भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 6

6.1

ततः स्मरसखे काले पुष्पयुक्ते निशाकरे
दिवाकरे मृदुकरे देवी पुत्रं व्यजायत ॥

6.2

पुत्रजन्म नरेन्द्रस्य जगतः सुखजन्म च
शङ्काजन्म च शत्रूणां समं समभवत् त्रयम् ॥

6.3

अथ संभूय गणकैर् उक्तं गणितजातकैः
चक्रवर्तिपिता लोकाव् उभौ विजयताम् इति ॥

6.4

ततः सचिवभार्याणां तस्मिन्न् एव दिने सुताः
अल्पकालान्तरे जाताः कनीयांसो नृपात्मजात् ॥

6.5

किम् उत्सवः किं व्यसनं किं प्राणाः प्राणयन्तु किम्
आगतं चेदिवत्सानाम् इति नासीद् विनिश्चयः ॥

6.6

जातकर्मणि निर्वृत्ते प्राप्ते च द्वादशे ऽहनि
अन्वर्थनाम्नस् तनयान् अकुर्वन् राजमन्त्रिणः ॥

6.7

वाहनेन नरेणैव कुवेरो नरवाहनः
नरवाहनदत्तो ऽस्तु दत्तस् तेन यतस् ततः ॥

6.8

इति नाम कृतं राज्ञा पुत्रस्य सपुरोधसा
भूमिहेमगजाश्वादि दानप्रीतद्विजन्मना ॥

6.9

नम्ना हरिशिखं चक्रे रुमण्वान् आत्मजं यतः
तस्मै वितीर्णवान् स्वप्ने देवदेवः शरं हरिः ॥

6.10

यौगन्धरायणः पुत्रं चकार मरुभूतिकम्
संनाहछद्मना तस्मै यतस् तं मरुतो ददुः ॥

6.11

चकार गोमुखं पुत्रम् ऋषभः संज्ञया यतः
स्वयं गोभिः प्रसन्नाभिश् चित्रं तस्मै प्रदर्शितम् ॥

6.12

पुत्रं तपन्तकं नम्ना करोति स्म वसन्तकः
यस्मात् तं तपनस् तस्मै कुण्डलछद्मना ददौ ॥

6.13

एवं लब्धश् च जातश् च यः कृतं नाम यस्य च
अहम् एव स ते चैते सर्वे हरिशिखादयः ॥

6.14

ते वयं तु यथाकालं कृतान्नप्राशनादयः
अवर्धामहि लघ्व् एव सनाथाः पादपा इव ॥

6.15

ततः कुमारवटकाम् उपाध्यायैर् अधिष्ठिताम्
सब्रह्मचर्यकैश् छात्त्रैर् धात्रीभिश् चाश्रयामहि ॥

6.16

अव्रतैर् एव चास्माभिर् अभ्यस्ताः सकलाः कलाः
सव्रतैस् तु चतस्रो ऽपि विद्याः सर्वं च वाङ्मयम् ॥

6.17

गच्छत्सु दिवसेष्व् एवम् एकदा मरुभूतिकः
बालभावाद् अनध्याये क्रीडति स्म सकन्दुकः ॥

6.18

तं तु बालस्वभावेन तस्माद् आच्छिद्य कन्दुकम्
अहं जवेन महता प्रयातः पितुर् अन्तिकम् ॥

6.19

अथानुबध्नन् मां वेगात् पटुश्वसितसंततिः
बद्धमुष्टिकरः क्रोधाद् आगतो मरुभूतिकः ॥

6.20

किं किं तातेति तातेन स पृष्ट इदम् उक्तवान्
कन्दुको मे हृतो ऽनेन तम् अयं दाप्यताम् इति ॥

6.21

ततो राज्ञा परिष्वज्य दापितापरकन्दुकः
तर्जनीतर्जितः पित्रा कुमारवटकां गतः ॥

6.22

अहम् अप्य् अङ्कम् आरोप्य तातेन परिभाषितः
मा स्म तात पुनर् भ्रातॄन् कोपयेः कोपनान् इति ॥

6.23

तथापि प्रतिषिद्धो ऽहं केलिशीलतया शिशोः
यथैनान् कोपयामि स्म तथैते माम् अकोपयन् ॥

6.24

अभ्यासम् एकदा कुर्वन् नाराचं मरुभूतिकः
इच्छति स्म च विस्रष्टुं मया च चलितं धनुः ॥

6.25

असाव् अपि च नाराचश् चलिताच् चापतश् च्युतः
मालतीमुकुलं लक्षं तन् मात्रेणैव नास्पृशत् ॥

6.26

उत्सृज्य कुपितश् चापं धावमानः स माम् अनु
आस्थानस्थमहीपाल समीपम् अगमत् ततः ॥

6.27

यौगन्धरायणो दृष्ट्वा कुपितं मरुभूतिकम्
कुपितो भर्त्सयित्वेदम् अभाषत महीपतिम् ॥

6.28

वेदिता सर्वविद्यानाम् आसन्ननवयौवनः
राजपुत्रो महाराज यौवराज्ये ऽभिषिच्यताम् ॥

6.29

यावद् यावद् धि शास्त्रज्ञाः शास्त्रार्थान् न प्रयुञ्जते
तावत् तावद् भवन्त्य् एषां कुण्ठाः कार्येषु बुद्धयः ॥

6.30

अमी रुमण्वदादीनां पुत्रा हरिशिखादयः
विजानन्तो ऽपि शास्त्राणि सुतराम् अन्धबुद्धयः ॥

6.31

वस्तुन्य् अल्पे ऽप्य् अनात्मज्ञाः संरब्धालोहिताननाः
प्रभुम् एव जिघांसन्ति मृगेन्द्रं मर्कटा इव ॥

6.32

तद् एते ऽपि नियोज्यन्ताम् अधिकारेषु केषुचित्
विज्ञापना मदीयेयं सफलीक्रियताम् इति ॥

6.33

यौगन्धरायणवचः सुभगं निशम्य प्रीत्या नरेन्द्रसभम् उच्छ्रयिताग्रहस्तम्
भोः साधु साधुनरकुञ्जरसाधुमन्त्रिन् इत्य् उज्झितासनम् अभाषत निर्व्यवस्थम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc