भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 7

7.1

ततस् तातः सभां दृष्ट्वा तथा संजातसंपदम्
यथाप्रधानम् आभाष्य विनीतवद् अभाषत ॥

7.2

किम् अत्र पृच्छ्यते यत्र क्षिप्ताङ्गिरसबुद्धयः
अपृष्टा एव भाषध्वे प्रीतिनिर्वासितत्रपाः ॥

7.3

तेन यद् रोचते साधु पूज्येभ्यः पूजितं दिनम्
तत्रायं स्वसुतः प्रीत्या बालः संस्क्रियताम् इति ॥

7.4

अथ प्रस्तावए एतस्मिन्न् अनुज्ञातप्रवेशया
कलिङ्गसेनया राजा दूराद् एव नमस्कृतः ॥

7.5

एहीति सा नृपेणोक्ता न अतिमन्थरविक्रमा
उपगम्योपपर्यङ्कम् अध्यास्तादिष्टम् आसनम् ॥

7.6

आयुक्तमौक्तिकस्तोक भूषणा विमलाम्बरा
सरद्विमलहंसेव चकाशत् काशचामरा ॥

7.7

कंधरामूलविस्रस्त श्लथबन्धशिरोरुहा
पश्चिमाचलकूटस्थ तिमिरा द्यौर् इवोषसि ॥

7.8

यौवनान्तम् अनुप्राप्ता प्रावृडन्तम् इवापगा
चलच्चटुलताकारा भृतापि निभृताकृतिः ॥

7.9

विनीतापि प्रगल्भेव स्थविरेव तरुण्य् अपि
मितवाग् अपि वाचाला व्याख्यातव्या हि तन्मतिः ॥

7.10

उपविष्टा पुरस् तस्या दशवर्षेव बालिका
तया मे दृष्टिर् आकृष्टा गुणैर् नौर् इव मन्थरा ॥

7.11

अचिरस्थापितस्फीत भङ्गुरस्निग्धमूर्धजा
निलीनकोकिलकुला तन्वी चूतलतेव सा ॥

7.12

निमेषोन्मेषशून्येन सहजायाम् अशोभिना
चक्षुषा वीक्ष्यमाणा मां सहस्राक्षम् इवाकरोत् ॥

7.13

रूढा दाडिमगर्भाभ दशनोद्भासतिआनना
द्राडिमीमुकुलाकार विभक्तदशनच्छदा ॥

7.14

सितसारसनोन्नध महारजनकञ्चुका
रक्तेन्दीवरमालेव मृणालदलबन्धना ॥

7.15

उन्नीयन्ते स्म बालायाश् चिह्नैर् अङ्गानि कोमलैः
लतायाः सहकारस्य फलानि मुकुलैर् इव ॥

7.16

अथापृच्छन् महीपालः कस्येयं रूपिणीर् इति
दुहितृत्वम् अनुप्राप्ता नामास्याः कथ्यताम् इति ॥

7.17

कलिङ्गसेनयाख्यातं शोच्येयं तनया मम
याम् एव पृच्छति स्वामी भृत्यां मदनमञ्जुकाम् ॥

7.18

ततः सस्नेहम् आहूय मातर् एहीति भूपतिः
ऊरूम् आरोपयद् बालां सा चेमां वामलोचनाम् ॥

7.19

द्रुतम् आदित्यशर्मा च गृहीत्वा लग्नम् अब्रवीत्
अहो चित्रम् इति स्मेरम् अभूच् च नृपतेर् मुखम् ॥

7.20

युधमानरजन्मेष विषाणोन्मेषजन्मना
ध्वनिनापि न तच्चक्षुर् आक्षिप्तं निहितं मयि ॥

7.21

राजा तु वस्त्राभरणम् अनल्पम् अपकल्मषम्
साम्बायै दापयित्वास्यै तदास्थानं व्यसर्जयत् ॥

7.22

अन्तःपुरं महीपालः कुमारवटकाम् अहम्
दीर्घम् उष्णं च विश्वस्य बाला स्वं भवनं ययौ ॥

7.23

अथ पुण्ये दिने राजा द्विजराजजनावृतः
स्वयं भद्रासनस्थं मां यौवराज्ये ऽभिषिक्तवान् ॥

7.24

तथा हरिशिखं राजा मुदाज्ञापितवान् इति
यत्र प्रस्थाप्यते भर्ता गन्तव्यं तव निर्व्यथम् ॥

7.25

सेनापतिश् च मन्त्री च भवान् भवतु सोद्यमः
इत्य् आज्ञापितवान् राजा प्रह्वं हरिशिखं ततः ॥

7.26

खड्गचर्मधरो रक्षेद् अप्रमत्तः प्रभुं भवान्
इत्य् आज्ञया प्रमुदितं कृतवान् मरुभूतिकम् ॥

7.27

आदिशद् गोमुखं भर्तू रमणीयं मनस् त्वया
रमणीयैः क्रियालापैर् अपवादोज्झितैर् इति ॥

7.28

तपन्तकम् अथावोचत् कर्णकुण्डलवृत्तिना
न त्याज्यो भवता स्वामी कदाचिद् इति पार्थिवः ॥

7.29

तैर् अहं संवृतो ऽन्यैश् च गृहीतछत्त्रचामरैः
मङ्गलालंकृताङ्गश् च सुरविप्रान् अवन्दिषि ॥

7.30

पितुर् मातरम् आसीनां पितरं च समन्त्रिणम्
अम्बाद्वयप्रधानं च स्फीतं राजावरोधनम् ॥

7.31

ततः पुष्परथारूढः प्रसर्पन् मङ्गलध्वनिम्
पुष्पपल्लवलाजाद्याम् आक्रामं परितः पुरीम् ॥

7.32

ततः प्राप्ताभिषेको ऽहं सार्धं हरिशिखादिभिः
स्वाधिकारपरैः क्रीडन् संवत्सरम् अयापयम् ॥

7.33

वर्षाभिषेके निर्वृत्ते पूर्वेण समडम्बरे
आवृत्त्या सर्वविद्यानां स्थिरताम् उदपादयम् ॥

7.34

एवं मे समतीतेषु केषुचिद् दिवसेष्व् अहम्
प्रातर् भोजनवेलायां न पश्यामि स्म गोमुखम् ॥

7.35

न चानेन विना मह्यं निर्वाणम् अपि रोचते
तेनानेन विनास्मभिर् अभुक्तैर् गमितं दिनम् ॥

7.36

ज्ञायतां गोमुखः क्वेति मयोक्ते मरुभूतिकः
उन्मत्तकः स संवृत्त इत्य् अवोचद् गतागतः ॥

7.37

यदि चात्रार्यपुत्रस्य नास्ति संप्रत्ययस् ततः
गत्वा तपन्तकस् तस्य विकारान् प्रेक्षताम् इति ॥

7.38

ततस् तपन्तको गत्वा पुनर् आगत्य चोक्तवान्
आर्यपुत्र न तन् मिथ्या यद् आह मरुभूतिकः ॥

7.39

विमलादर्शसंक्रान्तं मुखम् आलोक्य गोमुखः
कम्पयित्वा शिरः क्रोधान् निर्दारयति लोचने ॥

7.40

कदाचिच् च स्मितं कृत्वा प्रसन्ने नेत्रतारके
संचारयति कर्णान्तं कदाचिन् नासिकान्तरम् ॥

7.41

मधूच्छिष्टनिगृष्टौ च ताम्बूलद्रवलोहितौ
विवृत्य दूरम् अधरौ दन्तान्तेनापि निश्यति ॥

7.42

विकारान् एवमाकारान् दृष्ट्वा तस्याहम् आगतः
तेनार्यपुत्र त्वरितं क्रियास्य क्रियताम् इति ॥

7.43

अथानन्तरम् आगत्य संभोगमृदिताम्बरः
प्रागल्भ्यान् मृदुवैलक्ष्यो माम् अवन्दत गोमुखः ॥

7.44

कच्चित् स्वस्थो ऽसि भद्रेति मयोक्तः सन्न् अभाषत
किम् अर्थं चाहम् स्वस्थो न ह्य् अहं मरुभूतिकः ॥

7.45

यो हि नागरकं मन्यो मन्यते माम् अनामयम्
उन्मत्तकं स उन्मत्तः प्रकृतिभ्रष्टमानसः ॥

7.46

अथ शास्त्रोपनिषदस् तात यौगन्धरायणात्
अहं शिक्षितुम् आरब्धः स चापि व्यापृतः सदा ॥

7.47

व्याचष्टे च तदा मह्यम् अन्तरं लभते यदा
तेन मां मा प्रतीक्षध्वं भोजनायोद्यता इति ॥

7.48

ततश् चारभ्य दिवसात् सायम् आयातवान् अयम्
कदाचिद् दिवसे ऽन्यस्मिन् द्वयोस् त्रिषु गतेषु च ॥

7.49

एकदा भोजनस्यान्ते कुतो ऽप्य् आगत्य सादरः
अहो शोभन्तए इत्य् उच्चैः प्राशंसत् खण्डमोदकान् ॥

7.50

मया तु दापितान् अन्यान् क्रुध्यन्न् इव विहाय सः
बलाद् आकृष्य गतवान् स्वयम् उच्छिष्टमोदकान् ॥

7.51

आर्यपुत्र स्फुटीभूतम् उन्मत्तत्वं प्रियस्य वः
अचिकित्स्यश् च संवृत्त इत्य् अवोचत् तपन्तकः ॥

7.52

एवम् आभरणं वासस् ताम्बूलं चन्दनादि च
लब्धलब्धं गच्छति स्म गृहीत्वा क्वापि गोमुखः ॥

7.53

एवंप्राये च वृत्तान्ते कुमारवटकं गतः
निवेदिताभ्यागमनो रुमण्वान् माम् अवन्दत ॥

7.54

तं तातम् इव दृष्ट्वाहम् उपक्रान्तश् च वन्दितुम्
तेन चोद्धतहस्तेन तात मा मेति वारितः ॥

7.55

उक्तं च न त्वया तात बालेन वास्मदादयः
वन्द्यस् त्वम् अधुना प्राप्तो लोके ऽस्मिंल् लोकपालताम् ॥

7.56

अन्यच् च राजसंदेशम् आख्यातुम् अहम् आगतः
यत् त्वाम् आह महाराजः सभृत्यं तन् निबोध्यताम् ॥

7.57

पुर्याम् अत्र शरत्काले यात्रा चित्रा प्रवर्तिता
या नागवनयात्रेति न क्वचिन् न विकथ्यते ॥

7.58

एतावन्तं च सा कालं युष्मभ्यं न प्रकाशिता
मा भूद् विद्याविघातो वस् तद्व्याक्षिप्तधियाम् इति ॥

7.59

चित्तापहारिणी यात्रा हार्यचित्ता च बालता
चित्तविद्या च विद्येत दुर्घटस् त्रिकसंगमः ॥

7.60

उक्तं चाजागरूकस्य मन्दबुद्धेः सुखात्मनः
ग्रन्थभीरोश् च सिध्यन्ति न शास्त्राणि तपांसि च ॥

7.61

अधुना बुद्धबोद्धव्याः प्राप्तकोमलयौवनाः
भवन्तो निःसुखाः सन्तः संतपन्तीव मे मनः ॥

7.62

तद् अस्ति यदि वः काङ्क्षा तं यात्रोत्सवम् ईक्षितुम्
ततो यात निराशङ्का नास्ति चेद् आस्यताम् इति ॥

7.63

मयोक्तं सुहृदः पृष्ट्वा यद् नो निष्पद्यते हितम्
तद् वो विज्ञापयिष्यामि तावत् पृच्छामि तान् इति ॥

7.64

रुमण्वता ततः प्रोक्तं कपोलागलिताश्रुणा
हैहयानां कुलं तुङ्गं चिरं विजयतां जगत् ॥

7.65

भवता साधुवृत्तेन गोत्रदासाः कृता वयम्
यन् नः संभाविताः पुत्राः प्रश्नप्रतिवचःक्षमाः ॥

7.66

इत्य् उक्त्वा निर्गते तस्मिन् सुहृदः पृष्टवान् अहम्
यस्य यद् वः स्थितं बुद्धौ तेन तत् कथ्यताम् इति ॥

7.67

ततो हरिशिखेनोक्तं न मे गमनम् ईप्सितम्
यतः शून्यानि दुर्गाणि गृह्यन्ते ऽनन्तरैर् नृपैः ॥

7.68

श्रुतम् एवार्यपुत्रेण प्रोषिते जगतीपतौ
विज्ञाय नगरीं शून्यां यत् तद् आरुणिना कृतम् ॥

7.69

दुर्गस्य च कृता रक्षा राजा च परितोषितः
ख्यापितं धीरचित्तत्वम् आत्मनश् च भवेद् इति ॥

7.70

त्वं किम् आत्थेति पृष्टः सन्न् अवोचन् मरुभूतिकः
युक्तं हरिशिखेनोक्तम् इत्य् एतच् च तपन्तकः ॥

7.71

अथोक्तवान् स्मितमुखः सासूय इव गोमुखः
किम् अत्र भण्यते को ऽन्यो मन्त्री हरिशिखाद् वरः ॥

7.72

इदं त्व् आचक्ष्व केनायं नियुक्तो दुर्गरक्षणे
रक्षतश् चानियुक्तस्य दोषम् अन्ध न पश्यसि ॥

7.73

युवराजो युवा विद्वान् कृतास्त्रो मन्दकौतुकः
भवदादिसहायश् च कथं यायाद् अचित्तताम् ॥

7.74

यच् च राजोदितं वक्ष्ये नास्ति चेद् आस्यताम् इति
तदाशयपरीक्षार्थम् अपि चेत् तन् न दुष्यति ॥

7.75

अतः पुस्तकविन्यस्त ग्रन्थबद्धार्थबुद्धयः
प्रश्नानुग्रहम् अर्हन्ति नेदृशकूटमन्त्रिणः ॥

7.76

अहं पुनर् गुणोपाय प्रयोगकुशलो यतः
चेतस्यैः सह संपर्कः प्रयोगकुशलैर् मम ॥

7.77

सुखं नः सेवितुं कालो न षाड्गुण्यकदर्थनाम्
यच् चोक्तं धर्मशास्त्रेण तत् तावद् अवधीयताम् ॥

7.78

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च
वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥

7.79

तेनोत्तिष्ठत गच्छामो यात्राम् अद्भुतदर्शनाम्
क्रीडिष्यामश् च कान्तासु स्थलीषु मृगयाम् इति ॥

7.80

तच् च मे गोमुखेनोक्तं प्रविष्टं हृदयं यतः
युक्तसच् चानुकूलं च वचः कस्मै न रोचते ॥

7.81

पुनश् च गोमुखेनोक्तं यात्रां लोकस्य गच्छतः
प्रासादतलम् आरुह्य समृद्धिर् दृश्यताम् इति ॥

7.82

अथाहम् अभ्रंलिहशङ्गचक्रं ध्वजप्रभापीडितशक्रचापम्
प्रासादम् आरोहम् उदारशोभं शशीव पूर्वाचलराजकूटम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc