेविका ॥
ममाभिप्रायम् ऊहित्वा लज्जमानेव साब्रवीत्
न युक्तम् अननुज्ञातैः प्रेष्यैर् आसन्नम् आसितुम् ॥
इदं त्व् आस्तीर्णपर्यङ्कं शरणं भर्तृदारकः
प्रविश्य रथसंक्षोभ खेदं विनयताम् इति ॥
तत् प्रविश्य तदादेशाद् विकसद्रमणीयकम्
शयनं हेमरत्नाङ्गं सापाश्रयम् अपाश्रयम् ॥
पादस्थाने ततः स्थित्वा साब्रवीत् कः करोतु वः
मन्दपुण्यैर् असंभाव्यां पादसंवाहनाम् इति ॥
पादसंवाहनं कार्यं भद्रं स्याद् येन केनचित्
संवाहकविशेषेण किम् अत्रेति मयोदितम् ॥
तया त्व् आलम्बिते पादे पाणिभ्याम् अभवन् मम
निर्दोषे मयि केनेयं प्रयुक्ता विषकन्यका ॥
करणान्य् अस्वतन्त्राणि न जाने कीदृशं मनः
विचेष्टानि च मे ऽङ्गानि धिग् अनार्याम् इमाम् इति ॥
सा तु संवाह्य चरणौ मुहूर्तम् इदम् अब्रवीत्
कथं दासजनो वक्षः श्रान्तं वः सेवताम् इति ॥
मम त्व् आसीत् प्रगल्भेयम् अनाचारा च या मम
स्पृष्टपादतलौ हस्ताव् उरस्य् आधातुम् इच्छति ॥
ममाभिप्रायम् ऊहित्वा साब्रवीद् दर्शितस्मिता
उरः स्पृशति वः को वा कराभ्यां मूढधीर् इति ॥
आसीच् च मम काप्य् एषा देवता ब्रह्मवादिनी
परचित्तज्ञता यस्मान् नास्ति रागवताम् इति ॥
तयोक्तं रथसंक्षोभ जातखेदस्य वक्षसः
स्तनोत्पीडितकं नाम संवाहनम् अनिन्दितम् ॥
यदि वाहम् अनुग्राह्या वक्षो वा प्रबलश्रमम्
ततो माम् अनुजानीत भर्तृतन्त्रा हि योषितः ॥
आसीच् च मम धीरेयं निरस्तकरुणा च या
अनुज्ञां लभते यावत् तावद् आस्ते निराकुला ॥
अथैनाम् अब्रुवं बाले परायत्तं निबोध माम्
यः संवाहनशास्त्रज्ञः स स्वतन्त्रः प्रवर्तताम् ॥
उरसा स्तनसारेण सा मदीयम् उरस् ततः
संवाहयितुम् आरब्धा सकम्पेन सवेपथु ॥
सर्वथालं विसर्पन्त्या प्रसङ्गकथयानया
संक्षिप्तवस्तु रम्ये ऽर्थे न कदाचिद् विरज्यते ॥
ततः क्रीडागृहात् तस्माद् बाह्यां ताम् एव वीथिकाम्
उपागच्छं मुहूर्ताच् च ताम् एवार्यसुतागता ॥
वन्दित्वा प्रस्थितं सा मां क्षणम् आलोक्य विस्मिता
आलपन् मधुरालापा स्मितप्रच्छादितारतिः ॥
इदं भवनम् आत्मीयं प्रत्यवेक्ष्यं सदा त्वया
दृश्यमानो भुजंगो ऽपि कालेन परिचीयते ॥
अथ वस्त्रान्तम् आलम्ब्य मदीयं पद्मदेविका
विज्ञाप्यम् अस्ति मे किंचित् तच् च नाद्येत्य् अभाषत ॥
ततो हृदयवासिन्या पद्मदेविकया सह
तम् एव रथम् आरुह्य कुमारागारम् आगमम् ॥
तत्र युष्मान् अभुञ्जानान् पश्यामि स्म मया विना
उपहासं च कुर्वन्तं तं तथा मरुभूतिकम् ॥
दिने ऽन्यत्र च सेवित्वा क्षणं युष्मान् अहं पुनः
गत्वार्यदुहितुर् मूलम् आसेवे पद्मदेविकाम् ॥
उक्तश् चार्यदुहित्राहम् अधीराः सुहृदस् तव
वृत्तान्तो ऽयम् अतस् तेषां मा गमत् कर्णगोचरम् ॥
ततः प्रतिष्ठमानं माम् अवोचत् पद्मदेविका
तद् वः किं विस्मृतं कार्यम् इति मेति मयोदितम् ॥
तयोक्तं कथयिष्यामि पुनर् अप्य् आगताय ते
धत्ते संध्रियमाणं हि रहस्यं रम्यताम् इति ॥
अथापरस्मिन् दिवसे गत्वार्यदुहितुर् गृहम्
शोकमूकप्रवृद्धास्रम् अपश्यम् अबलाजनम् ॥
करद्वयावृतमुखी स्तम्भे लग्ना पराङ्मुखी
मन्दशब्दं मया दृष्टा क्रन्दन्ती पद्मदेविका ॥
ताम् अपृच्छं महाराज्ये वत्सराजे सुराजनि
जङ्गमस्य कुतः शोको युवराजे च राजति ॥
न किंचिद् अपि सावोचन् मया पृष्टासकृद् यदा
तदा किल विषण्णो ऽहं मुमोह च पपात च ॥
तत्र चैका प्रमृज्यास्रं माम् अवोचत् सचेतनम्
त्वन्नाथाश्लाघनीयेयम् अशोच्या पद्मदेविका ॥
अस्यास् तु स्वामिनीं पश्य युवराजे विराजति
यस्याः शोकोपतप्ताया यतो रक्षस् ततो भयम् ॥
अथ वा पश्य ताम् एव पश्यताम् एव पीड्यते
त्वादृशां सुहृदां यस्याः समदुःखसजीवनम् ॥
तदावेदितमार्गेण गत्वा प्रमदकाननम्
दृष्टा कमलिनीकूले तत्रार्यदुहिता मया ॥
मृणालशैवलाम्भोज नलिनीदलसंस्तरम्
शोषयन्ती सनिश्वासैर् मुहुर् विपरिवर्तनैः ॥
मुद्रिकालतिका नाम दारिका हारिका दृशः
तदङ्कन्यस्तचरणा ध्यायन्ती पुरुषोत्तमम् ॥
अथोपगम्य संभ्रान्तस् तां कृताञ्जलिर् अब्रवम्
देवी दुःखाङ्गदानेन संभावयतु माम् इति ॥
साब्रवीद् अलम् आकर्ण्य प्रवृद्धसुखभागिनः
तथा ममाप्रतीकारां लज्जाशोककरीं कथाम् ॥
को हि नन्दनसंचारि कामिनीजनकामुकः
तरन् मकरगम्भीरां विशेद् वैतरणीम् इति ॥
ततः प्रसादयन्ती तां मुद्रिकालतिकाब्रवीत्
भर्तृदारिकया कश्चित् स्मर्यते न विमानितः ॥
यदि च स्वयम् आख्यातुम् अशक्ता भर्तृदारिका
ततो माम् अनुजानातु धृष्टो हि गणिकाजनः ॥
एवम् उक्ताब्रवीद् एवम् एवं नाम निगद्यताम्
अकृत्वा साहसं कैर् वा महाल् लब्धो मनोरथः ॥
न चेमं गोमुखाद् अन्यः श्रोतुम् आलापम् अर्हति
भेदसंधानदक्षो हि दूतः कार्ये नियुज्यते ॥
अथोत्सार्य ततो देशान् मुद्रिकालतिका कथाम्
मह्यम् आख्यातुम् आरब्धा क्षणम् अधीयतां मनः ॥
भरतो नाम राजासीत् त्रिवर्गान्तपरायणः
स समाहृतवान् कान्ताः कुमारीर् आ महोदधेः ॥
युगपत् परिनियाहम् एताः सर्वा रहोगताः
सुखान्य् अनुभविष्यामि संततानीत्य् अचिन्तयत् ॥
यस्याश् च प्रथमं तेन गृहीतः कम्पनः करः
तस्याम् एव स संतुष्टः शुद्धपुण्यार्जिताकृतौ ॥
परिशेषास् तु यास् तासां मनोनयनहारिणः
मनोरुहकराकारान् अष्टौ प्राकल्पयद् गणान् ॥
गणे गणे च प्रमुखां मुखराभरणावृताम्
अनुज्ञातासनच्छत्र चामराम् अकरोन् नृपः ॥
ता गणान्तर्गता यस्माद् अन्यासां च महत्तमाः
तं महागणिकाशब्दम् अलभन्त नराधिपात् ॥
महागुणास् ततश् चान्यास् ततो ऽप्य् अन्यास् ततः पराः
यावद् घटकसंघट्ट कठोरकटयः खलाः ॥
य एष गणिकाभेद इदानीम् अपि दृश्यते
ततः कालात् प्रभृत्य् एव भरतेन प्रवर्तितः ॥
गणमुख्यास् तु यास् तासाम् एकस्यां किल संततौ
जाता कलिङ्गसेनेयं सरस्याम् इव पद्मिनी ॥
सुरासुरोरगस्त्रीणां निन्दन्ती रूपसंपदम्
अनया तनया लब्धा सेयं मदनमञ्जुका ॥
एषा राजकुलं यान्तीं दृष्ट्वा मातरम् एकदा
अहम् अप्य् आचि यामीति पुनः पुनर् अभाषत ॥
ज्ञात्वा तु दृढनिर्बन्धां साची दुहितरं प्रियाम्
गृहीतबालाभरणाम् अनयन् नृपसंसदम् ॥
अथ राजकुलाद् एषा निवृत्ता लक्षिता मया
सविकासैः सतोषेव कपोलनयनाधरैः ॥
स्थिता संप्रस्थितासीना निषीदन्ती च संतताः
करोति स्म सखीमध्ये राजास्थानगताः कथाः ॥
दिनशेषम् अतिप्रेर्य क्षणदां च सजागरा
प्रातः सादरम् आदत्त चित्रं मण्डनम् आत्मनः ॥
प्रस्थिता प्रस्थिताम् दृष्ट्वा राजास्थानाय मातरम्
तया पृष्टा क्व यासीति यत्र त्वम् इति चाब्रवीत् ॥
तयोक्तम् अननुज्ञातैः पुत्रि गन्तुं न लभ्यते
राजास्थानं तनुस्नेहाः परुषा हि नराधिपाः ॥
तेन मातर् निवर्तस्व लब्धानुज्ञा गमिष्यसि
धृष्टा हि द्वेष्यतां यान्ति प्रणयिन्यो ऽपि योषितः ॥
मधुराश् चोपपन्नाश् च श्रुत्वा मातुर् इमा गिरः
कटुका दुर्घटाश् चेयं मन्यमाना न्यवर्तत ॥
दृष्टनष्टनिधानेव दरिद्रवणिगङ्गना
मुक्तनिद्राशनालापा शय्यैकशरणाभवत् ॥
एकदा प्रस्तुतकथाः सखीर् इयम् अभाषत
स्वप्तुम् इच्छाम्य् अहं सख्यस् तावन् निर्गम्यताम् इति ॥
यातासु तासु मनसा यत्सत्यं मम शङ्कितम्
एताः प्रस्थापिताः सख्यः किम् अकारणम् एतया ॥
या सखीभिर् विना निद्रां नैव लब्धवती पुरा
तस्यास् ता एव निघ्नन्ति निद्राम् इति न बध्यते ॥
चिन्तयित्वेति तिष्ठन्ती जालवातायनावृता
मण्डनव्यापृताम् एतां पश्यामि स्म सदर्पणा ॥
अभिराजकुलं स्थित्वा बद्धाञ्जलिर् अभाषत
जन्मान्तरे ऽपि भूयासम् अहं तस्मिन् वधूर् इति ॥
दुकूलपाशम् आसज्य कंधरायाम् अनन्तरम्
उदलम्बयद् आत्मानं सत्वरा नागदन्तके ॥
वेगाद् इषुर् इवागत्य प्राणापहरणोद्यतम्
कण्ठपाशं तम् एतस्याः कालपाशम् इवाक्षिपम् ॥
शयनीयम् अथानीय सजलैर् व्यजनानिलैः
बलात् प्रत्यानयं संज्ञां प्रेतराजकुलाद् अहम् ॥
क्रमेणोन्मील्य नयने मन्थरा ताम्रतारके
निनीय मयि मत्तश् च प्रत्याहृत्येदम् अब्रवीत् ॥
तद् मित्रम् अतिकष्टाद् यद् व्यसनात् किल रक्षति
व्यसने प्रहरन्त्या तु शत्रुत्वं दर्शितं त्वया ॥
अहं हि सर्वदुःकानाम् इदम् उत्पन्नम् आलयम्
त्वया जीवितम् उज्झन्ती विधृता किम् अकारणम् ॥
आनुकूल्येन निर्वाह्य कालम् एकपदे त्वया
विघ्नन्त्या मम संकल्पं दर्शिता प्रतिकूलता ॥
यद् एतद् उच्यते लोके सर्वथा न तद् अन्यथा
अशेषोपायदुःसाध्यो मित्रम् शत्रुर् महान् इति ॥
ब्रुवाणाम् इत्य् असंबद्धम् इत्य् एनाम् अहम् अब्रुवम्
स्वामिनि प्रभुर् इत्य् अस्मान् उपालम्भेन तक्षसि ॥
इदं कथय नस् तावद् व्यसने ऽभ्युदये ऽपि वा
स्वामिन्या वयम् आयाते कस्मिन् नाभ्यन्तरीकृताः ॥
जातासि कृपणेदानीं दासवर्गम् अपास्य या
तनुम् एकाकिनी त्यक्त्वा सुखम् आसितुम् इच्छसि ॥
दुःखहेतुम् अतः शंस यदि साध्यं भविष्यति
जीविष्यामस् ततः सर्वा मरिष्यामो विपर्यये ॥
अथ स्थित्वा क्षणं तूष्णीं शनकैर् इदम् अब्रवीत्
एकजीवशरीरायै किं तुभ्यम् अपि कथ्यते ॥
अथ जानन्त्य् अपि त्वं मां निर्लज्जयितुम् इच्छसि
इदम् आख्याय ते को वा स्त्रीभ्यः साहसिकः परः ॥
अहं राजकुलं याता देवेनाहूय सादरम्
दक्षिणं परिघाकारम् ऊरुम् आरोपिता तदा ॥
उपविष्टस् तु नृपतेर् ऊरौ वामे नृपात्मजः
मया दृष्टः प्रविष्टश् च हृदयं मे अनिवारितः ॥
दहने ऽपि वसन्न् अन्तर् न दहत्य् अरणीं स तु
सौम्यो ऽपि पुण्यवान् अस्मान् निर्धूमं दग्धुम् इच्छति ॥
स हेतुर् अस्य दुःखस्य सकृद्दर्शनम् आगतः
अधुना श्रूयमाणो ऽपि किं वा विलपितैर् इति ॥
श्रुत्वेदम् अहम् अस्यास् तु जाता यत् सत्यम् आकुला
उपायम् एतम् आशङ्क्य समुद्रोत्सेकदुष्करम् ॥
हा हेति हसितेनोच्चैर् गूहमाना विषण्णताम्
एताम् आश्वासयामि स्म निःसारैर् वचनैर् इति ॥
मुञ्च स्वामिनि संतापम् अपि विद्याधरेश्वरम्
वशयेयं तव प्रीत्यै किं पुनः पुरुषेश्वरम् ॥
किं तु त्वारवता शक्यं न लब्धं फलम् ईप्सितम्
राजानो ऽपि हि सामादीन् क्रमेणैव प्रयुञ्जते ॥
तेन धैर्यप्रकर्षेण मनः स्.अम्धृत्य चञ्चलम्
लोकेनालक्षिता कांश्चित् सहस्व दिवसान् इति ॥
तं चेयं सिद्धम् एवार्थम् अर्थिभावाद् अबुध्यत
अन्तश् चाकथयत् तोषं विकसन् मुखपङ्कजा ॥
दिवसे दिवसे चैतां वचोभिर् मधुरानृतैः
कार्यसंसिद्धसंबद्धैर् दर्शिताशाम् अयापयम् ॥
वन्ध्योत्तरैर् यदात्मानं वञ्च्यमानाम् अमन्यत
मोक्तुकामा तदा प्राणान् पुनर् उत्प्रेक्षिता मया ॥
ततः संभ्रान्तया गत्वा मयास्या मातुर् अन्तिकम्
संप्रधार्य तया सार्धम् उपायो ऽयम् अनुष्ठितः ॥
शरीरं राजपुत्रस्य द्वितीयम् इव गोमुखः
स केनचिद् उपायेन वेशम् आशु प्रवेश्यताम् ॥
स एव सहचारित्वाद् आनेष्यति नृपात्मजम्
मनःश्रोत्रहरालापो वसन्तम् इव कोकिलः ॥
कलिङ्गसेनया चायं वृत्तान्तः कथितस् तदा
पद्मावत्यै तया चासि चेतस्य इति भाषितः ॥
ततः सारथिकायस्थ हस्त्यारोहादिभिस् तथा
धूर्तैर् अस्मत्प्रयुक्तैस् त्वं वेशम् एतं प्रवेशितः ॥
तिसृणां च प्रयुक्तानाम् अभवद् भवतः प्रिया
तन्त्रीणां वर्णतन्त्रीव मधुरा पद्मदेविका ॥
सा तु निर्वर्तितस्वार्था सुहृदर्थपराङ्मुखी
न निवेदयते तुभ्यं स्वार्थभ्रंशविशङ्कया ॥
नोपायम् अपरं दृष्ट्वा प्रयुक्तं भर्तृदारिका
असाध्यायतनिश्वासा निराशा दृश्यताम् इति ॥
तद् इदं दुःसहं दुःखं यस्माद् अस्माकम् आगतम्
त्वदायत्तः स शेषश् च संविधत्तां भवान् इति ॥
अथाहम् अब्रुवं कस्मान् नखच्छेद्यम् उपेक्षया
कुठारच्छेद्यतां नीतं भवतीभिर् इदं तृणम् ॥
स्वयम् एव ततो गत्वा देवी विज्ञापिता मया
मुच्यताम् एष संतापः सिद्धं विद्धि प्रयोजनम् ॥
युवराजार्थिनी देवी स चर्7तगुणवत्सलः
संधाता गोमुखश् चेति धन्यस् त्रिकसमागमः ॥
नास्त्य् एव च ममायासः शरत्कान्त्युन्मना यतः
राजहंसो हि नलिनीं स्वयम् एवोपसर्पति ॥
अलं चालापजालेन सर्वथाहं नृपात्मजम्
स्वामिन्यै कारयिष्यामि प्रणामम् अचिराद् इति ॥
साब्रवीन् न नसंभाव्यम् इदं नागरके त्वयि
किं तु प्रस्तावम् आसाद्य यतेथाः कार्यसिद्धये ॥
अप्रस्तावप्रयुक्ता हि यान्ति निष्फलतां क्रियाः
अनिष्टफलतां वापि कोपयित्वा प्रभून् इति ॥
ततस् तस्यै नमस्कृत्य कुमारवटकाम् अगाम्
उच्छिष्टान् आगतश् चास्मि गृहीत्वा मोदकादिकान् ॥
तां च विज्ञापयामि स्म राजपुत्रेण मोदकः
स्वयम् आरभ्य हस्ताभ्यां युष्मभ्यं प्रहिता इति ॥
साब्रवीज् जालम् अप्य् एतद् आश्वासयति मादृशम्
आश्वासन्ति क्षणं दृष्ट्वा मृगा हि मृगतृष्णिकाम् ॥
माल्यचन्दनताम्बूल वासोभूषणधूपनैः
युष्माभिः प्रेषितानीति ताम् आश्वासितवान् अहम् ॥
एष विज्ञापयाम्य् अद्य श्वो विज्ञापयितेति च
अलब्धावसरः कालम् एतावन्तम् अयापयम् ॥
अथ माम् अब्रवीद् देव्याः पुरतो मुद्रिकालता
अहो संभावना कार्या महानागरको भवान् ॥
प्रणामं कारयामीति विस्फूर्ज्य भवता तथा
किम् इयं वञ्च्यते मुग्धा पत्रपुष्पफलादिभिः ॥
अथ वा तिष्ठ तावत् त्वम् अहम् एवानयामि तम्
विरक्तम् अपि संधातुम् अलं कौशलम् अस्ति नः ॥
एवम् उत्तेज्जितस् तस्या गुरुभिर् वचनैर् अहम्
फलेन ज्ञास्यसीत्य् उक्त्वा प्रस्तावावहितो ऽभवम् ॥
यात्रायां तु प्रवृत्तायाम् अभ्यासे ऽत्र यद् एव मे
तन् मया कारिता यूयं क्षिप्त्वा हरिशिखादिकान् ॥
यत् तत् प्रवहणं गच्छत् पथि युष्माभिर् ईक्षितम्
तद् अर्यदुहिताध्यास्त विद्युदभ्रम् इव ध्वनत् ॥
यत्र यत् तन्मुखस्यार्द्धं ललाटनिहिताङ्गुलि
युष्मभ्यं दर्शितं वन्द्यं तत् तया वन्दमानया ॥
यच् च विज्ञापिता यूयम् आनतं मुकुटं मनाक्
उन्नम्यताम् इति मया तत्रापीदं प्रयोजनम् ॥
आसीद् आसां प्रणामो ऽयम् अर्यपुत्रेण नागरः
कृतस् तोषयता कान्ताम् अस्माकं स्वामिनीम् इति ॥
सेयं कामयते देवं देवी मदनमञ्जुका
प्रज्ञापराक्रमप्राणं लक्ष्मीर् इव नराधिपम् ॥
अयत्नोपनता चेयं न प्रत्याख्यातुम् अर्हति
नवेव मालती माला लोभनीयगुणाकृतिः ॥
दष्टानङ्गभुजंगेन लघु संभाव्यताम् असौ
न ह्य् आशीविषदग्ध अन्त्राः क्षमन्ते दिवसान् इति ॥
इति गोमुखतः श्रुत्वा कथां नवदशप्रियाम्
तत्कथापहृतव्रीडः प्रकाशम् अहम् अब्रवम् ॥
तदैव हृदये ऽस्माकं राजोत्सङ्गनिषण्णया
अशीर्णं मन्मथतरोः प्रकीर्णं बीजम् एतया ॥
तद्गुणश्रवणाम्भोभिः सिच्यमानं तदा तदा
बाधमानं मनो जातम् उच्छ्वसत्कर्कशाङ्कुरम् ॥
तद् दोहदम् इवासाद्य प्रियां प्रवहणे स्थिताम्
कम्पनिःश्वासजननान् अमुञ्जत् पल्लवान् इव ॥
समाप्तावयवो यावन् मनोभवमहातरुः
न समाक्रम्य मृद्नाति तावद् दर्शय ताम् इति ॥
तेनोक्तं नर्तनाचार्याव् अस्पर्धेतां परस्परम्
त्वत्प्रवीणो ऽहम् इत्य् उक्तौ तौ च भूपतिना किल ॥
अलं वां कलहं कृत्वा कर्मशास्त्रविदौ युवाम्
यस्य या कुशला शिष्या स नर्तयतु ताम् इति ॥
श्वः सुयामुनदन्तां च तस्माद् अर्यसुतां च नः
नृत्यन्तीं नृपतिर् द्रष्टा तत्र द्रष्टास्थ ताम् इति ॥
या स्वाभाविकरूपखण्डितजगद्रूपाभिमाना प्रिया शृङ्गारादिरसप्रयोगसुभगा जायेत सा कीदृशी
इत्य् अध्यासितचेतसा कथम् अपि प्रक्रान्तया चिन्तया पर्यङ्काङ्कविवर्तिनार्ततनुना नीता त्रियामा मया ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0